मत्स्य पुराण · अध्याय 32
श्रुत्वा कुमारं जातं सा देवयानी शुचिस्मिता
चिन्तयाविष्टदुःखार्ता शर्मिष्ठां प्रति भारत ॥
ततो ऽभिगम्य शर्मिष्ठां देवयान्यब्रवीदिदम्
किमर्थं वृजिनं सुभ्रूः कृतं ते कामलुब्धया ॥
ऋषिर् अभ्यागतः कश्चिद् धर्मात्मा वेदपारगः
स मया तु वरः कामं याचितो धर्मसंहतम् ॥
नाहमन्यायतः कामम् आचरामि शुचिस्मिते
तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते ॥
पद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥
शोभनं भीरु सत्यं चेत् कथं स ज्ञायते द्विजः
गोत्रनामाभिजनतः श्रोतुमिच्छामि तं द्विजम् ॥
ओजसा तेजसा चैव दीप्यमानं रविं यथा
तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच्छुचिस्मिते ॥
अन्योन्यमेवम् उक्त्वा च सम्प्रहस्य च ते मिथः
जगाम भार्गवी वेश्म तथ्यमित्यभिजानती ॥
ययातिर्देवयान्यां तु पुत्राव् अजनयन्नृपः
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥
ततः काले च कस्मिंश्चिद् देवयानी शुचिस्मिता
ययातिसहिता राजञ् जगाम हरितं वनम् ॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः
क्रीडमानान् तु विस्रब्धान् विस्मिता चेदमब्रवीत् ॥
कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः
वर्चसा रूपतश्चैव दृश्यन्ते सदृशास्तव ॥
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
किं नामधेयगोत्रे वः पुत्रका ब्राह्मणः पिता ॥
विब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्य् अहम्
ते ऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ॥
शर्मिष्ठां मातरं चैव तस्या ऊचुः कुमारकाः
इत्युक्त्वा सहितास्तेन राजानम् उपचक्रमुः ॥
नाभ्यनन्दत तान्राजा देवयान्यास् तदान्तिके
रुदन्तस्ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास्तदा ॥
दृष्ट्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥
मदधीना सती कस्माद् अकार्षीर्विप्रियं मम
तमेवासुरधर्मं त्वम् आस्थिता न बिभेषि किम् ॥
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥
यदा त्वया वृतो राजा वृत एव तदा मया
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥
पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी
त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्सि तत् ॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीद् इदम्
राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः
न्यवर्तत न सा चैव क्रोधसंरक्तलोचना ॥
अविब्रुवन्ती किंचिच्च राजानं साश्रुलोचना
अचिरादेव सम्प्राप्ता काव्यस्योशनसो ऽन्तिकम् ॥
सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता
अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्
शर्मिष्ठा यातिवृत्तास्ति दुहिता वृषपर्वणः ॥
त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥
धर्मज्ञस्त्वं महाराज यो ऽधर्मम् अकृथाः प्रियम्
तस्माज्जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया ॥
ऋतुं यो याच्यमानाया न ददाति पुमान्वृतः
भ्रूणहेत्युच्यते ब्रह्मन् स चेह ब्रह्मवादिभिः ॥
ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः
नोपैति यो हि धर्मेण ब्रह्महेत्युच्यते बुधैः ॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह
अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान् ॥
न त्व् अहं प्रत्यवेक्ष्यस्ते मदधीनो ऽसि पार्थिव
मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष ॥
क्रोधेनोशनसा शप्तो ययातिर्नाहुषस्तदा
पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत ॥
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह
प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम् ॥
नाहं मृषा वदाम्येतज् जरां प्राप्तो ऽसि भूमिप
जरां त्व् एतां त्वमन्यस्मिन् संक्रामय यदीच्छसि ॥
राज्यभाक् स भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक्तथा
यो दद्यान्मे वयः पुत्रस् तद्भवाननुमन्यताम् ॥
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
मामनुध्याय तत्त्वेन न च पापमवाप्स्यसि ॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस् तथैव च ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0