मत्स्य पुराण · अध्याय 39
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम्
किंकारणं कार्तयुगप्रधान हित्वा तद्वै वसुधाम् अन्वपद्यः ॥
ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि
तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः खेचरा देवसंघाः ॥
कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मे ऽत्र मनो ऽतिमात्रम्
किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥
इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे
ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति ॥
तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म
आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि ॥
यदा तु तांस् ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः
कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं शृणोमि ॥
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्याम् अनुसंचरन्ति
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिं चैव तु वत्सराणाम्
तान्वै नुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः ॥
यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥
असृग्रेतः पुष्परसानुयुक्तम् अन्वेति सद्यः पुरुषेण सृष्टम्
तव तरया रज आपद्यते च स गर्भभूतः समुपैति तत्र ॥
वनस्पतीन् ओषधींश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम्
चतुष्पदं द्विपदं चापि सर्व एवंभूता गर्भभूता भवन्ति ॥
अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति
आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्पृच्छतस्त्वम् ॥
शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम्
एतत्सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे ॥
वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुयुक्तम्
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥
स जायमानो ऽथ गृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥
घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा देवभावम्
इत्यष्टकेहोपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥
हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतं च
अन्यां योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह ॥
पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति
कीटाः पतंगाश्च भवन्ति पापान् न मे विवक्षास्ति महानुभाव ॥
चतुष्पदा द्विपदाः पक्षिणश्च तथाभूता गर्भभूता भवन्ति
आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥
किं स्वित्कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा
तन्मे पृष्टः शंस सर्वं यथावच् छुभांल्लोकान् येन गच्छेत्क्रमेण ॥
तपश्च दानं च शमो दमश्च ह्रीर् आर्जवं सर्वभूतानुकम्पा
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् ॥
सर्वाणि चैतानि यथोदितानि तपःप्रधानान्यभिमर्षकेण
नश्यन्ति मानेन तमो ऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परस्य
तस्यान्तवन्तः पुरुषस्य लोका न चास्य तद्ब्रह्मफलं ददाति ॥
चत्वारि कर्माणि भयंकराणि भयं प्रयच्छन्त्ययथाकृतानि
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥
न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात्
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥
इति दद्यादिति यजेद् इत्यधीयीत मे श्रुतम्
इत्येतान्यभयान्याहुस् तान्य् अवर्ज्यानि नित्यशः ॥
येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसे मानयुक्तम्
तन्निःश्रेयस् तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0