मत्स्य पुराण · अध्याय 171
स्थित्वा च तस्मिन्कमले ब्रह्मा ब्रह्मविदां वरः
ऊर्ध्वबाहुर्महातेजास् तपो घोरं समाश्रितः ॥
प्रज्वलन्निव तेजोभिर् भाभिः स्वाभिस्तमोनुदः
बभासे सर्वधर्मस्थः सहस्रांशुरिवांशुभिः ॥
अथान्यद्रूपमास्थाय शंभुर्नारायणो ऽव्ययः
आजगाम महातेजा योगाचार्यो महायशाः ॥
सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः
उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ ॥
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्
परावरविशेषज्ञौ पूजितौ च महर्षिभिः ॥
ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः
ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः ॥
तयोस्तद्वचनं श्रुत्वा ब्रह्माभ्याहृतयोगवित्
त्रीनिमान् कृतवांल्लोकान् यथेयं ब्रह्मणः श्रुतिः ॥
पुत्रं च शंभवे चैकं समुत्पादितवानृषिः
तस्याग्रे वाग्यतस्तस्थौ ब्रह्मा तामसमव्ययम् ॥
सोत्पन्नमात्रो ब्रह्माणम् उक्तवान्मानसः सुतः
किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानृषिः ॥
य एष कपिलो ब्रह्म नारायणमयस्तथा
वदते भवतस्तत्त्वं तत्कुरुष्व महामते ॥
ब्रह्मणस्तु तदर्थं तु तदा भूयः समुत्थितः
शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलिः ॥
यत्सत्यमक्षरं ब्रह्म ह्य् अष्टादशविधं तु तत्
यत्सत्यं यदृतं तत्तु परं पदमनुस्मर ॥
एतद्वचो निशम्यैव ययौ स दिशमुत्तराम्
गत्वा च तत्र ब्रह्मत्वम् अगमज्ज्ञानतेजसा ॥
ततो ब्रह्मा भुवं नाम द्वितीयमसृजत्प्रभुः
संकल्पयित्वा मनसा तमेव च महामनाः ॥
ततः सो ऽथाब्रवीद्वाक्यं किं करोमि पितामह
पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः ॥
ब्रह्माभ्यासं तु कृतवान् भुवश्च पृथिवीं गतः
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥
तस्मिन्नपि गते पुत्रे तृतीयमसृजत्प्रभुः
मोक्षप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम् ॥
गोपतित्वं समासाद्य तयोरेवागमद्गतिम्
एवं पुत्रास्त्रयो ऽप्येत उक्ताः शंभोर्महात्मनः ॥
तान्गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जितां गतिम्
नारायणश्च भगवान् कपिलश्च यतीश्वरः ॥
यं कालं तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि
ततो घोरतमं भूयः संश्रितः परमं व्रतम् ॥
न रेमे ऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन्
शरीरार्धात्ततो भार्यां समुत्पादितवाञ्छुभाम् ॥
तपसा तेजसा चैव वर्चसा नियमेन च
सदृशीमात्मनो देवीं समर्थां लोकसर्जने ॥
तया समाहितस्तत्र रेमे ब्रह्मा तपश्चरन्
ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम् ॥
सृजन्प्रजानां पतयः सागरांश्चासृजद्विभुः
अपरांश्चैव चतुरो वेदान्गायत्रिसंभवान् ॥
आत्मनः सदृशान्पुत्रान् असृजद्वै पितामहः
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥
विश्वेशं प्रथमं तावन् महातापसमात्मजम्
सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम्
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ॥
अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः
त्रयोदशगुणं धर्मम् आलभन्त महर्षयः ॥
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः
ताम्रा क्रोधाथ सुरता विनता कद्रुरेव च ॥
दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव
मरीचेः कश्यपः पुत्रस् तपसा निर्मितः किल ॥
तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा
नक्षत्राणि च सोमाय तदा वै दत्तवानृषिः ॥
रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन
लक्ष्मीर्मरुत्वती साध्या विश्वेशा च मता शुभा ॥
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव ॥
दत्ता भद्राय धर्माय ब्रह्मणा दृष्टकर्मणा
या तु रूपवती पत्नी ब्रह्मणः कामरूपिणी ॥
सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्थिता
ततस्तामगमद्ब्रह्मा मैथुनं लोकपूजितः ॥
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः
जज्ञिरे च सुतास्तस्यां विपुला धूमसंनिभाः ॥
