मत्स्य पुराण · अध्याय 33
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्द्विजः ॥
जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने ॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्व् अहम्
दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥
सितश्मश्रुधरो दीनो जरसा शिथिलीकृतः
वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥
अशक्तः कार्यकरणे परिभूतः स यौवने
सहोपजीविभिश्चैव तज्जरां नाभिकामये ॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप
जरां ग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
पापान्मातुलसम्बन्धाद् दुष्प्रजा ते भविष्यति ॥
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥
पूर्णे वर्षसहस्रे नु पुनर्दास्यामि यौवनम्
तथैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
न कामये जरां तात कामभोगप्रणाशिनीम्
बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥
संकीर्णाश्चोरधर्मेषु प्रतिलोमचरेषु च
पिशिताशिषु लोकेषु नूनं राजा भविष्यसि ॥
गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च
पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि ॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः
शर्मिष्ठायाः सुतं ज्येष्ठं द्रुह्युं वचनमब्रवीत् ॥
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम् ॥
पूर्णे वर्षसहस्रे तु ते प्रदास्यामि यौवनम्
स्वं चादास्यामि भूयो ऽहं पाप्मानं जरया सह ॥
न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्
न रागश्चास्य भवति तज्जरां ते न कामये ॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तद्द्रुह्यो वै प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥
नौर् उपप्लवसंचारो यत्र नित्यं भविष्यति
अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥
जीर्णः शिशुरिवादत्ते काले ऽन्नमशुचिर्यथा
न जुहोति च काले ऽग्निं तां जरां नाभिकामये ॥
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
जरादोषस्त्वयोक्तो यस् तस्मात्त्वं प्रतिपद्यसे ॥
प्रजाश्च यौवनं प्राप्ता विनश्यन्ति ह्य् अनो तव
अग्निप्रस्कन्दनगतस् त्वं चाप्येवं भविष्यसि ॥
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
त्वं मे प्रियतरः पुत्रस् त्वं वरीयान् भविष्यसि ॥
जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने ॥
किंचित्कालं चरेयं वै विषयान्वयसा तव
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्
स्वं चैव प्रतिपत्स्ये ऽहं पाप्मानं जरया सह ॥
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा
यथात्थ त्वं महाराज तत्करिष्यामि ते वचः ॥
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह
गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान् ॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया ॥
पूरो प्रीतो ऽस्मि ते वत्स वरं चेमं ददामि ते
सर्वकामसमृद्धार्था भविष्यति तव प्रजा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0