मत्स्य पुराण · अध्याय 38
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात्
प्रभ्रंशितो ऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः ॥
अहं हि पूर्वो वयसा भवद्भयस् तेनाभिवादं भवतां न युञ्जे
यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम् ॥
अवादीस्त्वं वयसास्मि प्रवृद्ध इति वै राजन्न् अधिकः कथंचित्
यो वै विद्वांस्तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम् ॥
प्रतिकूलं कर्मणां पापमाहुस् तद्वर्तिनां प्रवणं पापलोकम्
सन्तो ऽसतो नान्ववर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी ॥
अभूद्धनं मे विपुलं महद्वै विचेष्टमानो ऽधिगन्ता तदस्मि
एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः ॥
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः
तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥
सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या
तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥
दुःखे न तप्येत सुखे न हृष्येत् समेन वर्तेत सदैव धीरः
दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत् कदाचित् ॥
भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मनसो नास्ति कश्चित्
धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥
संस्वेदजा ह्य् अण्डजा ह्य् उद्भिदश्च सरीसृपाः कृमयो ऽप्य् अप्सु मत्स्याः
तथाश्मानस्तृणकाष्ठं च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥
अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात् संतापमष्टकाहं भजेयम्
किं कुर्यां वै किंच कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥
एवं ब्रुवाणं नृपतिं ययातिम् अथाष्टकः पुनरेवान्वपृच्छत्
मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत् ॥
ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च काले यथा च
तन्मे राजन्ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम् ॥
राजाहमासं त्व् इह सार्वभौमस् ततो लोकान्महतश् चाजर्यं वै
तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम्
अध्यावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर् लोकपतेर्दुरापम्
तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥
देवस्य देवस्य निवेशने च विजित्य लोकान्न्यवसं यथेष्टम्
सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभावद्युतिरीश्वराणाम् ॥
तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्
सहाप्सरोभिर्विचरन्पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान् ॥
तत्र स्थितं मां देवसुखेषु सक्तं काले ऽतीते महति ततो ऽतिमात्रम्
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः
वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मां नरेन्द्र ॥
अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः
तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथं नु ॥
तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतो ऽस्मि
हविर्गन्धैर् दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0