मत्स्य पुराण · अध्याय 19
कथं कव्यानि देयानि हव्यानि च जनैरिह
गच्छन्ति पितृलोकस्थान् प्रापकः को ऽत्र गद्यते ॥
यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदि वानले
शुभाशुभात्मकैः प्रेतैर् दत्तं तद्भुज्यते कथम् ॥
वसून्वदन्ति च पितॄन् रुद्रांश्चैव पितामहान्
प्रपितामहांस्तथादित्यान् इत्येवं वैदिकी श्रुतिः ॥
नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः
श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः ॥
अग्निष्वात्तादयस्तेषाम् आधिपत्ये व्यवस्थिताः
नामगोत्रकालदेशा भवान्तरगतानपि ॥
प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान्
देवो यदि पिता जातः शुभकर्मानुयोगतः ॥
तस्यान्नममृतं भूत्वा दिव्यत्वे ऽप्यनुगच्छति
दैत्यत्वे भोगरूपेण पशुत्वे च तृणं भवेत् ॥
श्राद्धान्नं वायुरूपेण सर्पत्वे ऽप्युपतिष्ठति
पानं भवति यक्षत्वे राक्षसत्वे तथामिषम् ॥
दनुजत्वे तथा माया प्रेतत्वे रुधिरोदकम्
मनुष्यत्वे ऽन्नपानानि नानाभोगरसं भवेत् ॥
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता
दानशक्तिः सविभवा रूपमारोग्यमेव च ॥
श्रद्धा पुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः
आयुः पुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥
राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम्
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः
पञ्चभिर्जन्मसम्बन्धैर् गता विष्णोः परं पदम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0