मत्स्य पुराण · अध्याय 22
कस्मिन्काले च तच्छ्राद्धम् अनन्तफलदं भवेत्
कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत्
तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत् ॥
अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये
यत्किंचिद्दीयते तत्र तदक्षयमुदाहृतम् ॥
तीर्थानि यानि शस्तानि पितॄणां वल्लभानि च
नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः ॥
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम्
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥
एष्टव्या बहवः पुत्रा यद्येको ऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा
यत्राविमुक्तसांनिध्यं भुक्तिमुक्तिफलप्रदम् ॥
पितॄणां वल्लभं तद्वत् पुण्यं च विमलेश्वरम्
पितृतीर्थं प्रयागं तु सर्वकामफलप्रदम् ॥
वटेश्वरस्तु भगवान् माधवेन समन्वितः
योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥
दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च
नन्दाथ ललिता तद्वत् तीर्थं मायापुरी शुभा ॥
तथा मित्रपदं नाम ततः केदारमुत्तमम्
गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् ॥
तीर्थं ब्रह्मसरस्तद्वच् छतद्रुसलिले ह्रदे
तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम् ॥
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥
यत्र तत्काञ्चनं द्वारम् अष्टादशभुजो हरः
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ॥
तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत्
कृतशौचं महापुण्यं सर्वपापनिषूदनम् ॥
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥
संगमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा
कुरुक्षेत्रं महापुण्यं सर्वतीर्थसमन्वितम् ॥
तथा च सरयूः पुण्या सर्वदेवनमस्कृता
इरावती नदी तद्वत् पितृतीर्थाधिवासिनी ॥
यमुना देविका काली चन्द्रभागा दृषद्वती
नदी वेणुमती पुण्या परा वेत्रवती तथा ॥
पितॄणां वल्लभा ह्य् एताः श्राद्धे कोटिगुणा मताः
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥
अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम्
नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ॥
तथा रुद्रसरः पुण्यं सरो मानसमेव च
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥
पूर्वमित्रपदं तद्वद् वैद्यनाथं महाफलम्
क्षिप्रा नदी महाकालस् तथा कालञ्जरं शुभम् ॥
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम्
भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च ॥
गयापिण्डप्रदानेन समान्याहुर्महर्षयः
एतानि पितृतीर्थानि सर्वपापहराणि च ॥
स्मरणादपि लोकानां किम् उ श्राद्धकृतां नृणाम्
ओंकारं पितृतीर्थं च कावेरी कपिलोदकम् ॥
सम्भेदश् चण्डवेगायास् तथैवामरकण्टकम्
कुरुक्षेत्राच्छतगुणं तस्मिन्स्नानादिकं भवेत् ॥
शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम्
सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥
श्राद्धे दाने तथा होमे स्वाध्याये जलसंनिधौ
कायावरोहणं नाम तथा चर्मण्वती नदी ॥
गोमती वरणा तद्वत् तीर्थमौशनसं परम्
भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम् ॥
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम्
तथा पापहरं नाम पुण्याथ तपती नदी ॥
मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा
महाबोधिः पाटला च नागतीर्थमवन्तिका ॥
तथा वेणा नदी पुण्या महाशालं तथैव च
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥
शतरुद्रा शताह्वा च तथा विश्वपदं परम्
अङ्गारवाहिका तद्वन् नदौ तौ शोणघर्घरौ ॥
कालिका च नदी पुण्या वितस्ता च नदी तथा
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥
श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम्
द्रोणी वाटनदी धारा सरित्क्षीरनदी तथा ॥
गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः
द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती ॥
नदी मणिमती नाम तथा च गिरिकर्णिका
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते
तीर्थं मेघकरं नाम स्वयमेव जनार्दनः ॥
यत्र शार्ङ्गधरो विष्णुर् मेखलायामवस्थितः
तथा मन्दोदरीतीर्थं तीर्थं चम्पा नदी शुभा ॥
तथा सामलनाथश्च महाशालनदी तथा
चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत् ॥
अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम्
श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम् ॥
महेन्द्रं च तथा पुण्यम् अथ श्रीरङ्गसंज्ञितम्
एतेष्वपि सदा श्राद्धम् अनन्तफलदं स्मृतम् ॥
दर्शनादपि चैतानि सद्यः पापहराणि वै
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी
नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम् ॥
तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम्
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥
श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत्
स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ॥
श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम्
तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥
भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम्
पुण्यं रामेश्वरं तद्वद् एलापुरमलं पुरम् ॥
अङ्गभूतं च विख्यातम् आमर्दकम् अलम्भुषम्
आम्रातकेश्वरं तद्वद् एकाम्भकमतः परम् ॥
गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम्
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥
रामाधिवासस्तत्रापि तथा सौमित्रिसंगमः
इन्द्रकीलं महानादं तथा च प्रियमेलकम् ॥
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु
एतेषु सर्वदेवानां सांनिध्यं दृश्यते यतः ॥
दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम्
बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम् ॥
तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥
तथैव पितृतीर्थं तु यत्र गोदावरी नदी
युता लिङ्गसहस्रेण सर्वान्तरजलावहा ॥
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम्
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥
तत्तीर्थं हव्यकव्यानाम् अप्सरोयुगसंज्ञितम्
श्राद्धाग्निकार्यदानेषु तथा कोटिशताधिकम् ॥
तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम्
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥
निहत्य नमुचिं शक्रस् तपसा स्वर्गमाप्तवान्
तत्र दत्तं नरैः श्राद्धम् अनन्तफलदं भवेत् ॥
तीर्थं तु पुष्करं नाम शालग्रामं तथैव च
सोमपानं च विख्यातं यत्र वैश्वानरालयम् ॥
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च
मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥
वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा
कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः ॥
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥
विन्ध्ययोगश्च गङ्गायास् तथा नदीतटं शुभम्
कुब्जाभ्रं तु तथा तीर्थम् उर्वशीपुलिनं तथा ॥
संसारमोचनं तीर्थं तथैव ऋणमोचनम्
एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यमश्नुते ॥
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च
तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम् ॥
ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च
पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥
घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च
तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥
अश्वतीर्थं च विख्यातम् अनन्तं श्राद्धदानयोः
तीर्थं वेदशिरो नाम तथैवौघवती नदी ॥
तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥
तथाच बदरीतीर्थं गणतीर्थं तथैव च
जयन्तं विजयं चैव शक्रतीर्थं तथैव च ॥
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा
तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥
वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥
तीर्थं मातृगृहं नाम करवीरपुरं तथा
कुशेशयं च विख्यातं गौरीशिखरमेव च ॥
नकुलेशस्य तीर्थं च कर्दमालं तथैव च
दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥
सप्तगोदावरीतीर्थं सर्वतीर्थेश्वरेश्वरम्
तत्र श्राद्धं प्रदातव्यम् अनन्तफलमीप्सुभिः ॥
एष तूद्देशतः प्रोक्तस् तीर्थानां संग्रहो मया
वागीशो ऽपि न शक्नोति विस्तरात् किम् उ मानुषः ॥
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः
वर्णाश्रमाणां गेहे ऽपि तीर्थं तु समुदाहृतम् ॥
एतत्तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥
प्रातःकालो मुहूर्तांस् त्रीन् संगवस् तावदेव तु
मध्याह्नस्त्रिमुहूर्तः स्याद् अपराह्णस्ततः परम् ॥
सायाह्नस्त्रिमुहूर्तः स्याच् छ्राद्धं तत्र न कारयेत्
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥
अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
मध्याह्ने सर्वदा यस्मान् मन्दीभवति भास्करः
तस्मादनन्तफलदस् तदारम्भो विशिष्यते ॥
मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥
पापं कुत्सितमित्याहुस् तस्य संतापकारिणः
अष्टाव् एते यतस्तस्मात् कुतपा इति विश्रुताः ॥
ऊर्ध्वं मुहूर्तात्कुतपाद् यन्मुहूर्तचतुष्टयम्
मुहूर्तपञ्चकं चैतत् स्वधाभवनमिष्यते ॥
विष्णोर् देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा
श्राद्धस्य रक्षणायालम् एतत्प्राहुर्दिवौकसः ॥
तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः
सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते ॥
श्राद्धसाधनकाले तु पाणिनैकेन दीयते
तर्पणं तूभयेनैव विधिरेष सदा स्मृतः ॥
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्
पुरा मलये न कथितं तीर्थश्राद्धानुकीर्तनम् ॥
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ॥
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः
सर्वपापोपशान्त्यर्थम् अलक्ष्मीनाशनं परम् ॥
इदं पवित्रं यशसो निधानम् इदं महापापहरं च पुंसाम्
ब्रह्मार्करुद्रैरपि पूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0