नक्तसंध्याभ्रसंकाशाः प्रादहंस्तिग्मतेजसः
ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम् ॥
रोदनाद्रवणाच्चैव रुद्रा इति ततः स्मृताः
निरृतिश्चैव शंभुर्वै तृतीयश्चापराजितः ॥
मृगव्याधः कपर्दी च दहनो ऽथेश्वरश्च वै
अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः ॥
सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः
तस्यामेव सुरभ्यां च गावो यज्ञेश्वराश्च वै ॥
प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवो ऽक्षराः
अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम् ॥
ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः
धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान्व्यजायत ॥
भवं च प्रभवं चैव हीशं चासुरहं तथा
अरुणं चारुणिं चैव विश्वावसुबलध्रुवौ ॥
हविष्यं च वितानं च विधानशमितावपि
वत्सरं चैव भूतिं च सर्वासुरनिषूदनम् ॥
सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृताः
वासवानुगता देवी जनयामास वै सुरान् ॥
वरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ॥
ततो ऽनुरूपमायं च यमस्तस्मादनन्तरम्
सप्तमं च तथा वायुम् अष्टमं निरृतिं वसुम् ॥
धर्मस्यापत्यम् एतद्वै सुदेव्यां समजायत
विश्वे देवाश्च विश्वायां धर्माज्जाता इति श्रुतिः ॥
दक्षश्चैव महाबाहुः पुष्करस्वन एव च
चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ ॥
विश्रान्तकवपुर्बालो विष्कम्भश्च महायशाः
गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः ॥
विश्वान्देवान्देवमाता विश्वेशाजनयत् सुतान्
मरुत्वती मरुत्वतो देवानजनयत्सुतान् ॥
अग्निं चक्षुं रविर्ज्योतिः सावित्रं मित्रमेव च
अमरं शरवृष्टिं च सुकर्षं च महाभुजम् ॥
विराजं चैव वाचं च विश्वावसुमतिं तथा
अश्वमित्रं चित्ररश्मिं तथा निषधनं नृप ॥
हूयन्तं वाडवं चैव चारित्रं मन्दपन्नगम्
बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम् ॥
मरुत्वती पुरा जज्ञ एतान्वै मरुतां गणान्
अदितिः कश्यपाज्जज्ञ आदित्यान्द्वादशैव हि ॥
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः
पूषा मित्रश्च धनदो धाता पर्जन्य एव च ॥
इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ ॥
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यापि संमतौ
दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान्व्यजायत ॥
काला तु वै कालकेयान् असुरान्सुरसा तु वै
अनायुषायास्तनया व्याधयः सुमहाबलाः ॥
सिंहिका ग्रहमाता वै गन्धर्वजननी मुनिः
ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव ॥
क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव
जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते ॥
चतुष्पदानि सत्त्वानि तथा गावस्तु सौरभाः
सुपर्णान्पक्षिणश्चैव विनता च व्यजायत ॥
महीधरान्सर्वनागान् देवी कद्रूर्व्यजायत
एवं वृद्धिं समगमन् विश्वे लोकाः परंतप ॥
तदा वै पौष्करो राजन् प्रादुर्भावो महात्मनः
प्रादुर्भावः पौष्करस्ते मया द्वैपायनेरितः ॥
पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः
कथितस्ते ऽनुपूर्वेण संस्तुतः परमर्षिभिः ॥
यश्चेदमग्र्यं शृणुयात् पुराणं सदा नरः पर्वसु गौरवेण
अवाप्य लोकान्स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते ॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
प्रसादयति यः कृष्णं तं कृष्णो ऽनुप्रसीदति ॥
राजा च लभते राज्यम् अधनश्चोत्तमं धनम्
क्षीणायुर्लभते चायुः पुत्रकामः सुतं तथा ॥
यज्ञा वेदास्तथा कामास् तपांसि विविधानि च
प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च ॥
यद्यत्कामयते किंचित् तत्तल्लोकेश्वराद् भवेत्
सर्वं विहाय य इमं पठेत्पौष्करकं हरेः ॥
प्रादुर्भावं नृपश्रेष्ठ न तस्य ह्यशुभं भवेत्
एष पौष्करको नाम प्रादुर्भावो महात्मनः
कीर्तितस्ते महाभाग व्यासश्रुतिनिदर्शनात् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0