भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 175

175.1

ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा
सुराणामसुराणां च परस्परजयैषिणाम् ॥

175.2

दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥

175.3

तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥

175.4

ततो रथैर्विप्रयुक्तैर् वारणैश्च प्रचोदितैः
उत्पतद्भिश्च गगनम् असिहस्तैः समन्ततः ॥

175.5

क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥

175.6

तद्युद्धमभवद्घोरं देवदानवसंकुलम्
जगतस्त्रासजननं युगसंवर्तकोपमम् ॥

175.7

हस्तमुक्तैश्च परिघैर् विप्रयुक्तैश्च पर्वतैः
दानवाः समरे जघ्नुर् देवानिन्द्रपुरोगमान् ॥

175.8

ते वध्यमाना बलिभिर् दानवैर्जितकाशिभिः
विषण्णवदना देवा जग्मुरार्तिं परां मृधे ॥

175.9

ते ऽस्त्रशूलप्रमथिताः परिघैर्भिन्नमस्तकाः
भिन्नोरस्का दितिसुतैर् वेमू रक्तं व्रणैर्बहु ॥

175.10

वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः
प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम् ॥

175.11

अस्तं गतमिवाभाति निष्प्राणसदृशाकृति
बलं सुराणामसुरैर् निष्प्रयत्नायुधं कृतम् ॥

175.12

दैत्यचापच्युतान् घोरांश् छित्त्वा वज्रेण ताञ्छरान्
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥

175.13

स दैत्यप्रमुखान्हत्वा तद्दानवबलं महत्
तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥

175.14

ते ऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥

175.15

मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः
वपूंषि दैत्यसिंहानां तमोभूतान्यपातयन् ॥

175.16

अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा
पेतुस्ते दानवगणाश् छिन्नपक्षा इवाद्रयः ॥

175.17

तद्घनीभूतदैत्येन्द्रम् अन्धकार इवार्णवे
दानवं देवकदनं तमोभूतमिवाभवत् ॥

175.18

तदासृजन्महामायां मयस्तां तामसीं दहन्
युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥

175.19

सा ददाह ततः सर्वान् माया मयविकल्पिता
दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥

175.20

मायामौर्वीं समासाद्य दह्यमाना दिवौकसः
भेजिरे चन्द्रविषयं शीतांशुसलिलप्रदम् ॥

175.21

ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः
शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः ॥

175.22

संतते मायया सैन्ये हन्यमाने च दानवैः
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥

175.23

पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम्
ऊर्वः सपूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥

175.24

तं तपन्तमिवादित्यं तपसा जगदव्ययम्
उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सह ॥

175.25

हिरण्यकशिपुश्चैव दानवो दानवेश्वरः
ऋषिं विज्ञापयामासुः पुरा परमतेजसम् ॥

175.26

ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम्
ऋषिवंशेषु भगवंश् छिन्नमूलमिदं पदम् ॥

175.27

एकस्त्वमनपत्यश्च गोत्रजो ऽन्यो न वर्तते
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥

175.28

बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम्
एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥

175.29

एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम्
भवांस्तु तपसा श्रेष्ठो प्रजापातसमद्युतिः ॥

175.30

तत्र वर्तस्व वंशाय वर्धयात्मानम् आत्मना
त्वया धर्मो ऽर्जितस्तेन द्वितीयां कुरु वै तनुम् ॥

175.31

स एवमुक्तो मुनिभिर् मुनिर् मर्मसु ताडितः
जगर्हे तानृषिगणान् वचनं चेदमब्रवीत् ॥

175.32

यथायं विहितो धरो मुनीनां शाश्वतः पुरा
आर्षं वै सेवतः कर्म वन्यमूलफलाशिनः ॥

175.33

ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥

175.34

जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः
अस्माकं तु वरं वृत्तिर् वनाश्रमनिवासिनाम् ॥

175.35

अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा
अश्मकुट्टा ह्यशनकाः पञ्चातपसहाश्च ये ॥

175.36

एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम् ॥

175.37

ब्रह्यचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते
एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः ॥

175.38

ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः
ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि संस्थिताः ॥

175.39

नास्ति योगं विना सिद्धिर् न वा सिद्धिं विना यशः
नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः ॥

175.40

यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम्
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥

175.41

अयोगे केशधरणम् असंकल्पव्रतक्रियां
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम् ॥

175.42

क्व दाराः क्व च संयोगः क्व च भावविपर्ययः
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥

175.43

यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम्
सृजध्वं मानसान्पुत्रान् प्राजापत्येन कर्मणा ॥

175.44

मनसा निर्मिता योनिर् आधातव्या तपस्विभिः
न दारयोगो बीजं वा व्रतमुक्तं तपस्विनाम् ॥

175.45

यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः
व्याहृतं सद्भिरत्यर्थम् असद्भिरिव मे मतम् ॥

175.46

वपुर्दीप्तान्तरात्मानम् एतत्कृत्वा मनोमयम्
दारयोगं विना स्रक्ष्ये पुत्रम् आत्मतनूरुहम् ॥

175.47

एवमात्मानमात्मा मे द्वितीयं जनयिष्यति
वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥

175.48

ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने
ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥

175.49

तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्धनः
जगतो दहनाकाङ्क्षी पुत्रो ऽग्निः समपद्यत ॥

175.50

ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तको ऽनलः
दिधक्षन्निव लोकांस्त्रीञ् जज्ञे परमकोपनः ॥

175.51

उत्पन्नमात्रश्चोवाच पितरं क्षीणया गिरा
क्षुधा मे बाधते तात जगद्भक्ष्ये त्यजस्व माम् ॥

175.52

त्रिदिवारोहिभिर्ज्वालैर् जृम्भमाणो दिशो दश
निर्दहन्सर्वभूतानि ववृधे सो ऽन्तको ऽनलः ॥

175.53

एतस्मिन्नन्तरे ब्रह्मा मुनिमूर्वं सभाजयन्
उवाच वार्यतां पुत्रो जगतश्च दयां कुरु ॥

175.54

अस्यापत्यस्य ते विप्र करिष्ये स्थानमुत्तमम्
तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर ॥

175.55

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यन्मे ऽद्य भगवाञ्छिशोः
मतिमेतां ददातीह परमानुग्रहाय वै ॥

175.56

प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥

175.57

कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम्
विधास्यतीह भगवान् वीर्यतुल्यं महौजसः ॥

175.58

वडवामुखे ऽस्य वसतिः समुद्रे वै भविष्यति
मम योनिर्जलं विप्र तस्य पीतवतः सुखम् ॥

175.59

यत्राहमास नियतं पिबन्वारिमयं हविः
तद्धविस्तव पुत्रस्य विसृजाम्यालयं च तत् ॥

175.60

ततो युगान्ते भूतानाम् एष चाहं च पुत्रक
सहितौ विचरिष्यावो निष्पुत्राणामृणापहः ॥

175.61

एषो ऽग्निर् अन्तकाले तु सलिलाशी मया कृतः
दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥

175.62

एवमस्त्विति तं सो ऽग्निः संवृतज्वालमण्डलः
प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥

175.63

प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः
और्वस्याग्नेः प्रभां ज्ञात्वा स्वां स्वां गतिमुपाश्रिताः ॥

175.64

हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्
उच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥

175.65

भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥

175.66

अहं तु तव पुत्रस्य तव चैव महाव्रत
भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥

175.67

तन्मां पश्य समापन्नं तवैवाराधने रतम्
यदि सीदेन्मुनिश्रेष्ठ तवैव स्यात्पराजयः ॥

175.68

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य ते ऽहं गुरुः स्थितः
नास्ति मे तपसानेन भयमद्येह सुव्रत ॥

175.69

तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्
निरिन्धनामग्निमयीं दुर्धर्षां पावकैरपि ॥

175.70

एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे
संरक्षत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति ॥

175.71

एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम्
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥

175.72

एषा दुर्विषहा माया देवैरपि दुरासदा
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥

175.73

तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥

175.74

यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी
दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥

175.75

तेनाहं सह संगम्य यादोभिश्च समावृतः
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc