भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 41

41.1

कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्
उभयोर्धावतो राजन् सूर्यचन्द्रमसोरिव ॥

41.2

अनिकेतगृहस्थेषु कामवृत्तेषु संयतः
ग्राम एव चरन्भिक्षुस् तयोः पूर्वतरं गतः ॥

41.3

अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत्
तप्येत यदि तत्कृत्वा चरेत्सोग्रं तपस्ततः ॥

41.4

यद्वै नृशंसं तदपत् ह्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः
असावनीशः स तथैव राजंस् तदार्जवं स समाधिस्तदार्यम् ॥

41.5

केनाद्य त्वं तु प्रहितो ऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः
कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति ॥

41.6

इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः
उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं त्वरन्त्वमी ब्रह्मणो लोकपा ये ॥

41.7

सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तस्तु सर्वे
शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥

41.8

पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मे ऽत्र
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥

41.9

यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥

41.10

तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि ॥

41.11

नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य
यथा प्रदेयं सततं द्विजेभ्यस् तदा ददे पूर्वम् अहं नरेन्द्र ॥

41.12

नाब्राह्मणः कृपणो जातु जीवेद् यद्यपि स्याद्ब्राह्मणी वीरपत्नी
सो ऽहं यदेवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधुः ॥

41.13

पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनो ऽहं यदि मे सन्ति लोकाः
यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥

41.14

सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकं सप्त शतान्यहानि
मधुच्युतो घृतवन्तो विशोकास् तेनान्तवन्तः प्रतिपालयन्ति ॥

41.15

तांस्ते ददामि पतमानस्य राजन् ये मे लोकास्तव ते वै भवन्तु
यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रमपेतमोहः ॥

41.16

नु तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात्पार्थिवः सन्
दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं हि न जातु राजा ॥

41.17

धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्यात्तपो धर्ममवेक्षमाणः
न मद्विधो धर्मबुद्धिर्हि राजा ह्य् एवं कुर्यात्कृपणं मां यथात्थ ॥

41.18

कुर्यामपूर्वं न कृतं यदन्यैर् विवित्समानः किम् उ तत्र साधुः
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत् तम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc