मत्स्य पुराण · अध्याय 173
ततो ऽभयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः
उद्योगं विपुलं चक्रुर् युद्धाय विजयाय च ॥
मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम्
चतुश्चक्रं सुविपुलं सुकल्पितमहायुगम् ॥
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्
रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥
ईहामृगगणाकीर्णं पक्षिपङ्क्तिविराजितम्
दिव्यास्त्रतूणीरधरं पयोधरविनादितम् ॥
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्
गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ॥
हेमकेयूरवलयं स्वर्णमण्डलकूबरम्
सपताकध्वजोपेतं सादित्यमिव मन्दरम् ॥
गजेन्द्राभोगवपुषं क्वचित्केसरिवर्चसम्
युक्तमृक्षसहस्रेण समृद्धाम्बुदनादितम् ॥
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्त इवांशुमान् ॥
तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम्
शैलाकारमसंबाधं नीलाञ्जनचयोपमम् ॥
कार्ष्णायसमयं दिव्यं लोहेषाबद्धकूबरम्
तिमिरोद्गारिकिरणं गर्जन्तमिव तोयदम् ॥
लोहजालेन महता सगवाक्षेण दंशितम्
आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥
प्रासैः पाशैश्च विततैर् असंयुक्तैश्च कण्टकैः
शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥
उद्यन्तं द्विषतां हेतोर् द्वितीयमिव मन्दरम्
युक्तं खरसहस्रेण सो ऽध्यारोहद्रथोत्तमम् ॥
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥
युक्तं रथसहस्रेण हयग्रीवस्तु दानवः
स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्
वराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥
खरस्तु विक्षरन्दर्पान् नेत्राभ्यां रोषजं जलम्
स्फुरद्दन्तोष्ठनयनः सङ्ग्रामं सो ऽभ्यकाङ्क्षत ॥
त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः
व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः
श्वेतशैलप्रतीकाशो युद्धायाभिमुखे स्थितः ॥
अरिष्टो बलिपुत्रश्च वरिष्ठो ऽद्रिशिलायुधः
युद्धायाभिमुखस्तस्थौ धराधरविकम्पनः ॥
किशोरस्त्वतिसंहर्षात् किशोर इति चोदितः
सबला दानवाश्चैव संनह्यन्ते यथाक्रमम् ॥
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः
लम्बस्तु नवमेघाभः प्रलम्बाम्बरभूषणः ॥
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्
स्वर्भानुरास्ययोधी तु दशनोष्ठेक्षणायुधः ॥
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः
अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे
केचित्खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥
पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः
एकपादार्धपादाश्च ननृतुर्युद्धकाङ्क्षिणः ॥
आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथा परे
हृष्टशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः ॥
ते गदापरिघैरुग्रैः शिलामुसलपाणयः
बाहुभिः परिघाकारैस् तर्जयन्ति स्म देवताः ॥
पाशैः प्रासैश्च परिघैस् तोमराङ्कुशपट्टिशैः
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः
चक्रैश्च दैत्यप्रवराश् चक्रुर् आनन्दितं बलम् ॥
एतद्दानवसैन्यं तत् सर्वं युद्धमदोत्कटम्
देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्निशैलाम्बुदतोयकल्पम्
बलं रणौघाभ्युदये ऽभ्युदीर्णं युयुत्सयोन्मत्तम् इवाबभासे ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0