भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 35

35.1

एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्
राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन्मुनिः ॥

35.2

उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥

35.3

स गतः स्वर्गवासं तु न्यवसन्मुदितः सुखी
कालस्य नातिमहतः पुनः शक्रेण पातितः ॥

35.4

विवशः प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनीतलम्
स्थितश्चासीद् अन्तरिक्षे स तदेति श्रुतं मया ॥

35.5

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः
राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान्
प्रतर्दनेन शिबिना समेत्य किल संसदि ॥

35.6

कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः
कथमिन्द्रेण भगवन् पातितो मेदिनीतले ॥

35.7

सर्वमेतद् अशेषेण श्रोतुमिच्छामि तत्त्वतः
कथ्यमानं त्वया विप्र देवर्षिगणसंनिधौ ॥

35.8

देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥

35.9

तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः
श्रोतुमिच्छामि देवेश दिवि चेह च सर्वशः ॥

35.10

हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम्
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥

35.11

ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्
राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥

35.12

अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान्
फलमूलाशनो राजा वने ऽसौ न्यवसच्चिरम् ॥

35.13

स जितात्मा जितक्रोधस् तर्पयन् पितृदेवताः
अग्नींश्च विधिवज्जुह्वन् वानप्रस्थविधानतः ॥

35.14

अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥

35.15

पूर्णं सहस्रं वर्षाणाम् एवंवृत्तिर् अभून्नृपः
अम्बुभक्षः स चाब्दांस्त्रीन् आसीन् नियतवाङ्मनाः ॥

35.16

ततस्तु वायुभक्षो ऽभूत् संवत्सरमतन्द्रितः
पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं पुनः ॥

35.17

एकपादस्थितश्चासीत् षण्मासान् अनिलाशनः
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc