मत्स्य पुराण · अध्याय 23
सोमः पितॄणामधिपः कथं शास्त्रविशारद
तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः ॥
आदिष्टो ब्रह्मणा पूर्वम् अत्रिः सर्गविधौ पुरा
अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान्प्रभुः ॥
यदानन्दकरं ब्रह्म जगत्क्लेशविनाशनम्
ब्रह्मविष्ण्वर्करुद्राणाम् अभ्यन्तरमतीन्द्रियम् ॥
शान्तिकृच् छान्तमनसस् तदन्तर्नयने स्थितम्
माहात्म्यात्तपसा विप्राः परमानन्दकारकम् ॥
यस्मादुमापतिः सार्धम् उमया तमधिष्ठितः
तं दृष्ट्वा चाष्टमांशेन तस्मात्सोमो ऽभवच्छिशुः ॥
अधः सुस्राव नेत्राभ्यां धाम तच्चाम्बुसम्भवम्
दीपयन्विश्वमखिलं ज्योत्स्नया सचराचरम् ॥
तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया
गर्भो भूत्वोदरे तासाम् आस्थितो ऽब्दशतत्रयम् ॥
आशास्तं मुमुचुर्गर्भम् अशक्ता धारणे ततः
समादायाथ तं गर्भम् एकीकृत्य चतुर्मुखः ॥
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्
स्यन्दने ऽथ सहस्राश्वे वेदशक्तिमये प्रभुः ॥
आरोप्य लोकमनयद् आत्मीयं स पितामह
तत्र ब्रह्मर्षिभिः प्रोक्तम् अस्मत्स्वामी भवत्वयम् ॥
ऋषिभिर्देवगन्धर्वैर् ओषधीभिस्तथैव च
तुष्टुवुः सोमदेवत्यैर् ब्रह्माद्या मन्त्रसंग्रहैः ॥
स्तूयमानस्य तस्याभूद् अधिको धामसम्भवः
तेजोवितानादभवद् भुवि दिव्यौषधीगणः ॥
तद्दीप्तिरधिका तस्माद् रात्रौ भवति सर्वदा
तेनौषधीशः सोमो ऽभूद् द्विजेशश्चापि गद्यते ॥
वेदधामरसं चापि यदिदं चन्द्रमण्डलम्
क्षीयते वर्धते चैव शुक्ले कृष्णे च सर्वदा ॥
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ
रूपलावण्यसंयुक्तास् तस्मै कन्याः सुवर्चसः ॥
ततः पद्मसहस्राणां सहस्राणि दशैव तु
तपश्चचार शीतांशुर् विष्णुध्यानैकतत्परः ॥
ततस्तुष्टस्तु भगवांस् तस्मै नारायणो हरिः
वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः ॥
ततो वव्रे वरान्सोमः शक्रलोकं जयाम्यहम्
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे ॥
राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः
रक्षःपालः शिवो ऽस्माकम् आस्तां शूलधरो हरः ॥
तथेत्युक्तः स आजह्रे राजसूयं तु विष्णुना
होतात्रिर् भृगुरध्वर्युर् उद्गाताभूच्चतुर्मुखः ॥
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्
सदस्याः सनकाद्यास्तु राजसूयविधौ स्मृताः ॥
चमसाध्वर्यवस्तत्र विश्वे देवा दशैव तु
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम् ॥
ततः समाप्ते ऽवभृथे तद्रूपालोकनेच्छवः
कामबाणाभितप्ताङ्ग्यो नव देव्यः सिषेविरे ॥
लक्ष्मीर्नारायणं त्यक्त्वा सिनीवाली च कर्दमम्
द्युतिर्विभावसुं तद्वत् तुष्टिर्धातारमव्ययम् ॥
प्रभा प्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम्
कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम् ॥
धृतिस् त्यक्त्वा पीतं नन्दिं सोममेवाभजंस्तदा
स्वकीया इव सोमो ऽपि कामयामास तास्तदा ॥
एवं कृतापचारस्य तासां भर्तृगणस्तदा
न शशाकापचाराय शापैः शस्त्रादिभिः पुनः ॥
तथाप्यराजत विधुर् दशधा भावयन्दिशः
सोमः प्राप्याथ दुष्प्राप्यम् ऐश्वर्यमृषिसंस्कृतम्
सप्तलोकैकनाथत्वम् अवाप तपसा तदा ॥
कदाचिदुद्यानगतामपश्यद् अनेकपुष्पाभरणैश्च शोभिताम्
बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गे ऽप्यतिदुर्बलाङ्गीम् ॥
भार्यां च तां देवगुरोर् अनङ्ग बाणाभिरामायतचारुनेत्राम्
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ ॥
सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततो ऽपि ॥
न तृप्तिरासीच्च गृहे ऽपि तस्य तारानुरक्तस्य सुखागमेषु
बृहस्पतिस् तद्विरहाग्निदग्धस् तद्ध्याननिष्ठैकमना बभूव ॥
शशाक शापं न च दातुम् अस्मै न मन्त्रशस्त्राग्निविषैरशेषैः
तस्यापकर्तुं विविधैरुपायैर् नैवाभिचारैरपि वागधीशः ॥
स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्गतप्तः
स याच्यमानो ऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः ॥
महेश्वरेणाथ चतुर्मुखेण साध्यैर् मरुद्भिः सह लोकपालैः
ददौ यदा तां न कथंचिद् इन्दुस् तदा शिवः क्रोधपरो बभूव ॥
यो वामदेवः प्रथितः पृथिव्याम् अनेकरुद्रार्चितपादपद्मः
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः ॥
धनुर्गृहीत्वाजगवं पुरारिर् जगाम भूतेश्वरसिद्धजुष्टः
युद्धाय सोमेन विशेषदीप्त तृतीयनेत्रानलभीमवक्त्रः ॥
सहैव जग्मुश्च गणेशकाद्या विंशच्चतुःषष्टिगणास्त्रयुक्ताः
यक्षेश्वरः कोटिशतैर् अनेकैर् युतो ऽन्वगात् स्यन्दनसंस्थितानाम् ॥
वेतालयक्षोरगकिंनराणां पद्मेन चैकेन तथार्बुदेन
लक्षैस् त्रिभिर् द्वादशभी रथानां सोमो ऽप्यगात्तत्र विवृद्धमन्युः ॥
नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः
जग्मुर्भयं सप्त तथैव लोकाश् चचाल भूर् द्वीपसमुद्रगर्भा ॥
स सोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः
अथाभवद् भीषणभीमसेन सैन्यद्वयस्यापि महाहवो ऽसौ ॥
अशेषसत्त्वक्षयकृत्प्रवृद्धस् तीक्ष्णायुधास्त्रज्वलनैकरूपः
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ॥
पतन्ति शस्त्राणि तथोज्ज्वलानि स्वर्भूमिपातालमथो दहन्ति
रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच सोमो ऽपि सोमास्त्रममोघवीर्यम् ॥
तयोर्निपातेन समुद्रभूम्योर् अथान्तरिक्षस्य च भीतिरासीत्
तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहो ऽपि ॥
अन्तः प्रविश्याथ कथं कथंचिन् निवारयामास सुरैः सहैव
अकारणं किं क्षयकृज्जनानां सोम त्वयापीत्थम् अकारि कार्यम् ॥
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्
पापग्रहस्त्वं भविता जनेषु शान्तो ऽप्यलं नूनमथो सितान्ते
भार्यामिमामर्पय वाक्पतेस्त्वं न चावमानो ऽस्ति परस्वहारे ॥
तथेति चोवाच हिमांशुमाली युद्धाद् अपाक्रामदतः प्रशान्तः
बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं सरुद्रः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0