भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 24

24.1

ततः संवत्सरस्यान्ते द्वादशादित्यसंनिभः
दिव्यपीताम्बरधरो दिव्याभरणभूषितः ॥

24.2

तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसंनिभः
सर्वार्थशास्त्रविद्धीमान् हस्तिशास्त्रप्रवर्तकः ॥

24.3

नाम यद्राजपुत्रीयं विश्रुतं गजवैद्यकम्
राज्ञः सोमस्य पुत्रत्वाद् राजपुत्रो बुधः स्मृतः ॥

24.4

जातमात्रः स तेजांसि सर्वाण्येवाजयद्बली
ब्रह्माद्यास्तत्र चाजग्मुर् देवा देवर्षिभिः सह ॥

24.5

बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा
अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः ॥

24.6

ततः सा लज्जिता तेषां न किंचिदवदत्तदा
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥

24.7

सोमस्येति चिरादाह ततो ऽगृह्णाद्विधुः सुतम्
बुध इत्यकरोन्नाम्ना प्रादाद्राज्यं च भूतले ॥

24.8

अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः
गृहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥

24.9

पश्यतां सर्वदेवानां तत्रैवान्तरधीयत
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् ॥

24.10

अश्वमेधशतं साग्रम् अकरोद्यः स्वतेजसा
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः ॥

24.11

हिमवच्छिखरे रम्ये समाराध्य जनार्दनम्
लोकैश्वर्यमगाद्राजा सप्तद्वीपपतिस्तदा ॥

24.12

केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः
उर्वशी यस्य पत्नीत्वम् अगमद्रूपमोहिता ॥

24.13

सप्तद्वीपा वसुमती सशैलवनकानना
धर्मेण पालिता तेन सर्वलोकहितैषिणा ॥

24.14

चामरग्राहिणी कीर्तिः सदा चैवाङ्गवाहिका
विष्णोः प्रसादाद्देवेन्द्रो ददाव् अर्धासनं तदा ॥

24.15

धर्मार्थकामान्धर्मेण समम् एवाभ्यपालयत्
धर्मार्थकामाः संद्रष्टुम् आजग्मुः कौतुकात्पुरा ॥

24.16

जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्
भक्त्या चक्रे ततस्तेषाम् अर्घ्यपाद्यादिकं नृपः ॥

24.17

आसनत्रयमानीय दिव्यं कनकभूषितम्
निविश्याथाकरोत्पूजाम् ईषद्धर्मे ऽधिकां पुनः ॥

24.18

जग्मतुस्तेन कामार्थाव् अतिकोपं नृपं प्रति
अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि ॥

24.19

कामो ऽप्याह तवोन्मादो भविता गन्धमादने
कुमारवनमाश्रित्य वियोगादुर्वशीभवात् ॥

24.20

धर्मो ऽप्याह चिरायुस् त्वं धार्मिकश्च भविष्यसि
संततिस्तव राजेन्द्र यावच्चन्द्रार्कतारकम् ॥

24.21

शतशो वृद्धिमायातु न नाशं भुवि यास्यति
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् ॥

24.22

अहन्यहनि देवेन्द्रं द्रष्टुं याति स राजराट्
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम् ॥

24.23

सार्धमर्केण सो ऽपश्यन् नीयमानामथाम्बरे
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम् ॥

24.24

तं विनिर्जित्य समरे विविधायुधपाणिना
बुधपुत्रेण वायव्यम् अस्त्रं मुक्त्वा यशो ऽर्थिना ॥

24.25

तथा शक्रो ऽपि समरे येन चैवं विनिर्जितः
मित्रत्वम् अगमद् देवैर् ददाव् इन्द्राय चोर्वशीम् ॥

24.26

ततःप्रभृति मित्रत्वम् अगमत् पाकशासनः
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम् ॥

24.27

प्रादाद्वज्रीति संतुष्टो गेयतां भरतेन च
सा पुरूरवसः प्रीत्या गायन्ती चरितं महत् ॥

24.28

लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम्
मेनकामुर्वशीं रम्भां नृत्यतेति तदादिशत् ॥

24.29

ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी
सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता ॥

24.30

विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम्
शशाप भरतः क्रोधाद् वियोगादस्य भूतले ॥

24.31

पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि
पुरूरवाः पिशाचत्वं तत्रैवानुभविष्यति ॥

24.32

ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम्
शापान्ते भरतस्याथ उर्वशी बुधसूनुतः ॥

24.33

अजीजनत्सुतानष्टौ नामतस्तान्निबोधत
आयुर् दृढायुर् अश्वायुर् धनायुर् धृतिमान्वसुः ॥

24.34

शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः
आयुषो नहुषः पुत्रौ वृद्धशर्मा तथैव च ॥

24.35

रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः
रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम् ॥

