मत्स्य पुराण · अध्याय 31
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥
वृतां दासीसहस्रेण शर्मिष्ठाम् आसुरायणीम्
वासोभिरन्नपानैश्च संविभज्य सुसंवृताम् ॥
देवयान्या तु सहितः स नृपो नहुषात्मजः
विजहार बहूनब्दान् देववन्मुदितो भृशम् ॥
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी
ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥
चिन्तयामास धर्मज्ञा ऋतुप्राप्तौ च भामिनी
ऋतुकालश्च सम्प्राप्तो न कश्चिन्मे पतिर्वृतः ॥
किं प्राप्तं किंच कर्तव्यं कथं कृत्वा सुखं भवेत्
देवयानी प्रसूतासौ वृथाहं प्राप्तयौवना ॥
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्
राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः
अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत् ॥
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विस्मितः ॥
तमेकं रहसि दृष्ट्वा शर्मिष्ठा चारुहासिनी
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥
सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणश्च वा
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा
सा त्वां याचे प्रसाद्येह रन्तुमेहि नराधिप ॥
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम्
रूपं तु ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥
मामब्रवीत्तदा शुक्रो देवयानीं यदावहम्
नेयम् आह्वयितव्या ते शयने वार्षपर्वणी ॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुर् अपातकानि ॥
पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्यावचना नरेन्द्र ते
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्य् अनृतं हिनस्ति ॥
राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन्
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥
समाव् एतौ मतौ राजन् पतिः सख्याश्च यः पतिः
समं विवाह इत्याहुः सख्या मे ऽसि पतिर्यतः ॥
दातव्यं याचमानस्य हीति मे व्रतमाहितम्
त्वं च याचसि कामं मां ब्रूहि किं करवाणि तत् ॥
अधर्मात्त्राहि मां राजन् धर्मं च प्रतिपादय
त्वत्तो ऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥
त्रय एवाधना राजन् भार्या दासस्तथा सुतः
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी
सा चाहं च त्वया राजन् भरणीयां भजस्व माम् ॥
एवमुक्तस्तया राजा तथ्यम् इत्यभिजज्ञिवान्
पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयन् ॥
स समागम्य शर्मिष्ठां यथाकाममवाप्य च
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपर्वणी
लेभे गर्भं प्रथमतस् तस्मान्नृपतिसत्तमात् ॥
प्रजज्ञे च ततः काले राज्ञी राजीवलोचना
कुमारं देवगर्भाभम् आदित्यसमतेजसम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0