भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 18

18.1

एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना
मृते पुत्रैर्यथा कार्यम् आशौचं च पितर्यपि ॥

18.2

दशाहं शावमाशौचं ब्राह्मणेषु विधीयते
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि ॥

18.3

शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते
नैशं वाकृतचूडस्य त्रिरात्रं परतः स्मृतम् ॥

18.4

जनने ऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा
तथास्थिसंचयाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते ॥

18.5

प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत्
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत् ॥

18.6

तस्मात्प्रेतपुरं प्रेतो द्वादशाहं न नीयते
गृहं पुत्रं कलत्रं च द्वादशाहं प्रपश्यति ॥

18.7

तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा
सर्वदाहोपशान्त्यर्थम् अध्वश्रमविनाशनम् ॥

18.8

तत एकादशाहे तु द्विजानेकादशैव तु
क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ॥

18.9

द्वितीये ऽह्नि पुनस्तद्वद् एकोद्दिष्टं समाचरेत्
आवाहनाग्नौकरणं दैवहीनं विधानतः ॥

18.10

एकं पवित्रमेको ऽर्घ एकः पिण्डो विधीयते
उपतिष्ठतामित्येतद् देयं पश्चात्तिलोदकम् ॥

18.11

स्वदितं विकिरेद्ब्रूयाद् विसर्गे चाभिरम्यताम्
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥

18.12

अनेन विधिना सर्वम् अनुमासं समाचरेत्
सूतकान्ताद्द्वितीये ऽह्नि शय्यां दद्याद्विलक्षणाम् ॥

18.13

काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम्
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥

18.14

वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥

18.15

यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥

18.16

सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग्भवेत्
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥

18.17

सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत्
पितॄन् निवासयेत्तत्र पृथक्प्रेतं विनिर्दिशेत् ॥

18.18

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥

18.19

तद्वत्संकल्प्य चतुरः पिण्डान्पिण्डप्रदस्तथा
ये समाना इति द्वाभ्याम् अन्त्यं तु विभजेत्त्रिधा ॥

18.20

चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत्
ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः ॥

18.21

अग्निष्वात्तादिमध्यत्वं प्राप्नोत्यमृतमुत्तमम्
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्न दीयते ॥

18.22

पितृष्वेव तु दातव्यं तत्पिण्डो येषु संस्थितः
ततः प्रभृति संक्रान्ताव् उपरागादिपर्वसु ॥

18.23

त्रिपिण्डमाचरेच्छ्राद्धम् एकोद्दिष्टे मृते ऽहनि
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥

18.24

सदैव पितृहा स स्यान् मातृभ्रातृविनाशकः
मृताहे पार्वणं कुर्वन् नधो ऽधो याति मानवः ॥

18.25

संपृक्तेष्वाकुलीभावः प्रेतेषु तु गतो भवेत्
प्रतिसंवत्सरं तस्माद् एकोद्दिष्टं समाचरेत् ॥

18.26

यावदब्दं तु यो दद्याद् उदकुम्भं विमत्सरः
प्रेतायान्नसमायुक्तं सो ऽश्वमेधफलं लभेत् ॥

18.27

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस्तदा
तेनाग्नौकरणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥

18.28

त्रिभिः सपिण्डीकरणे अशेषत्रितये पिता
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥

18.29

मुक्तो ऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात्
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc