मत्स्य पुराण · अध्याय 34
एवमुक्तः स राजर्षिः काव्यं स्मृत्वा महाव्रतम्
संक्रामयामास जरां तदा पुत्रे महात्मनि ॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः
प्रीतियुक्तो नरश्रेष्ठश् चचार विषयान्प्रियान् ॥
यथाकामं यथोत्साहं यथाकालं यथासुखम्
धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥
देवान् अतर्पयद् यज्ञैः श्राद्धैरपि पितामहान्
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥
अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥
धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन्
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥
स सम्प्राप्य शुभान्कामांस् तृप्तः खिन्नश्च पार्थिवः
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥
परिचिन्त्य स कालज्ञः कलाकाष्ठाश्च वीर्यवान्
पूर्णम् मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत् ॥
यथासुखं यथोत्साहं यथाकाममरिंदम
सेविता विषयाः पुत्र यौवनेन मया तव ॥
पूरो प्रीतो ऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्
राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा
यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः ॥
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम्
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥
कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥
ज्येष्ठो यदुस्तव सुतस् तुर्वसुस्तदनन्तरम्
शर्मिष्ठायाः सुतो द्रुह्युस् तथानुः पूरुरेव च ॥
कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति
एतत्संबोधयामस्त्वां स्वधर्ममनुपालय ॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
ज्येष्ठं प्रति यतो राज्यं न देयं मे कथंचन ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥
मातापित्रोर्वचनकृद् धितः पथ्यश्च यः सुतः
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥
यदुनाहमवज्ञातस् तथा तुर्वसुनापि वा
द्रुह्युणा चानुना चैवम् अप्यवज्ञा कृता भृशम् ॥
पूरुणा मे कृतं वाक्यं मानितं च विशेषतः
कनीयान्मम दायादो जरा येन धृता मम ॥
मम कामः स च कृतः पूरुणा पुत्ररूपिणा
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः
भवन्तः प्रतिजानन्तु पूरू राज्ये ऽभिषिच्यताम् ॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा
सर्वं सो ऽर्हति कल्याणं कनीयानपि स प्रभुः ॥
अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत् तव
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥
पौरजानपदैस् तुष्टैर् इत्युक्तो नाहुषस्तदा
अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम् ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥
यदोस्तु यादवा जातास् तुर्वसोर्यवनाः सुताः
द्रुह्योश्चैव सुता भोजा अनोस्तु म्लेच्छजातयः ॥
पूरोस्तु पौरवो वंशो यत्र जातो ऽसि पार्थिव
इदं वर्षसहस्रात्तु राज्यं कुरुकुलागतम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0