भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 28

28.1

यः परेषां नरो नित्यम् अतिवादांस्तितिक्षति
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥

28.2

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा
स यन्तेत्युच्यते सद्भिर् न यो रश्मिषु लम्बते ॥

28.3

यः समुत्पतितं क्रोधम् अक्रोधने नियच्छति
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥

28.4

यः समुत्पतितं कोपं क्षमयैव निरस्यति
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥

28.5

यस्तु भावयते धर्मं यो ऽतिमात्रं तितिक्षति
यश्च तप्तो न तपति भृशं सो ऽर्थस्य भाजनम् ॥

28.6

यो यजेदश्वमेधेन मासि मासि शतं समाः
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः ॥

28.7

ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः
नैतत्प्राज्ञस्तु कुर्वीत विदुस्ते न बलाबलम् ॥

28.8

वेदाहं तात बालापि कार्याणां तु गतागतम्
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले ॥

28.9

शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा
असत्संकीर्णवृत्तेषु वासो मम न रोचते ॥

28.10

पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च
न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥

28.11

ये नैनमभिजानन्ति वृत्तेनाभिजनेन च
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥

28.12

तन्मे मथ्नाति हृदयम् अग्निकल्पमिवारणम्
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ॥

28.13

न ह्य् अतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc