भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 40

40.1

चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथम् आचार्यकर्मा
वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति ॥

40.2

आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमं चोपशायी
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥

40.3

धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥

40.4

स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्न् अरण्ये नियताहारचेष्टः ॥

40.5

अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः
अनोकशायी लघु लिप्समानश् चरन् देशानेकचरः स भिक्षुः ॥

40.6

रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च
तामेव रात्रिं प्रयतेत विद्वान् अरण्यसंस्थो भवितुं यतात्मा ॥

40.7

दशैव पूर्वान्दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम्
अरण्यवासी सुकृतं दधाति मुक्त्वा त्व् अरण्ये स्वशरीरधातून् ॥

40.8

कतिस्विद् देवमुनयो मौनानि कति चाप्युत
भवन्तीति तदाचक्ष्व श्रोतुम् इच्छामहे वयम् ॥

40.9

अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः
ग्रामे वा वसतो ऽरण्यं स मुनिः स्याज्जनाधिप ॥

40.10

कथंस्विद्वसतो ऽरण्ये ग्रामो भवति पृष्ठतः
ग्रामे वा वसतो ऽरण्यं कथं भवति पृष्ठतः ॥

40.11

न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्
तथास्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः ॥

40.12

अनग्निरनिकेतश् चाप्य् अगोत्रचरणो मुनिः
कौपीनाच्छादनं यावत् तावदिच्छेच्च चीवरम् ॥

40.13

यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम्
तदास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः ॥

40.14

यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः
आतिष्ठेत मुनिर् मौनं स लोके सिद्धिमाप्नुयात् ॥

40.15

धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम्
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥

40.16

तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः
यदा भवति निर्द्वंद्वो मुनिर्मौनं समास्थितः ॥

40.17

अथ लोकमिमं जित्वा लोकं चापि जयेत्परम्
आस्येन तु यदाहारं गोवन्मृगयते मुनिः
अथास्य लोकैः सर्वो यः सो ऽमृतत्वाय कल्पते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc