भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 16

16.1

श्रुत्वैतत् सर्वम् अखिलं मनुः पप्रच्छ केशवम्
श्राद्धकालं च विविधं श्राद्धभेदं तथैव च ॥

16.2

श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः
कस्मिन्वासरभागे वा पितृभ्यः श्राद्धमाचरेत् ॥

16.3

कस्मिन्दत्तं कथं याति श्राद्धं तु मधुसूदन
विधिना केन कर्तव्यं कथं प्रीणाति तत्पितॄन् ॥

16.4

कुर्यादहरहः श्राद्धम् अन्नाद्येनोदकेन वा
पयोमूलफलैर् वापि पितृभ्यः प्रीतिमावहन् ॥

16.5

नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते
नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ॥

16.6

अदैवं तद्विजानीयात् पार्वणं पर्वसु स्मृतम्
पार्वणं त्रिविधं प्रोक्तं शृणु तावन्महीपते ॥

16.7

पार्वणे ये नियोज्यास्तु ताञ्शृणुष्व नराधिप
पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित् ॥

16.8

श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः
सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः ॥

16.9

पुराणवेत्ता धर्मज्ञः स्वाध्यायजपतत्परः
शिवभक्तः पितृपरः सूर्यभक्तो ऽथ वैष्णवः ॥

16.10

ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान्
भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्गुरून् ॥

16.11

विट्पीतं मातुलं बन्धुम् ऋत्विगाचार्यसोमपान्
यश्च व्याकुरुते वाक्यं यश्च मीमांसते ऽध्वरम् ॥

16.12

सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः
सामगो ब्रह्मचारी च वेदयुक्तो ऽथ ब्रह्मवित् ॥

16.13

यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवत्
एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे ॥

16.14

पतितो ऽभिशस्तः क्लीबः पिशुनव्यङ्गरोगिणः
कुनखी श्यावदन्तश्च कुण्डगोलाश्वपालकाः ॥

16.15

परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः
बैडाली बकवृत्तिश्च दम्भी देवलकादयः ॥

16.16

कृतघ्नान्नास्तिकांस् तद्वन् म्लेच्छदेशनिवासिनः
त्रिशङ्कुर् बर्बरद्राव वीतद्रविडकोङ्कणान् ॥

16.17

वर्जयेल्लिङ्गिनः सर्वाञ् श्राद्धकाले विशेषतः
पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत् ॥

16.18

निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान्
वायुभूता नु गच्छन्ति तथासीनानुपासते ॥

16.19

दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः
एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान् ॥

16.20

अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥

16.21

पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु यो ऽग्निमान्
पिण्डान्वाहार्यकं कुर्याच् छ्राद्धमिन्दुक्षये सदा ॥

16.22

गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले
श्राद्धं समाचरेद्भक्त्या गोष्ठे वा जलसंनिधौ ॥

16.23

अग्निमान्निर्वपेत्पित्र्यं चरुं च सममुष्टिभिः
पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत् ॥

16.24

अभिघार्यं ततः कुर्यान् निर्वापत्रयमग्रतः
ते ऽपि तस्यायताः कार्याश् चतुरङ्गुलविस्तृताः ॥

16.25

दर्वीत्रयं तु कुर्वीत खादिरं रजतान्वितम्
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम् ॥

16.26

उदपात्रं च कांस्यं च मेक्षणं च समित्कुशान्
तिलाः पात्राणि सद्वासो गन्धधूपानुलेपनम् ॥

16.27

आहरेदपसव्यं तु सर्वं दक्षिणतः शनैः
एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि ॥

16.28

गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम्
अक्षताभिः सपुष्पाभिस् तदभ्यर्च्यापसव्यवत् ॥

16.29

विप्राणां क्षालयेत् पादाव् अभिनन्द्य पुनः पुनः
आसनेषूपकॢप्तेषु दर्भवत्सु विधानवत् ॥

16.30

उपस्पृष्टोदकान्विप्रान् उपवेश्यानुमन्त्रयेत्
द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र च ॥

16.31

भोजयेदीश्वरो ऽपीह न कुर्याद्विस्तरं बुधः
दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः ॥

16.32

अग्नौ कुर्यादनुज्ञातो विप्रैर् विप्रो यथाविधि
स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः ॥

16.33

अग्नीषोमयमाभ्यां तु कुर्यादाप्यायनं बुधः
दक्षिणाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः ॥

16.34

यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम्
प्राचीनावीतिना कार्यम् अतः सर्वं विजानता ॥

16.35

षट् च तस्माद्धविःशेषात् पिण्डान्कृत्वा ततोदकम्
दद्यादुदकपात्रैस् तु सतिलं सव्यपाणिना ॥

16.36

जान्व् आच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः
विधाय लेखा यत्नेन निर्वापेष्ववनेजनम् ॥

16.37

दक्षिणाभिमुखः कुर्यात् करे दर्वीं निधाय वै
निधाय पिण्डम् एकैकं सर्वदर्भेष्वनुक्रमात् ॥

16.38

निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः
तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनाम् ॥

16.39

तथैव च ततः कुर्यात् पुनः प्रत्यवनेजनम्
षडप्यृतून्नमस्कृत्य गन्धधूपार्हणादिभिः ॥

16.40

एवमावाह्य तत्सर्वं वेदमन्त्रैर्यथोदितैः
एकाग्नेरेक एव स्यान् निर्वापो दर्विका तथा ॥

16.41

ततः कृत्वान्तरे दद्यात् पत्नीभ्यो ऽन्नं कुशेषु सः
तद्वत्पिण्डादिके कुर्याद् आवाहनविसर्जनम् ॥

16.42

ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु
तानेव विप्रान्प्रथमं प्राशयेद्यत्नतो नरः ॥

16.43

यस्मादन्नाद्धृता मात्रा भक्षयन्ति द्विजातयः
अन्वाहार्यकम् इत्युक्तं तस्मात्तच्चन्द्रसंक्षये ॥

16.44

पूर्वं दत्त्वा तु तद्धस्ते सपवित्रं तिलोदकम्
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥

16.45

वर्णयन्भोजयेदन्नं मिष्टं पूतं च सर्वदा
वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम् ॥

16.46

तृप्ताञ्ज्ञात्वा ततः कुर्याद् विकिरन्सार्ववर्णिकम्
सोदकं चान्नमुद्धृत्य सलिलं प्रक्षिपेद्भुवि ॥

16.47

आचान्तेषु पुनर्दद्याज् जलपुष्पाक्षतोदकम्
स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत् ॥

16.48

देवाद्यन्तं प्रकुर्वीत श्राद्धनाशो ऽन्यथा भवेत्
विसृज्य ब्राह्मणांस्तद्वत् तेषां कृत्वा प्रदक्षिणम् ॥

16.49

दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः
दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च ॥

16.50

श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्विति
अन्नं च नो बहु भवेद् अतिथींश्च लभेमहि ॥

16.51

याचितारश्च नः सन्तु मा च याचिष्म कंचन
एतदस्त्विति तत्प्रोक्तम् अन्वाहार्यं तु पार्वणम् ॥

16.52

यथेन्दुसंक्षये तद्वद् अन्यत्रापि निगद्यते
पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा ॥

16.53

विप्राग्रतो वा विकिरेद् वयोभिर् अभिवाशयेत्
पत्नी तु मध्यमं पिण्डं प्राशयेद् विनयान्विता ॥

16.54

आधत्त पितरो गर्भम् अत्र संतानवर्धनम्
तावदुच्छेषणं तिष्ठेद् यावद्विप्रा विसर्जिताः ॥

16.55

वैश्वदेवं ततः कुर्यान् निवृत्ते पितृकर्मणि
इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम् ॥

16.56

पुनर् भोजनमध्वानं यानमायासमैथुनम्
श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥

16.57

स्वाध्यायकलहं चैव दिवास्वप्नं च सर्वदा
अनेन विधिना श्राद्धं निरुद्वास्येह निर्वपेत् ॥

16.58

कन्याकुम्भवृषस्थे ऽर्के कृष्णपक्षेषु सर्वदा
यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम्
तत्रानेन विधानेन देयम् अग्निमता सदा ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc