मत्स्य पुराण · अध्याय 30
अथ दीर्घेण कालेन देवयानी नृपोत्तम
वनं तदैव निर्याता क्रीडार्थं वरवर्णिनी ॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्
क्रीडन्त्यो ऽभिरताः सर्वाः पिबन्त्यो मधु माधवम् ॥
खादन्त्यो विविधान्भक्ष्यान् फलानि विविधानि च
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ॥
तमेव देशं सम्प्राप्तो जललिप्सुः प्रतर्षितः
ददर्श देवयानीं च शर्मिष्ठां ताश्च योषितः ॥
पिबन्त्यो ललनास्ताश्च दिव्याभरणभूषिताः
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतो ह्य् अहम् ॥
आख्यास्याम्यहम् आदत्स्व वचनं मे नराधिप
शुको नामासुरगुरुः सुतां जानीहि तस्य माम् ॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥
कथं तु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्रसुता सुभूः परं कौतूहलं हि मे ॥
सर्वमेव नरव्याघ्र विधानमनुवर्तते
विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथाः ॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥
केन चार्थेन नृपते ह्य् एनं देशं समागतः
जिघृक्षुर्वारि यत्किंचिद् अथवा मृगलिप्सया ॥
मृगलिप्सुरहं भद्रे पानीयार्थम् इहागतः
बहुधाप्यनुयुक्तो ऽस्मि त्वम् अनुज्ञातुमर्हसि ॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखे भर्ता च मे भव ॥
विद्ध्यौशनसि भद्रं ते न त्वदर्हो ऽस्मि भामिनि
अविवाह्याः स्म राजानो देवयानि पितुस्तव ॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम्
ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम् ॥
एकदेहोद्भवा वर्णाश् चत्वारो ऽपि वरानने
पृथग्धर्माः पृथक्छौचास् तेषां वै ब्राह्मणो वरः ॥
पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा
त्वं पाणिमग्रहीदग्रे वृणोमि त्वामहं ततः ॥
कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥
क्रुद्धादाशीविषात् सर्पाज् ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्रः पुरुषेण विजानता ॥
कथमाशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात्
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥
दुराधर्षतरो विप्रस् तस्माद्भीरु मतो मम
अतो ऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः
सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥
श्रुत्वैव च स राजानं दर्शयामास भार्गवः
दृष्ट्वैवम् आगतं विप्रं ययातिः पृथिवीपतिः ॥
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः
तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना ॥
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥
वृतो ऽनया पतिर्वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥
अधर्मो मां स्पृशेदेवं पापम् अस्याश्च भार्गव
वर्णसंकरतो ब्रह्मन्न् इति त्वां प्रवृणोम्यहम् ॥
अधर्मात्त्वां विमुञ्चामि वरं वरय चेप्सितम्
अस्मिन्विवाहे त्वं श्लाघ्यो रहः पापं नुदामि ते ॥
वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम्
अनया सह सम्प्रीतिम् अतुलां समवाप्नुहि ॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
संपूज्या सततं राजन् न चैनां शयने ह्वय ॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
जगाम स्वपुरं हृष्टः सो ऽनुज्ञातो महात्मना ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0