24.36

रजिराराधयामास नारायणमकल्मषम्
तपसा तोषितो विष्णुर् वरान्प्रादान्महीपते ॥

24.37

देवासुरमनुष्याणाम् अभूत्स विजयी तदा
अथ देवासुरं युद्धम् अभूद् वर्षशतत्रयम् ॥

24.38

प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः
ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः ॥

24.39

अनयोर्विजयी कः स्याद् रजिर्यत्रेति सो ऽब्रवीत्
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः ॥

24.40

दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्
नासुरैः प्रतिपन्नं तत् प्रतिपन्नं सुरैस्तथा ॥

24.41

स्वामी भव त्वमस्माकं संग्रामे नाशय द्विषः
ततो विनाशिताः सर्वे ये ऽवध्या वज्रपाणिना ॥

24.42

पुत्रत्वमगमत्तुष्टस् तस्येन्द्रः कर्मणा विभुः
दत्त्वेन्द्राय तदा राज्यं जगाम तपसे रजिः ॥

24.43

रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम्
यज्ञभागं च राज्यं च तपोबलगुणान्वितैः ॥

24.44

राज्यभ्रष्टस्तदा शक्रो रजिपुत्रैर्निपीडितः
प्राह वाचस्पतिं दीनः पीडितो ऽस्मि रजेः सुतैः ॥

24.45

न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ॥

24.46

ततो बृहस्पतिः शक्रम् अकरोद्बलदर्पितम्
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा ॥

24.47

गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः
जिनधर्मं समास्थाय वेदबाह्यं स वेदवित् ॥

24.48

वेदत्रयीपरिभ्रष्टांश् चकार धिषणाधिपः
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान् ॥

24.49

जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान् ॥

24.50

यतिर्ययातिः संयातिर् उद्भवः पाचिरेव च
शर्यातिर्मेघजातिश्च सप्तैते वंशवर्धनाः ॥

24.51

यतिः कुमारभावे ऽपि योगी वैखानसो ऽभवत्
ययातिश्चाकरोद्राज्यं धर्मैकशरणः सदा ॥

24.52

शर्मिष्ठा तस्य भार्याभूद् दुहिता वृषपर्वणः
भार्गवस्यात्मजा तद्वद् देवयानी च सुव्रता ॥

24.53

ययातेः पञ्च दायादास् तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ॥

24.54

तथा द्रुह्युमनुं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ ॥

24.55

ययातिर्नाहुषश्चासीद् राजा सत्यपराक्रमः
पालयामास स महीम् ईजे च विधिवन्मखैः ॥

24.56

अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा
अथाजयत्प्रजाः सर्वा ययातिरपराजितः ॥

24.57

स शाश्वतीः समा राजा प्रजा धर्मेण पालयन्
जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम् ॥

24.58

जराभिभूतः पुत्रान् स राजा वचनमब्रवीत्
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च पार्थिवः ॥

24.59

यौवनेन चलान्कामान् युवा युवतिभिः सह
विहर्तुम् अहमिच्छामि साहाय्यं कुरुतात्मजाः ॥

24.60

तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्
साहाय्यं भवतः कार्यम् अस्माभिर्यौवनेन किम् ॥

24.61

ययातिरब्रवीत् पुत्राञ् जरा मे प्रतिगृह्यताम्
यौवनेनाथ भवतां चरेयं विषयानहम् ॥

24.62

यजतो दीर्घसत्त्रैर्मे शापाच्चोशनसो मुनेः
कामार्थः परिहीनो मे ऽतृप्तो ऽहं तेन पुत्रकाः ॥

24.63

स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः
अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥

24.64

न ते ऽस्य प्रत्यगृह्णन्त यदुप्रभृतयो जराम्
चतुरस्तान्स राजर्षिर् अशपच्चेति नः श्रुतम् ॥

24.65

तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः
जरां मा देहि नवया तन्वा मे यौवनात्सुखी ॥

24.66

अहं जरां तवादाय राज्ये स्थास्यामि चाज्ञया
एवमुक्तः स राजर्षिस् तपोवीर्यसमाश्रयात् ॥

24.67

संस्थापयामास जरां तदा पुत्रे महात्मनि
पौरवेणाथ वयसा राजा यौवनमास्थितः ॥

24.68

ययातेश्चाथ वयसा राज्यं पूरुरकारयत्
ततो वर्षसहस्रान्ते ययातिरपराजितः ॥

24.69

अतृप्त इव कामानां पूरुं पुत्रमुवाच ह
त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः ॥

24.70

पौरवो वंश इत्येष ख्यातिं लोके गमिष्यति
ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च ॥

24.71

कालेन महता पश्चात् कालधर्मम् उपेयिवान्
पूरुवंशं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः
यत्र ते भारता जाता भरतान्वयवर्धनाः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc