भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 17

17.1

अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम्
श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् ॥

17.2

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे
अमावास्याष्टकाकृष्ण पक्षे पञ्चदशीषु च ॥

17.3

आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे
गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे ॥

17.4

वैशाखस्य तृतीयायां नवमी कार्त्तिकस्य च
पञ्चदशी च माघस्य नभस्ये च त्रयोदशी ॥

17.5

युगादयः स्मृता ह्य् एता दत्तस्याक्षय्यकारिकाः
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥

17.6

अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिके तथा
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥

17.7

फाल्गुनस्य ह्य् अमावास्या पौषस्यैकादशी तथा
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥

17.8

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा
कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्चदशी सिता
मन्वन्तरादयश् चैता दत्तस्याक्षय्यकारिकाः ॥

17.9

यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥

17.10

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥

17.11

वैशाख्यामुपरागेषु तथोत्सवमहालये
तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ॥

17.12

विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता
विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत् ॥

17.13

शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान्
द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा ॥

17.14

भोजयेत्सुसमृद्धो ऽपि न प्रसज्जते विस्तरे
विश्वान्देवान्यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् ॥

17.15

पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम्
शं नो देवीत्य् अपः कुर्याद् यवो ऽसीति यवानपि ॥

17.16

गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत्
विश्वे देवास इत्याभ्याम् आवाह्य विकिरेद्यवान् ॥

17.17

गन्धपुष्पैर् अलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत्
अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत् ॥

17.18

दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत्
खपवित्राणि कृत्वादौ शं नो देवीत्य् अपः क्षिपेत् ॥

17.19

तिलो ऽसीति तिलान्कुर्याद् गन्धपुष्पादिकं पुनः
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः ॥

17.20

जलजं वाथ कुर्वीत तथा सागरसम्भवम्
सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते ॥

17.21

रजतस्य कथा वापि दर्शनं दानमेव वा
राजतैर् भाजनैरेषाम् अथवा रजतान्वितैः ॥

17.22

वार्यपि श्रद्धया दत्तम् अक्षयायोपकल्पते
तथार्घ्यपिण्डभोज्यादौ पितॄणां राजतं मतम् ॥

17.23

शिवनेत्रोद्भवं यस्मात् तस्मात्तत्पितृवल्लभम्
अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥

17.24

एवं पात्राणि संकल्प्य यथालाभं विमत्सरः
या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत् ॥

17.25

पितॄन् आवाहयिष्यामि कुर्वित्युक्तस्तु तैः पुनः
उशन्तस्त्वा तथायन्तु ऋग्भ्याम् आवाहयेत्पितॄन् ॥

17.26

या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गन्धादिकांस्ततः
हस्तात्तदुदकं पूर्वं दत्त्वा संस्रवमादितः ॥

17.27

पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्
पितृभ्यः स्थानमसीति निधाय परिषेचयेत् ॥

17.28

तत्रापि पूर्ववत्कुर्याद् अग्निकार्यं विमत्सरः
उभाभ्यामपि हस्ताभ्याम् आहृत्य परिवेषयेत् ॥

17.29

प्रशान्तचित्तः सततं दर्भपाणिरशेषतः
गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः ॥

17.30

अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम्
मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः ॥

17.31

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥

17.32

षण्मासं छागमांसेन तृप्यन्ति पितरस्तथा
सप्त पार्षतमांसेन तथाष्टाव् एणजेन तु ॥

17.33

दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः
शशकूर्मजमांसेन मासानेकादशैव तु ॥

17.34

संवत्सरं तु गव्येन पयसा पायसेन च
रौरवेण च तृप्यन्ति मासान्पञ्चदशैव तु ॥

17.35

वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी
कालशाकेन चानन्ता खड्गमांसेन चैव हि ॥

17.36

यत्किंचिन्मधुसम्मिश्रं गोक्षीरं घृतपायसम्
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः ॥

17.37

स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च
ब्रह्मविष्ण्वर्करुद्राणां सूक्तानि विविधानि च ॥

17.38

इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः
बृहद्रथंतरं तद्वज् ज्येष्ठसाम सरौहिणम् ॥

17.39

तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च
मण्डलं ब्राह्मणं तद्वत् प्रीतिकारि तु यत्पुनः ॥

17.40

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्
भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप ॥

17.41

सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा
समुत्सृजेद्भुक्तवताम् अग्रतो विकिरेद्भुवि ॥

17.42

अग्निदग्धास्तु ये जीवा ये ऽप्यदग्धाः कुले मम
भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमां गतिम् ॥

17.43

येषां न माता न पिता न बन्धुर् न गोत्रशुद्धिर्न तथान्नम् अस्ति
तत्तृप्तये ऽन्नं भुवि दत्तमेतत् प्रयान्तु लोकेषु सुखाय तद्वत् ॥

17.44

असंस्कृतप्रमीतानां त्यक्तानां कुलयोषिताम्
उच्छिष्टभागधेयः स्याद् दर्भे विकिरयोश्च यः ॥

17.45

तृप्ताञ्ज्ञात्वोदकं दद्यात् सकृद्विप्रकरे तथा
उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा ॥

17.46

निधाय दर्भान्विधिवद् दक्षिणाग्रान् प्रयत्नतः
सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत् ॥

17.47

अवनेजनपूर्वं तु नामगोत्रेण मानवः
गन्धधूपादिकं दद्यात् कृत्वा प्रत्यवनेजनम् ॥

17.48

जान्वाच्य सव्यं सव्येन पाणिनाथ प्रदक्षिणम्
पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना ॥

17.49

दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः
अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ॥

17.50

अथ पुष्पाक्षतान् पश्चाद् अक्षय्योदकम् एव च
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥

17.51

गोभूहिरण्यवासांसि भव्यानि शयनानि च
दद्याद्यदिष्टं विप्राणाम् आत्मनः पितुरेव च ॥

17.52

वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहन्
ततः स्वधावाचनकं विश्वदेवेषु चोदकम् ॥

17.53

दत्त्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो बुधः
अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर् द्विजैः ॥

17.54

गोत्रं तथा वर्धतां नस् तथेत्युक्तश्च तैः पुनः
दातारो नो ऽभिवर्धन्ताम् इति चैवमुदीरयेत् ॥

17.55

एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः
स्वस्तिवाचनकं कुर्यात् पिण्डानुद्धृत्य भक्तितः ॥

17.56

उच्छेषणं तु तत्तिष्ठेद् यावद्विप्रा विसर्जिताः
ततो ग्रहबलिं कुर्याद् इति धर्मव्यवस्थितिः ॥

17.57

उच्छेषणं भूमिगतम् अजिह्मस्यास्तिकस्य च
दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते ॥

17.58

पितृभिर् निर्मितं पूर्वम् एतदाप्यायनं सदा
अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप ॥

17.59

ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम्
वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत् ॥

17.60

बहिः प्रदक्षिणां कुर्यात् पदान्य् अष्टाव् अनुव्रजन्
बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥

17.61

निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत्
वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च ॥

17.62

ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः
भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥

17.63

एतच्चानुपनीतो ऽपि कुर्यात्सर्वेषु पर्वसु
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥

17.64

भार्याविरहितो ऽप्येतत् प्रवासस्थो ऽपि भक्तिमान्
शूद्रो ऽप्यमन्त्रवत्कुर्याद् अनेन विधिना बुधः ॥

17.65

तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते
उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥

17.66

मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्
ततो मातामहा राजन् विश्वे देवास्तथैव च ॥

17.67

प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः
प्राङ्मुखो निर्वपेत्पिण्डान् दूर्वया च कुशैर्युतान् ॥

17.68

सम्पन्नम् इत्यभ्युदये दद्यादर्घ्यं द्वयोर् द्वयोः
युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः ॥

17.69

तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः
माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः ॥

17.70

एवं शूद्रो ऽपि सामान्य वृद्धिश्राद्धे ऽपि सर्वदा
नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा ॥

17.71

दानप्रधानः शूद्रः स्याद् इत्याह भगवान्प्रभुः
दानेन सर्वकामाप्तिर् अस्य संजायते यतः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc