मत्स्य पुराण · अध्याय 1
पातालादुत्पतिष्णोर् मकरवसतयो यस्य पुच्छाभिघाताद् ऊर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति
विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास् तस्यास्योदीरितानां ध्वनिर् अपहरताद् अश्रियं वः श्रुतीनाम् ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥
अजो ऽपि यः क्रियायोगान् नारायण इति स्मृतः
त्रिगुणाय त्रिवेदाय नमस् तस्मै स्वयम्भुवे ॥
सूतमेकाग्रमासीनं नैमिषारण्यवासिनः
मुनयो दीर्घसत्त्रान्ते पप्रच्छुर् दीर्घसंहिताम् ॥
प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च
कथासु शौनकाद्यास् तु अभिनन्द्य मुहुर्मुहुः ॥
कथितानि पुराणानि यान्यस्माकं त्वयानघ
तान्येवामृतकल्पानि श्रोतुम् इच्छामहे पुनः ॥
कथं ससर्ज भगवंल् लोकनाथश्चराचरम्
कस्माच्च भगवान् विष्णुर् मत्स्यरूपत्वम् आश्रितः ॥
भैरवत्वं भवस्यापि पुरारित्वं च केन हि
कस्य हेतोः कपालित्वं जगाम वृषभध्वजः ॥
सर्वम् एतत् समाचक्ष्व सूत विस्तरशः क्रमात्
त्वद्वाक्येनामृतस्येव न तृप्तिरिह जायते ॥
पुण्यं पवित्रम् आयुष्यम् इदानीं शृणुत द्विजाः
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥
पुरा राजा मनुर् नाम चीर्णवान् विपुलं तपः
पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः
समदुःखसुखो वीरः प्राप्तवान् योगम् उत्तमम् ॥
बभूव वरदश् चास्य वर्षायुतशते गते
वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥
एवमुक्तो ऽब्रवीद् राजा प्रणम्य स पितामहम्
एकम् एवाहम् इच्छामि त्वत्तो वरमनुत्तमम् ॥
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च
भवेयं रक्षणायालं प्रलये समुपस्थिते ॥
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत
पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता ॥
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम्
पपात पाण्योर् उपरि शफरी जलसंयुता ॥
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः
रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे ॥
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः
सो ऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥
स तमादाय मणिके प्राक्षिपज्जलचारिणम्
तत्रापि चैकरात्रेण हस्तत्रयम् अवर्धत ॥
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम्
स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥
ततः स कूपे तं मत्स्यं प्राहिणोद् रविनन्दनः
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥
क्षिप्तो ऽसौ पृथुतामागात् पुनर् योजनसंमिताम्
तत्राप्याह पुनर् दीनः पाहि पाहि नृपोत्तम ॥
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः
तदा प्राह मनुर्भीतः को ऽपि त्वमसुरेश्वरः ॥
अथवा वासुदेवस्त्वम् अन्य ईदृक्कथं भवेत्
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव
हृषीकेश जगन्नाथ जगद्धाम नमो ऽस्तु ते ॥
एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः
साधु साध्विति चोवाच सम्यग्ज्ञातस् त्वयानघ ॥
अचिरेणैव कालेन मेदिनी मेदिनीपते
भविष्यति जले मग्ना सशैलवनकानना ॥
नौर् इयं सर्वदेवानां निकायेन विनिर्मिता
महाजीवनिकायस्य रक्षणार्थं महीपते ॥
स्वेदाण्डजोद्भिदो ये वै ये च जीवा जरायुजाः
अस्यां निधाय सर्वांस् तान् अनाथान् पाहि सुव्रत ॥
युगान्तवाताभिहता यदा भवति नौर् नृप
शृङ्गे ऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि ॥
ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च
प्रजापतिस्त्वं भविता जगतः पृथिवीपते ॥
एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः
मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0