भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 21

21.1

कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले
तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥

21.1

कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले
तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥

21.2

तस्मिन्नेव पुरे जातास् ते च चक्राह्वयास्तदा
वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा ॥

21.3

धृतिमांस्तत्त्वदर्शी च विद्याचण्डस् तपोत्सुकः
नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः ॥

21.4

तपसे बुद्धिरभवत् तदा तेषां द्विजन्मनाम्
यास्यामः परमां सिद्धिम् इत्य् ऊचुस् ते द्विजोत्तमाः ॥

21.5

ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः
उवाच दीनया वाचा किमेतदिति पुत्रकाः ॥

21.6

अधर्म एष इति वः पिता तान् अभ्यवारयत्
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः ॥

21.7

को नु धर्मो ऽत्र भविता मत्त्यागाद्गतिरेव वा
ऊचुस्ते कल्पिता वृत्तिस् तव तात वदस्व तत् ॥

21.8

वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम्
धनं ग्रामसहस्राणि प्रभाते पठतस्तव ॥

21.9

ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥

21.10

इत्युक्त्वा पितरं जग्मुस् ते वनं तपसे पुनः
वृद्धो ऽपि राजभवनं जगामात्मार्थसिद्धये ॥

21.11

अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा
पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम् ॥

21.12

आराधयामास विभुं तीव्रव्रतपरायणः
ततः कालेन महता तुष्टस्तस्य जनार्दनः ॥

21.13

वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप
एवमुक्तस्तु देवेन वव्रे स वरमुत्तमम् ॥

21.14

पुत्रं मे देहि देवेश महाबलपराक्रमम्
पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम् ॥

21.15

सर्वसत्त्वरुतज्ञं मे देहि योगिनमात्मजम्
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः ॥

21.16

पश्यतां सर्वदेवानां तत्रैवान्तरधीयत
ततः स तस्य पुत्रो ऽभूद् ब्रह्मदत्तः प्रतापवान् ॥

21.17

सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः
सर्वसत्त्वरुतज्ञश्च सर्वसत्त्वेश्वरेश्वरः ॥

21.18

अहसत्तेन योगात्मा स पिपीलिकरागतः
यत्र तत्कीटमिथुनं रममाणमवस्थितम् ॥

21.19

ततः सा संनतिर्दृष्ट्वा तं हसन्तं सुविस्मिता
किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम् ॥

21.20

अकस्मादतिहासस्ते किमर्थमभवन्नृप
हास्यहेतुं न जानामि यदकाले कृतं त्वया ॥

21.21

अवदद्राजपुत्रो ऽपि स पिपीलिकभाषितम्
रागवाग्भिः समुत्पन्नम् एतद्धास्यं वरानने ॥

21.22

न चान्यत्कारणं किंचिद् धास्यहेतौ शुचिस्मिते
न सामन्यत् तदा देवी प्राहालीकमिदं वचः ॥

21.23

अहमेवाद्य हसिता न जीविष्ये त्वयाधुना
कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान् ॥

21.24

तस्मात्त्वयाहम् एवेह हसिता किमतः परम्
ततो निरुत्तरो राजा जिज्ञासुस्तत्पुरो हरेः ॥

21.25

आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः
स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन्पुरम् ॥

21.26

वृद्धद्विजो यस्तद्वाक्यात् सर्वं ज्ञास्यस्यशेषतः
इत्युक्त्वान्तर्दधे विष्णुः प्रभाते ऽथ नृपः पुरात् ॥

21.27

निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः
गदन्तं विप्रम् आयान्तं तं वृद्धं संददर्श ह ॥

21.28

ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥

21.29

इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः
जातिस्मरत्वमगमत् तौ च मन्त्रिवराव् उभौ ॥

21.30

कामशास्त्रप्रणेता च बाभ्रव्यस्तु सुबालकः
पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित् ॥

21.31

कण्डरीको ऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः
भूत्वा जातिस्मरौ शोकात् पतिताव् अग्रतस्तदा ॥

21.32

हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः
एवं विलप्य बहुशस् त्रयस्ते योगपारगाः ॥

21.33

विस्मयाच्छ्राद्धमाहात्म्यम् अभिनन्द्य पुनः पुनः
ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम् ॥

21.34

विसृज्य ब्राह्मणं तं च वृद्धं धनमुदान्वितम्
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम् ॥

21.35

विष्वक्सेनाभिधानं तु राजा राज्ये ऽभ्यषेचयत्
मानसे मिलिताः सर्वे ततस्ते योगिनां वराः ॥

21.36

ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः
संनतिश्चाभवद्भ्रष्टा मयैतत्किल कारितम् ॥

21.37

राज्यत्यागफलं सर्वं यदेतद् अभिलष्यते
तथेति प्राह राजा तु पुनस्तामभिनन्दयन् ॥

21.38

त्वत्प्रसादादिदं सर्वं मयैतत्प्राप्यते फलम्
ततस्ते योगमास्थाय सर्व एव वनौकसः ॥

21.39

ब्रह्मरन्ध्रेण परमं पदमापुस्तपोबलात्
एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥

21.40

प्रयच्छन्ति सुतान्राज्यं नृणां प्रीताः पितामहाः
य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः ॥

21.41

द्विजेभ्यः श्रावयेद्यो वा शृणोत्यथ पठेत्तु वा
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc