भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 172

172.1

विष्णुत्वं शृणु विष्णोश्च हरित्वं च कृते युगे
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥

172.2

ईश्वरस्य हि तस्यैषा कर्मणां गहना गतिः
संप्रत्यतीतान्भव्यांश्च शृणु राजन्यथातथम् ॥

172.3

अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः
नारायणो ह्यनन्तात्मा प्रभवो ऽव्यय एव च ॥

172.4

एष नारायणो भूत्वा हरिरासीत्सनातनः
ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः ॥

172.5

अदितेरपि पुत्रत्वम् एव याति युगे युगे
एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः ॥

172.6

प्रसादजं ह्यस्य विभोर् अदित्याः पुत्रकारणम्
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥

172.7

प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः
सो ऽसृजत्पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥

172.8

असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान्
तेभ्यो ऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥

172.9

एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम्
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥

172.10

वृते वृत्रवधे तत्र वर्तमाने कृते युगे
आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥

172.11

यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः
घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ॥

172.12

ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे
त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम् ॥

172.13

एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥

172.14

चण्डा विद्युद्गणोपेता घोरनिर्ह्रादकारिणः
अन्योन्यवेगाभिहताः प्रववुः सह मारुताः ॥

172.15

दीप्ततोयाशनिपनैर् वज्रवेगानलानिलैः
रवैः सुघोरैरुत्पातैर् दह्यमानम् इवाम्बरम् ॥

172.16

तत उल्कासहस्राणि निपेतुः खगतान्यपि
दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥

172.17

चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत्
अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे ॥

172.18

जातं च निष्प्रभं सर्वं न प्राज्ञायत किंचन
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥

172.19

विवेश रूपिणी काली कालमेघावगुण्ठिता
द्यौर्न भात्यभिभूतार्का घोरेण तमसावृता ॥

172.20

तान्घनौघान्स तिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः
वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥

172.21

बलाहकाञ्जननिभं बलाहकतनूरुहम्
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥

172.22

दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम्
धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ॥

172.23

चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम्
बभौ चामीकरप्रख्यैर् आयुधैरुपशोभितम् ॥

172.24

चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम्
नन्दकानन्दितकरं शराशीविषधारिणम् ॥

172.25

शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम्
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥

172.26

त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम्
सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम् ॥

172.27

नानविमानविटपं तोयदाम्बुमधुस्रवम्
विद्याहंकारसाराढ्यं महाभूतप्ररोहणम् ॥

172.28

विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम्
दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम् ॥

172.29

सागराकारनिर्ह्रादं रसातलमहाश्रयम्
मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम् ॥

172.30

शीलार्थचारुगन्धाढ्यं सर्वलोकमहाद्रुमम्
अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम् ॥

172.31

महाभूततरङ्गौघं ग्रहनक्षत्रबुद्बुदम्
विमानविहगव्यातं तोयदाडम्बराकुलम् ॥

172.32

जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम्
त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम् ॥

172.33

वीरवृक्षलतागुल्मं भुजगोत्कृष्टशैवलम्
द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम् ॥

172.34

वस्वष्टपर्वतोपेतं त्रैलोक्याम्भोमहोदधिम्
संध्यासंख्योर्मिसलिलं सुपर्णानिलसेवितम् ॥

172.35

दैत्यरक्षोगणग्राहं यक्षोरगझषाकुलम्
पितामहमहावीर्यं सर्वस्त्रीरत्नशोभितम् ॥

172.36

श्रीकीर्तिकान्तिलक्ष्मीभिर् नदीभिर् उपशोभितम्
कालयोगिमहापर्व प्रलयोत्पत्तिवेगिनम् ॥

172.37

तं तु योगमहापारं नारायणमहार्णवम्
देवाधिदेवं वरदं भक्तानां भक्तिवत्सलम् ॥

172.38

अनुग्रहकरं देवं प्रशान्तिकरणं शुभम्
हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ॥

172.39

ग्रहचन्द्रार्करचिते मन्दराक्षवरावृते
अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ॥

172.40

तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ॥

172.41

ददृशुस्ते स्थितं देवं दिव्ये लोकमये रथे
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ॥

172.42

जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः
स तेषां तां गिरं श्रुत्वा विष्णुर्दैवतदैवतम् ॥

172.43

मनश्चक्रे विनाशाय दानवानां महामृधे
आकाशे तु स्थितो विष्णुर् उत्तमं वपुरास्थितः ॥

172.44

उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः
शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः ॥

172.45

जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्
ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ॥

172.46

देवाः प्रीतिं समाजग्मुः प्राश्यामृतमिवोत्तमम्
ततस्तमः संहृतं तद् विनेशुश्च बलाहकाः ॥

172.47

प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश
शुद्धप्रभाणि ज्योतींषि सोमश्चक्रुः प्रदक्षिणाम् ॥

172.48

न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः
विरजस्काभवन्मार्गा नाकवर्गादयस्त्रयः ॥

172.49

यथार्थमूहुः सरितो नापि चुक्षुभिरे ऽर्णवाः
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥

172.50

महर्षयो वीतशोका वेदान् उच्चैरधीयत
यज्ञेषु च हविः पाकं शिवमाप च पावकः ॥

172.51

प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः
विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc