मत्स्य पुराण · अध्याय 174
श्रुतस्ते दैत्यसैन्यस्य विस्तारो रविनन्दन
सुराणामपि सैन्यस्य विस्तारं वैष्णवं शृणु ॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ
सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम् ॥
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक्
ग्रामणीः सर्वदेवानाम् आरुरोह सुरद्विपम् ॥
मध्ये चास्य रथः सर्व पक्षिप्रवरहंसः
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥
देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥
वज्रविस्फूर्जितोद्भूतैर् विद्युदिन्द्रायुधोदितैः
युक्तो बलाहकगणैः पर्वतैरिव कामगैः ॥
यमारूढः स भगवान् पर्येति सकलं जगत्
हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः ॥
स्वर्गे शक्रानुयातेषु देवतूर्यनिनादिषु
सुन्दर्यः परिनृत्यन्ति शतशो ऽप्सरसां गणाः ॥
केतुना नागराजेन राजमानो यथा रविः
युक्तो हयसहस्रेण मनोमारुतरंहसा ॥
स स्यन्दनवरो भाति गुप्तो मातलिना तदा
कृत्स्नः परिवृतो मेरुर् भास्करस्येव तेजसा ॥
यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम्
तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः
शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥
कालपाशान्समाविध्यन् हयैः शशिकरोपमैः
वाय्वीरितैर् जलाकारैः कुर्वंल्लीलाः सहस्रशः ॥
पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः
मणिश्यामोत्तमवपुर् हरिभारार्पितो वरः ॥
वरुणः पाशधृङ् मध्ये देवानीकस्य तस्थिवान्
युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ॥
यक्षराक्षससैन्येन गुह्यकानां गणैरपि
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ॥
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत
विमानयोधी धनदो विमाने पुष्पके स्थितः ॥
स राजराजः शुशुभे युद्धार्थी नरवाहनः
उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम् ॥
पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः
वरुणः पश्चिमं पक्षम् उत्तरं नरवाहनः ॥
चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः
स्वासु दिक्षु स्वरक्षन्त तस्य देवबलस्य ते ॥
सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥
उदयास्तगचक्रेण मेरुपर्वतगामिना
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा
चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः ॥
सोमः श्वेतहये भाति स्यन्दने शीतरश्मिवान्
हिमवत्तोयपूर्णाभिर् भाभिराह्लादयञ्जगत् ॥
तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम्
शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥
ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम्
ओषधीनां सहस्राणां निधानममृतस्य च ॥
जगतः प्रथमं भागं सौम्यं सत्यमयं रथम्
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् ॥
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु
सप्तधातुगतो लोकांस् त्रीन्दधार चचार च ॥
यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम्
सप्तस्वरगतो यश्च नित्यं गीर्भिरुदीर्यते ॥
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम्
यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम् ॥
स वायुः सर्वभूतायुर् उद्भूतः स्वेन तेजसा
ववौ प्रव्यथयन्दैत्यान् प्रतिलोमं सतोयदः ॥
मरुतो दिव्यगन्धर्वैर् विद्याधरगणैः सह
चिक्रीडुरसिभिः शुभ्रैर् निर्मुक्तैरिव पन्नगैः ॥
सृजन्तः सर्पपतयस् तीव्रतोयमयं विषम्
शरभूता दिवीन्द्राणां चेरुर्व्यात्तानना दिवि ॥
पर्वतैश्च शिलाशृङ्गैः शतशश्चैव पादपैः
उपतस्थुः सुरगणाः प्रहर्तुं दानवं बलम् ॥
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः
युगान्तकृष्णवर्त्माभो विश्वस्य जगतः प्रभुः ॥
सर्वयोनिः स मधुहा हव्यभुक्क्रतुसंस्थितः
भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरो ऽरिहा ॥
अरिघ्नममरादीनां चक्रं गृह्य गदाधरः
अर्कं नागादिवोद्यन्तम् उद्यम्योत्तमतेजसा ॥
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम्
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥
अन्यैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः
दधारायुधजातानि शार्ङ्गादीनि महाबलः ॥
स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम्
पवनाधिकसंपातं गगनक्षोभणं खगम् ॥
भुजगेन्द्रेण वदने निविष्टेन विराजितम्
अमृतारम्भनिर्मुक्तं मन्दराद्रिम् इवोच्छ्रितम् ॥
देवासुरविमर्देषु बहुशो दृष्टविक्रमम्
महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ॥
शिखिनं बलिनं चैव तप्तकुण्डलभूषणम्
विचित्रपत्रवसनं धातुमन्तमिवाचलम् ॥
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥
पक्षाभ्यां चारुपत्राभ्याम् आवृत्य दिवि लीलया
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥
नीललोहितपीताभिः पताकाभिरलंकृतम्
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥
अरुणावरजं श्रीमान् आरुह्य समरे विभुः
सुवर्णवर्णवपुषा सुपर्णं खेचरोत्तमम् ॥
तमन्वयुर्देवगणा मुनयश्च समाहिताः
गीर्भिः परममन्त्राभिस् तुष्टुवुश्च जनार्दनम् ॥
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम्
द्विजराजपरिक्षिप्तं देवराजविराजितम् ॥
चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत
पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥
विष्णोर्जिष्णोश्च भ्राजिष्णोस् तेजसा तमसावृतम्
बलं बलवदुद्वृत्तं युद्धाय समवर्तत ॥
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत
स्वस्त्यस्तु दानवानीक उशना वाक्यमाददे ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0