भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 3

3.1

चतुर्मुखत्वम् अगमत् कस्माल् लोकपितामहः
कथं तु लोकान् असृजद् ब्रह्मा ब्रह्मविदां वरः ॥

3.2

तपश् चचार प्रथमम् अमराणां पितामहः
आविभूतास् तथा वेदाः साङ्गोपाङ्गपदक्रमाः ॥

3.3

पुराणसर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥

3.4

अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिःसृताः
मीमांसान्यायविद्याश् च प्रमाणाष्टकसंयुताः ॥

3.5

वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः
मनसः पूर्वसृष्टा वै जाता यत् तेन मानसाः ॥

3.6

मरीचिर् अभवत् पूर्वं ततो ऽत्रिर् भगवान् ऋषिः
अङ्गिरश् चाभवत् पश्चात् पुलस्त्यस् तदनन्तरम् ॥

3.7

ततः पुलहनामा वै ततः क्रतुर् अजायत
प्रचेताश् च ततः पुत्रो वसिष्ठश् चाभवत् पुनः ॥

3.8

पुत्रो भृगुर् अभूत् तद्वन् नारदो ऽप्य् अचिराद् अभूत्
दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रान् अजिजनत् ॥

3.9

शारीरान् अथ वक्ष्यामि मातृहीनान् प्रजापतेः
अङ्गुष्ठाद् दक्षिणाद् दक्षः प्रजापतिर् अजायत ॥

3.10

धर्मः स्तनान्ताद् अभवद् धृदयात् कुसुमायुधः
भ्रूमध्याद् अभवत् क्रोधो लोभश् चाधरसंभवः ॥

3.11

बुद्धेर् मोहः समभवद् अहंकाराद् अभून् मदः
प्रमोदश् चाभवत् कण्ठान् मृत्युर् लोचनतो ण्र्प
भरतः करमध्यात् तु ब्रह्मसूनुर् अभूत् ततः ॥

3.12

एते नव सुता राजन् कन्या च दशमी पुनः
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥

3.13

बुद्धेर् मोहः समभवद् इति यत् परिकीर्तितम्
अहंकारः स्मृतः क्रोधो बुद्धिर् नाम किम् उच्यते ॥

3.14

सत्त्वं रजस् तमश् चैव गुणत्रयम् उदाहृतम्
साम्यावस्थितिर् एतेषां प्रकृतिः परिकीर्तिता ॥

3.15

केचित् प्रधानम् इत्य् आहुर् अव्यक्तम् अपरे जगुः
एतद् एव प्रजासृष्टिं करोति विकरोति च ॥

3.16

गुणेभ्यः क्षोभमाणेभ्यस् त्रयो देवा विजज्ञिरे
एका मूर्तिस् त्रयो भागा ब्रह्मविष्णुमहेश्वराः ॥

3.17

सविकारात् प्रधानात् तु महत् तत्त्वं प्रजायते
महान् इति यतः ख्यातिर् लोकानां जायते सदा ॥

3.18

अहंकारश् च महतो जायते मानवर्धनः
इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु
प्रादुर् भवन्ति चान्यानि तथा कर्मवशानि तु ॥

3.19

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम्
पायूपस्थं हस्तपादं वाक्क चेन्द्रियसंग्रहः ॥

3.20

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः
उत्सर्गानन्दनादान गत्यालापाश् च तत्क्रियाः ॥

3.21

मन एकादशं तेषां कर्मबुद्धिगुणान्वितम्
इन्द्रियावयवाः सूक्ष्मास् तस्य मूर्तिं मनीषिणः ॥

3.22

श्रयन्ति यस्मात् तन्मात्राः शरीरं तेन संस्मृतम्
शरीरयोगाज् जीवो ऽपि शरीरी गद्यते बुधैः ॥

3.23

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं शब्दतन्मात्राद् अभूच् छब्दगुणात्मकम् ॥

3.24

आकाशविकृतेर् वायुः शब्दस्पर्शगुणो ऽभवत्
वायोश् च स्पर्शतन्मात्रात् तेजश् चाविर् अभूत् ततः ॥

3.25

त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत्
तेजोविकाराद् अभवद् वारि राजंश् चतुर्गुणम् ॥

3.26

रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम्
भूमिस् तु गन्धतन्मात्राद् अभूत् पञ्चगुणान्विता ॥

3.27

प्रायो गन्धगुणा सा तु बुद्धिर् एषा गरीयसी
एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः ॥

3.28

ईश्वरेच्छावशः सो ऽपि जीवात्मा कथ्यते बुधैः
एवं षड्विंशकं प्रोक्तं शरीरम् इह मानवे ॥

3.29

सांख्यं संख्यात्मकत्वाच् च कपिलादिभिर् उच्यते
एतत् तत्त्वात्मकं कृत्वा जगद् वेधा अजीजनत् ॥

3.30

सावित्रीं लोकसृष्ट्यर्थे हृदि कृत्वा समास्थितः
ततः संजपतस् तस्य भित्वा देहम् अकल्मषम् ॥

3.31

स्त्रीरूपम् अर्धम् अकरोद् अर्धं पुरुषरूपवत्
शतरूपा च सा ख्याता सावित्री च निगद्यते ॥

3.32

सरस्वत्य् अथ गायत्री ब्रह्माणी च परन्तप
ततः स्वदेहसंभूताम् आत्मजाम् इत्य् अकल्पयत् ॥

3.33

दृष्ट्वा तां व्यथितस् तावत् कामबाणार्दितो विभुः
अहो रूपम् अहो रूपम् इति चाह प्रजापतिः ॥

3.34

ततो वासिष्ठप्रमुखा भगिनीम् इति चुक्रुशुः
ब्रह्मा न किंचिद् ददृशे तन्मुखालोकनाद् ऋते ॥

3.35

अहो रूपम् अहो रूपम् इति प्राह पुनः पुनः
ततः प्रणामनम्रां तां पुनर् एवाभ्यलोकयत् ॥

3.36

अथ प्रदक्षिणं चक्रे सा पितुर् वरवर्णिनी
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥

3.37

आविर्भूतं तत्रो वक्त्रं दक्षिणं पाण्डुगण्डवत्
विस्मयस्फुरदोष्ठं च पाश्चात्यम् उदगात् ततः ॥

3.38

चतुर्थम् अभवत् पश्चाद् वामं कामशरातुरम्
ततो ऽन्यद् अभवत् तस्य कामातुरतया तथा ॥

3.39

उत्पतन्त्यास् तदाकारा आलोकनकुतूहलात्
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम् ॥

3.40

तत् सर्वं नाशम् अगमत् स्वसुतोपगमेच्छया
तेनोर्ध्वं वक्त्रम् अभवत् पञ्चमं तस्य धीमतः
आविर्भवज्जटाभिश् च तद् वक्त्रं चावृणोत् प्रभुः ॥

3.41

ततस् तान् अब्रवीद् ब्रह्मा पुत्रान् आत्मसमुद्भवान्
प्रजाः सृजध्वम् अभितः सदेवासुरमानुषीः ॥

3.42

एवम् उक्तास् ततः सर्वे ससृजुर् विविधाः प्रजाः
गतेषु तेषु सृष्ट्यर्थं प्रणामावनताम् इमाम् ॥

3.43

उपयेमे स विश्वात्मा शतरूपाम् अनिन्दिताम्
संबभूव तया सार्धम् अतिकामातुरो विभुः
सलज्जां चकमे देवः कमलोदरमन्दिरे ॥

3.44

यावद् अब्दशतं दिव्यं यथान्यः प्राकृतो जनः
ततःकालेन महता तस्याः पुत्रो ऽभवन् मनुः ॥

3.45

स्वायंभुवो इति ख्यातः स विराड् इति नः श्रुतम्
तद्रूपगुणसामान्याद् अधिपुरुष उच्यते ॥

3.46

वैराजा यत्र ते जाता बहवः शंसितव्रताः
स्वायंभुवा महाभागाः सप्त सप्त तथापरे ॥

3.47

स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः
औत्तमिप्रमुखास् तद्वद् येसां त्वं सप्तमो ऽधुना ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc