मत्स्य पुराण · अध्याय 2
एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम्
भगवन्कियद्भिर्वर्षैर् भविष्यत्यन्तरक्षयः ॥
सत्त्वानि च कथं नाथ रक्षिष्ये मधुसूदन
त्वया सह पुनर्योगः कथं वा भविता मम ॥
अद्यप्रभृत्यनावृष्टिर् भविष्यति महीतले
यावद्वर्षशतं साग्रं दुर्भिक्षम् अशुभावहम् ॥
ततो ऽल्पसत्त्वक्षयदा रश्मयः सप्त दारुणाः
सप्तसप्तेर्भविष्यन्ति प्रतप्ताङ्गारवर्षिणः ॥
और्वानलो ऽपि विकृतिं गमिष्यति युगक्षये
विषाग्निश्चापि पातालात् संकर्षणमुखच्युतः
भवस्यापि ललाटोत्थस् तृतीयनयनानलः ॥
त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने
एवं दग्धा मही सर्वा यदा स्याद्भस्मसंनिभा ॥
आकाशमूष्मणा तप्तं भविष्यति परंतप
ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम् ॥
संवर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः
विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः ॥
अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम्
समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः ॥
एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम्
वेदनावमिमां गृह्य सत्त्वबीजानि सर्वशः ॥
आरोप्य रज्जुयोगेन मत्प्रदत्तेन सुव्रत
संयम्य नावं मच्छृङ्गे मत्स्यभावाभिरक्षितः ॥
एकः स्थास्यसि देवेषु दग्धेष्वपि परंतप
सोमसूर्यावहं ब्रह्मा चतुर्लोकसमन्वितः ॥
नर्मदा च नदी पुण्या मार्कण्डेयो महानृषिः
भवो वेदाः पुराणानि विद्याभिः सर्वतोवृतम् ॥
त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये
एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ॥
वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते
एवमुक्त्वा स भगवांस् तत्रैवान्तरधीयत ॥
मनुर् अप्यास्थितो योगं वासुदेवप्रसादजम्
अभ्यसन् यावद् आभूत सम्प्लवं पूर्वसूचितम् ॥
काले यथोक्ते संजाते वासुदेवमुखोद्गते
शृङ्गी प्रादुर्बभूवाथ मत्स्यरूपी जनार्दनः ॥
भुजंगो रज्जुरूपेण मनोः पार्श्वमुपागमत्
भूतान्सर्वान्समाकृष्य योगेनारोप्य धर्मवित् ॥
भुजंगरज्ज्वा मत्स्यस्य शृङ्गे नावमयोजयत्
उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम् ॥
आभूतसम्प्लवे तस्मिन्न् अतीते योगशायिना
पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा
तदिदानीं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः ॥
यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहं द्विजाः
तद् एवैकार्णवे तस्मिन् मनुः पप्रच्छ केशवम् ॥
उत्पत्तिं प्रलयं चैव वंशान्मन्वन्तराणि च
वंश्यानुचरितं चैव भुवनस्य च विस्तरम् ॥
दानधर्मविधिं चैव श्राद्धकल्पं च शाश्वतम्
वर्णाश्रमविभागं च तथेष्टापूर्तसंज्ञितम् ॥
देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि
तत्सर्वं विस्तरेण त्वं धर्मं व्याख्यातुमर्हसि ॥
महाप्रलयकालान्त एतदासीत्तमोमयम्
प्रसुप्तमिव चातर्क्यम् अप्रज्ञातमलक्षणम् ॥
अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च
ततः स्वयम्भूर् अव्यक्तः प्रभवः पुण्यकर्मणाम् ॥
व्यञ्जयन्नेतदखिलं प्रादुरासीत् तमोनुदः
यो ऽतीन्द्रियः परो व्यक्ताद् अणुर् ज्यायान् सनातनः
नारायण इति ख्यातः स एकः स्वयम् उद्बभौ ॥
यः शरीराद् अभिध्याय सिसृक्षुर्विविधं जगत्
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥
तदेवाण्डं समभवद् धेमरूप्यमयं महत्
संवत्सरसहस्रेण सूर्यायुतसमप्रभम् ॥
प्रविश्यान्तर्महातेजाः स्वयम् एवात्मसम्भवः
प्रभावाद् अपि तद्व्याप्त्या विष्णुत्वम् अगमत् पुनः ॥
तदन्तर्भगवानेष सूर्यः समभवत्पुरा
आदित्यश्चादिभूतत्वाद् ब्रह्मा ब्रह्म पठन्न् अभूत् ॥
दिवं भूमिं समकरोत् तदण्डशकलद्वयम्
स चाकरोद्दिशः सर्वा मध्ये व्योम च शाश्वतम् ॥
जरायुर्मेरुमुख्याश् च शैलास् तस्याभवंस् तदा ।
यद् औल्बं तद् अभून् मेघस् तडित्सङ्घातमण्डलम् ॥
नद्यो ऽण्डनाम्नः संभूताः पितरो मनवस् तथा
सप्त ये ऽमी समुद्राश् च ते ऽपि चान्तर्जलोद्भवाः
लवणेक्षुसुराद्याश् च नानारत्नसमन्विताः ॥
स सिसृक्षुर् अभूद् देवः प्रजापतिर् अरिन्दम
तत्तेजसश् च तत्रैष मार्तण्डः समजायत ॥
मृते ऽण्डे जायते यस्मान् मार्तण्डस् तेन संस्मृतः
रजोगुणमयं यत्तद् रूपं तस्य महात्मनः
चतुर्मुखः स भगवान् अभूल् लोकपितामहः ॥
येन सृष्टं जगत् सर्वं सदेवासुरमानुषम्
तमवेहि रजोरूपं महत् सत्त्वम् उदाहृतम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0