भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 27

27.1

कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः
कचादवेत्य तां विद्यां कृतार्था भरतर्षभ ॥

27.2

सर्व एव समागम्य शतक्रतुमथाब्रुवन्
कालस्त्वद्विक्रमस्याद्य जहि शत्रून्पुरंदर ॥

27.3

एवमुक्तस्तु सह तैस् त्रिदशैर् मघवांस्तदा
तथेत्युक्त्वोपचक्राम सो ऽपश्यद्विपिने स्त्रियः ॥

27.4

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे
वायुर्भूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥

27.5

ततो जलात् समुत्तीर्य ताः कन्याः सहितास्तदा
वस्त्राणि जगृहुस्तानि यथासंस्थान्यनेकशः ॥

27.6

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा
व्यतिक्रममजानन्ती दुहिता वृषपर्वणः ॥

27.7

ततस्तयोर् मिथस्तत्र विरोधः समजायत
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥

27.8

कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
समुदाचारहीनाया न ते श्रेयो भविष्यति ॥

27.9

आसीनं च शयानं च पिता ते पितरं मम
स्तौति पृच्छति चाभीक्ष्णं नीचस्थः सुविनीतवत् ॥

27.10

याचतस्त्वं च दुहिता स्तुवतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतो न तु गृह्णतः ॥

27.11

अनायुधा सायुधायाः किं त्वं कुप्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम् ॥

27.12

सा विस्मयं देवयानीं गतां सक्तां च वाससि
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत् ॥

27.13

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा ॥

27.14

अथ तं देशमभ्यागाद् ययातिर्नहुषात्मजः
श्रान्तयुग्यः श्रान्तरूपो मृगलिप्सुः पिपासितः ॥

27.15

नाहुषिः प्रेक्षमाणो हि स निपाने गतोदके
ददर्श कन्यां तां तत्र दीप्तामग्निशिखाम् इव ॥

27.16

तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥

27.17

का त्वं चारुमुखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥

27.18

कथं च पतिता ह्य् अस्मिन् कूपे वीरुत्तृणावृते
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥

27.19

यो ऽसौ देवैर्हतान् दैत्यान् उत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं त्वं मां नूनं न बुध्यसे ॥

27.20

एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥

27.21

जानामि त्वां च संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितां कूपाद् अस्माद् उद्धर्तुमर्हसि ॥

27.22

तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः
गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात् ॥

27.23

उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥

27.24

गते तु नाहुषे तस्मिन् देवयान्यपि निन्दिता
उवाच शोकसंतप्ता घूर्णिकामागतां पुनः ॥

27.25

त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः
नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः ॥

27.26

सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्
दृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना ॥

27.27

आचख्यौ च महाभागा देवयानी वने हता
शर्मिष्ठया महाप्राज्ञ दुहित्रा वृषपर्वणः ॥

27.28

श्रुत्वा दुहितरं काव्यस् तदा शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने ॥

27.29

दृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥

27.30

आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं ते ऽस्ति तस्येयं निष्कृतिः कृता ॥

27.31

निष्कृतिर् वास्तु वा मास्तु शृणुष्वावहितो मम
शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥

27.32

सत्यं किलैतत्सा प्राह दैत्यानामस्मि गायना
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ॥

27.33

वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः ॥

27.34

सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः
क्रोधसंरक्तनयना दर्पपूर्णानना ततः ॥

27.35

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः
प्रसादयिष्ये शर्मिष्ठाम् इत्युक्ता हि सखी मया ॥

27.35

स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः
अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि ॥

27.37

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः
अचिन्त्यं ब्रह्म निर्द्वंद्वम् ऐश्वरं हि बलं मम ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc