भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 176

176.1

एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥

176.2

गच्छ सोम सहायत्वं कुरु पाशधरस्य वै
असुराणां विनाशाय जयार्थं च दिवौकसाम् ॥

176.3

त्वं मत्तः प्रतिवीर्यश्च ज्योतिषां चेश्वरेश्वरः
त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः ॥

176.4

क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले
परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥

176.5

लोकच्छायामयं लक्ष्म तवाङ्कः शशसंनिभः
न विदुः सोम देवापि ये च नक्षत्रयोनयः ॥

176.6

त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः
तमः प्रोत्सार्य महसा भासयस्यखिलं जगत् ॥

176.7

श्वेतभानुर् हिमतनुर् ज्योतिषाम् अधिपः शशी
अधिकृत् कालयोगात्मा इष्टो यज्ञरसो ऽव्ययः ॥

176.8

ओषधीशः क्रियायोनिर् हरशेखरभाक्तथा
शीतांशुरमृताधारश् चपलः श्वेतवाहनः ॥

176.9

त्वं कान्तिः कान्तिवपुषां त्वं सोमः सोमपायिनाम्
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वम् ऋक्षराट् ॥

176.10

तद्गच्छ त्वं महासेन वरुणेन वरूथिना
शमय त्वासुरीं मायां यया दह्याम संयुगे ॥

176.11

यन्मां वदसि युद्धार्थे देवराज वरप्रद
एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥

176.12

एतान्मच्छीतनिर्दग्धान् पश्य त्वं हिमवेष्टितान्
विमायान्विमदांश्चैव दैत्यसिंहान्महाहवे ॥

176.13

इत्युक्त्वा तारकाधीशः सजलेशः शिवोदकैः
प्लावयामास सैन्यानि सुराणां शान्तिवृद्धये ॥

176.14

तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः
वेष्टयन्ति स्म तान्घोरान् दैत्यान्मेघगणा इव ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc