भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 170

170.1

विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः
तेनैव च सहोद्भूतो ह्य् असुरो नाम कैटभः ॥

170.2

तौ रजस्तमसौ विष्णोः सम्भूतौ तामसौ गणौ
एकार्णवे जगत्सर्वं क्षोभयन्तौ महाबलौ ॥

170.3

दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ
किरीटकुण्डलोदग्रौ केयूरवलयोज्ज्वलौ ॥

170.4

महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ
महागिरेः संहननौ जङ्गमाविव पर्वतौ ॥

170.5

नवमेघप्रतीकाशाव् आदित्यसदृशाननौ
विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ ॥

170.6

तौ पादयोस्तु विन्यासाद् उत्क्षिपन्ताविवार्णवम्
कम्पयन्ताविव हरिं शयानं मधुसूदनम् ॥

170.7

तौ तत्र विचरन्तौ स्म पुष्करे विश्वतोमुखम्
योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा ॥

170.8

नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः
दैवतानि च विश्वानि मानसानसुरानृषीन् ॥

170.9

ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ
दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणौ ॥

170.10

कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः
आधाय नियमं मोहाद् आस्ते त्वं विगतज्वरः ॥

170.11

एह्यागच्छावयोर् युद्धं देहि त्वं कमलोद्भव
आवाभ्यां परमीशाभ्याम् अशक्तस्त्वमिहार्णवे ॥

170.12

तत्र कश्चोद्भवस्तुभ्यं केन वासि न योजितः
कः स्रष्टा कश्च ते गोप्ता केन नाम्ना विधीयसे ॥

170.13

एक इत्युच्यते लोकैर् अविचिन्त्यः सहस्रदृक्
तत्संयोगेन भवतोः कर्म नामावगच्छताम् ॥

170.14

नावयोः परमं लोके किंचिदस्ति महामते
आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै ॥

170.15

रजस्तमोमयावावाम् ऋषीणाम् अवलङ्घितौ
छाद्यमानौ धर्मशीलौ दुस्तरौ सर्वदेहिनाम् ॥

170.16

आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे
आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः ॥

170.17

सुखं यत्र मुदा युक्तं यत्र श्रीः कीर्तिरेव च
येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥

170.18

यत्नाद् योगवतो दृष्ट्या योगः पूर्वं मयार्जितः
तं समाधाय गुणवत् सत्त्वं चास्मि समाश्रितः ॥

170.19

यः परो योगमतिमान् योगाख्यः सत्त्वमेव च
रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः ॥

170.20

ततो भूतानि जायन्ते सात्त्विकानीतराणि च
स एव हि युवां नांशे वशी देवो हनिष्यति ॥

170.21

स्वपन्नेव ततः श्रीमान् बहुयोजनविस्तृतम्
बाहुं नारायणो ब्रह्मा कृतवानात्ममायया ॥

170.22

कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ ॥

170.23

ततस्तावाहतुर्गत्वा तदा देवं सनातनम्
पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ॥

170.24

जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्
त्वमावां पाहि हेत्वर्थम् इदं नौ बुद्धिकारणम् ॥

170.25

अमोघदर्शनः स त्वं यतस्त्वां विद्वः शाश्वतम्
ततस्त्वामागतावावाम् अभितः प्रसमीक्षितुम् ॥

170.26

तदिच्छामो वरं देव त्वत्तो ऽद्भुतम् अरिंदम
अमोघदर्शनो ऽसि त्वं नमस्ते समितिंजय ॥

170.27

किमर्थं हि द्रुतं ब्रूतं वरं ह्यसुरसत्तमौ
दत्तायुष्कौ पुनर्भूयो रहो जीवितुम् इच्छथः ॥

170.28

यस्मिन्न कश्चिन्मृतवान् देव तस्मिन्प्रभो वधम्
तमिच्छावो वधश्चैव त्वत्तो नो ऽस्तु महाव्रत ॥

170.29

बाढं युवां तु प्रवरौ भविष्यत्कालसंभवे
भविष्यतो न संदेहः सत्यमेतद्ब्रवीमि वाम् ॥

170.30

वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः
रजस्तमोवर्गभवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc