मत्स्य पुराण · अध्याय 25
किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले
ज्येष्ठस्यापि यदोर्वंशः किमर्थं हीयते श्रिया ॥
अन्यद्ययातिचरितं सूत विस्तरतो वद
यस्मात्तत्पुण्यमायुष्यम् अभिनन्द्यं सुरैरपि ॥
एतदेव पुरा पृष्टः शतानीकेन शौनकः
पुण्यं पवित्रमायुष्यं ययातिचरितं महत् ॥
ययातिः पूर्वजो ऽस्माकं दशमो यः प्रजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
आनुपूर्व्याच्च मे शंस पूरोर्वंशधरान्नृपान् ॥
ययातिरासीद्राजर्षिर् देवराजसमद्युतिः
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥
तत्ते ऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥
सुराणामसुराणां च समजायत वै मिथः
ऐश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे ॥
जिगीषया ततो देवा वव्रुराङ्गिरसं मुनिम्
पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे ॥
ब्राह्मणौ ताव् उभौ नित्यम् अन्योन्यं स्पर्धिनौ भृशम्
तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान् ॥
तान्पुनर् जीवयामास काव्यो विद्याबलाश्रयात्
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥
असुरास्तु निजघ्नुर्यान् सुरान्समरमूर्धनि
न तान्संजीवयामास बृहस्पतिरुदारधीः ॥
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्
संजीवनीं ततो देवा विषादमगमन्परम् ॥
अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥
भजमानान्भजस्वास्मान् कुरु साहाय्यमुत्तमम्
यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि ॥
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि
वृषपर्वणः समीपे ऽसौ शक्यो द्रष्टुं त्वया द्विजः ॥
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्
तम् आराधयितुं शक्तो नान्यः कश्चिदृते त्वया ॥
देवयानी च दयिता सुता तस्य महात्मनः
ताम् आराधयितुं शक्तो नान्यः कश्चन विद्यते ॥
शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च
देवयान्यां तु तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥
तदा हि प्रेषितो देवैः समीपे वृषपर्वणः
तथेत्युक्त्वा तु स प्रायाद् बृहस्पतिसुतः कचः ॥
स गत्वा त्वरितो राजन् देवैः सम्पूजितः कचः
असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह ॥
ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः
नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान् ॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो
अनुमन्यस्व मां ब्रह्मन् सहस्रपरिवत्सरान् ॥
कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः
अर्चयिष्ये ऽहमर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः ॥
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥
व्रतं च व्रतकालं च यथोक्तं प्रत्यगृह्णत
आराधयन्नुपाध्यायं देवयानीं च भारत ॥
नित्यमाराधयिष्यंस्तां युवा यौवनगोचराम्
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम्
पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम् ॥
देवयान्यपि तं विप्रं नियमव्रतचारिणम्
अनुगायन्ती ललना रहः पर्यचरत्तदा ॥
पञ्च वर्षशतान्येवं कचस्य चरतो भृशम्
तत्तत्तीव्रं व्रतं बुद्ध्वा दानवास्तं ततः कचम् ॥
गा रक्षन्तं वने दृष्ट्वा रहस्येनममर्षिताः
जघ्नुर् बृहस्पतेर् द्वेषान् निजरक्षार्थम् एव च ॥
हत्वा सालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम्
ततो गावो निवृत्तास्ता अगोपाः स्वनिवेशनम् ॥
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात्
उवाच वचनं काले देवयान्यथ भार्गवम् ॥
हुतं चैवाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥
व्यक्तं हतो धृतो वापि कचस्तात भविष्यति
तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम् ॥
अथेह्येहीति शब्देन मृतं संजीवयाम्यहम्
ततः संजीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत् ॥
आहूतः प्रादुरभवत् कचः शुक्रं ननाम स
हतो ऽहमिति चाचख्यौ राक्षसैर् धिषणात्मजः ॥
स पुनर्देवयान्युक्तः पुष्पाहारे यदृच्छया
वनं ययौ कचो विप्रः पठन्ब्रह्म च शाश्वतम् ॥
वने पुष्पाणि चिन्वन्तं ददृशुर् दानवाश्च तम्
ततो ऽद्वितीयं तं हत्वा दग्धं कृत्वा च चूर्णवत्
प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा ॥
देवयान्यथ भूयो ऽपि पितरं वाक्यमब्रवीत्
पुष्पाहारप्रेषणकृत् कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते ॥
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
विद्यया जीवितो ऽप्येवं हन्यते करवाणि किम् ॥
मैनं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनु प्रशोचेत्
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्राश्च देवा वसवो ऽश्विनौ च ॥
सुरद्विषश्चैव जगच्च सर्वम् उपस्थितं मत्तपसः प्रभावात्
अशक्यो ऽयं जीवयितुं द्विजातिः संजीवितो यो वध्यते चैव भूयः ॥
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः
ऋषेः सुपुत्रं तमथापि पौत्रं कथं न शोचे यमहं न रुद्याम् ॥
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचो ऽभिरूपः ॥
स त्व् एवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्सूदयन्ति ॥
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर् व्यर्थं प्रस्तुतो दानवैर्हि
तत्कर्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥
स तेनापृष्टो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार
तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स ॥
भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम्
न त्व् एवं स्यात्तपसः क्षयो मे तत क्लेशं घोरतरं स्मरामि ॥
असुरैः सुरायां भवतो ऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य
ब्राह्मीं मायां त्व् आसुरी त्व् अत्र माया त्वयि स्थिते कथम् एवाभिबाधते ॥
किं ते प्रियं करवाण्यद्य वत्से विनैव मे जीवितं स्यात्कचस्य
नान्यत्र कुक्षेर्मम भेदनाच्च दृश्येत् कचो मद्गतो देवयानि ॥
द्वौ मां शोकाव् अग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः
कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥
संसिद्धरूपो ऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥
न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात्
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्याम् अवाप्नुहि ॥
पुत्रो भूत्वा निष्क्रमस्वोदरान्मे भित्त्वा कुक्षिं जीवय मां च तात
अवेक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥
गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः
प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः ॥
दृष्ट्वा च तं पतितं वेदराशिम् उत्थापयामास ततः कचो ऽपि
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥
निधिं निधीनां वरदं वराणां ये नाद्रियन्ते गुरुमर्चनीयम्
प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
सुरापानाद् वञ्चनात् प्रापयित्वा संज्ञानाशं चेतसश्चापि घोरम्
दृष्ट्वा कचं चापि तथाभिरूपं पीतं तथा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः
काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रत्यसौ जातशङ्कः ॥
यो ब्राह्मणो ऽद्यप्रभृतीह कश्चिन् मोहात्सुरां पास्यति मन्दबुद्धिः
अपेतधर्मा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च ॥
मया चेमां विप्रधर्मोक्तसीमां मर्यादां वै स्थापितां सर्वलोके
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोपशृण्वन्तु सर्वे ॥
इतीदमुक्त्वा स महाप्रभावस् तपोनिधीनां निधिर् अप्रमेयः
तान्दानवांश्चैव निगूढबुद्धीन् इदं समाहूय वचो ऽभ्युवाच ॥
आचक्षे वो दानवा बालिशाः स्थ शिष्यः कचो वत्स्यति मत्समीपे
संजीवनीं प्राप्य विद्यां मयायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥
गुरोरुष्य सकाशे च दश वर्षशतानि सः
अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0