भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 20

20.1

कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम्
पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत् ॥

20.2

कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः
नामतः कर्मतस्तस्य सुतान्सप्त निबोधत ॥

20.3

श्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन् ॥

20.4

पितर्युपरते तेषाम् अभूद्दुर्भिक्षमुल्बणम्
अनावृष्टिश्च महती सर्वलोकभयंकरी ॥

20.5

गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः
खादामः कपिलामेतां वयं क्षुत्पीडिता भृशम् ॥

20.6

इति चिन्तयतां पापं लघुः प्राह तदानुजः
यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ॥

20.7

श्राद्धे नियोज्यमानेयं पापात्त्रास्यति नो ध्रुवम्
एव कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः ॥

20.8

चक्रे समाहितः श्राद्धम् उपयुज्य च तां पुनः
द्वौ दैवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात् ॥

20.9

तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु
चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः ॥

20.10

विना गवा वत्सको ऽपि गुरवे विनिवेदितः
व्याघ्रेण निहता धेनुर् वत्सो ऽयं प्रतिगृह्यताम् ॥

20.11

एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः ॥

20.12

ततः कालावकृष्टास्ते व्याधा दाशपुरे ऽभवन्
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः ॥

20.13

यत्कृतं क्रूरकर्मापि श्राद्धरूपेण तैस्तदा
तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम् ॥

20.14

पितॄणां चैव माहात्म्याज् जाता जातिस्मरास्तु ते
ते तु वैराग्ययोगेन आस्थायानशनं पुनः ॥

20.15

जातिस्मराः सप्त जाता मृगाः कालञ्जरे गिरौ
नीलकण्ठस्य पुरतः पितृभावानुभाविताः ॥

20.16

तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्मतः
लोकैर् अवेक्ष्यमाणास्ते तीर्थान्ते ऽनशनेन तु ॥

20.17

मानसे चक्रवाकास्ते संजाताः सप्त योगिनः
नामतः कर्मतः सर्वाञ् छृणुध्वं द्विजसत्तमाः ॥

20.18

सुमनाः कुमुदः शुद्धश् छिद्रदर्शी सुनेत्रकः
सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः ॥

20.19

योगभ्रष्टास्त्रयस्तेषां बभ्रमुश् चाल्पचेतनाः
दृष्ट्वा विभ्राजमानं तम् उद्याने स्त्रीभिरन्वितम् ॥

20.20

क्रीडन्तं विविधैर्भावैर् महाबलपराक्रमम्
पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम् ॥

20.21

राज्यकामो ऽभवच्चैकस् तेषां मध्ये जलौकसाम्
पितृवर्ती च यो विप्रः श्राद्धकृत् पितृवत्सलः ॥

20.22

अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ
मन्त्रित्वे चक्रतुश्चेच्छाम् अस्मिन्मर्त्ये द्विजोत्तमाः ॥

20.23

तन्मध्ये ये तु निष्कामास् ते बभूवुर् द्विजोत्तमाः
विभ्राजपुत्रस्त्वेको ऽभूद् ब्रह्मदत्त इति स्मृतः ॥

20.24

मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ
ब्रह्मदत्तो ऽभिषिक्तः सन् पुरोहितविपश्चिता ॥

20.25

पञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः
योगवित्सर्वजन्तूनां रुतवेत्ताभवत्तदा ॥

20.26

तस्य राज्ञो ऽभवद्भार्या देवलस्यात्मजा शुभा
संनतिर्नाम विख्याता कपिला याभवत्पुरा ॥

20.27

पितृकार्ये नियुक्तत्वाद् अभवद्ब्रह्मवादिनी
तया चकार सहितः स राज्यं राजनन्दनः ॥

20.28

कदाचिदुद्यानगतस् तया सह स पार्थिवः
ददर्श कीटमिथुनम् अनङ्गकलहाकुलम् ॥

20.29

पिपीलिकामनुनयन् परितः कीटकामुकः
पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह ॥

20.30

न त्वया सदृशी लोके कामिनी विद्यते क्वचित्
मध्यक्षामातिजघना बृहद्वक्षो ऽभिगामिनी ॥

20.31

सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी
सुलक्ष्यनेत्ररसना गुडशर्करवत्सला ॥

20.32

भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि
प्रोषिते सति दीना त्वं क्रुद्धे ऽपि भयचञ्चला ॥

20.33

किमर्थं वद कल्याणि सरोषवदना स्थिता
सा तमाह सकोपा तु किम् आलपसि मां शठ ॥

20.34

त्वया मोदकचूर्णं तु मां विहाय विनेष्यता
प्रदत्तं समतिक्रान्ते दिने ऽन्यस्याः समन्मथ ॥

20.35

त्वत्सादृश्यान्मया दत्तम् अन्यस्यै वरवर्णिनि
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि ॥

20.36

नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते
स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे ॥

20.37

इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्ततः
आत्मानम् अर्पयामास मोहनाय पिपीलिका ॥

20.38

ब्रह्मदत्तो ऽप्यशेषं तं ज्ञात्वा विस्मयम् आगमत्
सर्वसत्त्वरुतज्ञत्वात् प्रसादाच् चक्रपाणिनः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc