मत्स्य पुराण · अध्याय 29
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह
वृषपर्वाणम् आसीनम् इत्युवाचाविचारयन् ॥
नाधर्मश्चरितो राजन् सद्यः फलति गौर् इव
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति ॥
यदि नात्मनि पुत्रेषु न चेत्पश्यति नप्तृषु
पापमाचरितं कर्म त्रिवर्गमतिवर्तते ॥
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे
यदा घातयसे विप्रं कचमाङ्गिरसं तदा ॥
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ॥
वृषपर्वन्निबोध त्वं त्यक्ष्यामि त्वां सबान्धवम्
स्थातुं त्वद्विषये राजन् न शक्नोमि त्वया सह ॥
अद्यैवमभिजानामि दैत्यं मिथ्याप्रलापिनम्
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे ॥
नावद्यं न मृषावादं त्वयि जानामि भार्गव
त्वयि सत्यं च धर्मश्च तत्प्रसीदतु मां भवान् ॥
अद्यास्मानपहाय त्वम् इतो यास्यसि भार्गव
समुद्रं सम्प्रवेक्ष्यामि नान्यदस्ति परायणम् ॥
समुद्रं प्रविशध्वं वो दिशो वा व्रजतासुराः
दुहितुर्नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे ॥
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्
योगक्षेमकरस्ते ऽहम् इन्द्रस्येव बृहस्पतिः ॥
यत्किंचिद् असुरेन्द्राणां विद्यते वसु भार्गव
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः ॥
यत्किंचिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर
तस्येश्वरो ऽस्मि यद्येतद् देवयानी प्रसाद्यताम् ॥
ततस्तु त्वरितः शुक्रस् तेन राज्ञा समं ययौ
उवाच चैनां सुभगे प्रतिपन्नं वचस्तव ॥
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव
नाभिजानामि तत्ते ऽहं राजा वदतु मां स्वयम् ॥
यं काममभिजानासि देवयानि शुचिस्मिते
तत्ते ऽहं सम्प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये
अनुयास्यति मां तत्र यत्र दास्यति मे पिता ॥
उत्तिष्ठ धात्रि गच्छ त्वं शर्मिष्ठां शीघ्रमानय
यं च कामयते कामं देवयानी करोतु तम् ॥
ततो धात्री तत्र गत्वा शर्मिष्ठाम् इदमब्रवीत्
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः
यं सा कामयते कामं स कार्यो ऽत्र त्वयानघे
दासीत्वम् अभिजातासि देवयान्याः सुशोभने ॥
यं च कामयते कामं करवाण्यहमद्य तम्
मा गान्मन्युवशं शुक्रो देवयानी च मत्कृते ॥
ततः कन्यासहस्रेण वृता शिबिकया तदा
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात् ॥
अहं कन्यासहस्रेण दाशी ते परिचारिका
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता ॥
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम
अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते ॥
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0