मत्स्य पुराण · अध्याय 26
समापितव्रतं तं तु विसृष्टं गुरुणा तदा
प्रस्थितं त्रिदशावासं देवयानीदमब्रवीत् ॥
ऋषेर् अङ्गिरसः पौत्र वृत्तेनाभिजनेन च
भ्राजसे विद्यया चैव तपसा च दमेन च ॥
ऋषिर् यथाङ्गिरा मान्यः पितुर्मम महायशाः
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥
स समापितविद्यो मां भक्तां न त्यक्तुमर्हसि
गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम् ॥
पूज्यो मान्यश्च भगवान् यथा मम पिता तव
तथा त्वमनवद्याङ्गि पूजनीयतमा मता ॥
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥
असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः
तदाप्रभृति या प्रीतिस् तां त्वमेव स्मरस्व मे ॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते
प्रसीद सुभ्रूर्मह्यं त्वं गुरोर् गुरुतरा शुभे ॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने
सुखेनाध्युषितो भद्रे न मन्युर्विद्यते मम ॥
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि
अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथान्तरे
अप्रमत्तोद्यता नित्यम् आराधय गुरुं मम ॥
दैत्यैर्हतस्त्वं यद्भर्तृ बुद्ध्या त्वं रक्षितो मया
यदि मां धर्मकामार्थं प्रत्याख्यास्यसि धर्मतः ॥
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः
गुरुणा चाभ्यनुज्ञातः काममेव शपस्व माम् ॥
आर्षं धर्मं ब्रुवाणो ऽहं देवयानि यथा त्वया
शप्तुं नार्हो ऽस्मि कल्याणि कामतो ऽद्य च धर्मतः ॥
तस्माद्भवत्या यः कामो न तथा सम्भविष्यति
ऋषिपुत्रो न ते कश्चिज् जातु पाणिं ग्रहीष्यति ॥
फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तया
अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति ॥
एवमुक्त्वा नृपश्रेष्ठ देवयानीं कचस्तदा
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥
तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥
त्वं कचास्मद्धितं कर्म कृतवान्महदद्भुतम्
न ते यशः प्रणशिता भागभाक्च भविष्यसि ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0