मत्स्य पुराण · अध्याय 167
एवमेकार्णवीभूते शेते लोकेमहाद्युतिः
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा ॥
महतो रजसो मध्ये महार्णवसरःसु वै
विरजस्कं महाबाहुम् अक्षयं ब्रह्म यद्विदुः ॥
आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः
मनः सात्त्विकमाधाय यत्र तत्सत्यमासत ॥
याथातथ्यं परं ज्ञानं भूतं तद्ब्रह्मणा पुरा
रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम् ॥
पुरुषो यज्ञ इत्येतद् यत्परं परिकीर्तितम्
यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः ॥
ये च यज्ञकरा विप्रा ये चर्त्विज इति स्मृताः
अस्मादेव पुरा भूता यज्ञेभ्यः श्रूयतां तथा ॥
ब्रह्माणं प्रथमं वक्त्राद् उद्गातारं च सामगम्
होतारमपि चाध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥
ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारं च सर्वशः
तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च ॥
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव
अच्छावाकमथोरुभ्यां नेष्टारं चैव पार्थिव ॥
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च जानुतः
ग्रावस्तुतं तु पादाभ्याम् उन्नेतारं च याजुषम् ॥
एवमेवैष भगवान् षोडशैव जगत्पतिः
प्रवक्तॄन्सर्वयज्ञानाम् ऋत्विजो ऽसृजदुत्तमान् ॥
तदेष वै वेदमयः पुरुषो यज्ञसंज्ञितः
वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा
श्रूयतां तद्यथा विप्रा मार्कण्डेयकुतूहलम् ॥
गीर्णो भगवतस्तस्य कुक्षावेव महामुनिः
बहुवर्षसहस्रायुस् तस्यैव वरतेजसा ॥
अटंस्तीर्थप्रसङ्गेन पृथिवीं तीर्थगोचराम्
आश्रमाणि च पुण्यानि देवतायतनानि च ॥
देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च
जपहोमपरः शान्तस् तपो घोरं समास्थितः ॥
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिःसृतः
स निष्क्रामन्न चात्मानं जानीते देवमायया ॥
निष्क्रम्याप्यस्य वदनाद् एकार्णवमथो जगत्
सर्वतस्तमसाच्छन्नं मार्कण्डेयो ऽन्ववैक्षत ॥
तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते
देवदर्शनसंहृष्टो विस्मयं परमं गतः ॥
चिन्तयञ्जलमध्यस्थो मार्कण्डेयो विशङ्कितः
किं नु स्यान्मम चिन्तेयं मोहः स्वप्नो ऽनुभूयते ॥
व्यक्तमन्यतमो भावस् तेषां संभावितो मम
न हीदृशं जगत्क्लेशम् अयुक्तं सत्यमर्हति ॥
नष्टचन्द्रार्कपवने नष्टपर्वतभूतले
कतमः स्यादयं लोक इति चिन्तामवस्थितः ॥
ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम्
सलिले ऽर्धमथो मग्नं जीमूतमिव सागरे ॥
ज्वलन्तमिव तेजोभिर् गोयुक्तमिव भास्करम्
शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा ॥
देवं द्रष्टुमिहायातः को भवानिति विस्मयात्
तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः ॥
सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयो ऽतिविस्मयः
तथैव तु पुनर्भूयो विजानन्स्वप्नदर्शनम् ॥
स तथैव यथापूर्वं यो धरामटते पुरा
पुण्यतीर्थजलोपेतां विविधान्याश्रमाणि च ॥
क्रतुभिर्यजमानाश्च समाप्तवरदक्षिणान्
अपश्यद्देवकुक्षिस्थान् याजकाञ्छतशो द्विजान् ॥
सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः
चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टा मया तव ॥
एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः
चरतः पृथिवीं सर्वां न कुक्ष्यन्तः समीक्षितः ॥
ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः
सुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत ॥
तथैवैकार्णवजले नीहारेणावृताम्बरे
अव्यग्रः क्रीडते लोके सर्वभूतविवर्जिते ॥
स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः
बालमादित्यसंकाशं नाशक्नोदभिवीक्षितुम् ॥
स चिन्तयंस्तथैकान्ते स्थित्वा सलिलसंनिधौ
पूर्वदृष्टमिदं मेने शङ्कितो देवमायया ॥
अगाधसलिले तस्मिन् मार्कण्डेयः सविस्मयः
प्लवंस्तथार्तिम् अगमद् भयात्संत्रस्तलोचनः ॥
स तस्मै भगवानाह स्वागतं बालयोगवान्
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥
मा भैर्वत्स न भेतव्यम् इहैवायाहि मे ऽन्तिकम्
मार्कण्डेयो मुनिस्त्वाह बालं तं श्रमपीडितः ॥
को मां नाम्ना कीर्तयति तपः परिभवन्मम
दिव्यं वर्षसहस्राख्यं धर्षयन्निव मे वयः ॥
न ह्येष वः समाचारो देवेष्वपि ममोचितः
मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते ॥
कस्तमो घोरमासाद्य मामद्य त्यक्तजीवितः
मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति ॥
एवमाभाष्य तं क्रोधान् मार्कण्डेयो महामुनिः
तथैव भगवान्भूयो बभाषे मधुसूदनः ॥
अहं ते जनको वत्स हृषीकेशः पिता गुरुः
आयुष्प्रदाता पौराणः किं मां त्वं नोपसर्पसि ॥
मां पुत्रकामः प्रथमं पिता ते ऽङ्गिरसो मुनिः
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥
ततस्त्वां घोरतपसा प्रावृणोदमितौजसम्
उक्तवानहमात्मस्थं महर्षिम् अमितौजसम् ॥
कः समुत्सहते चान्यो यो न भूतात्मकात्मजः
द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना ॥
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥
नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः
तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥
इच्छेयं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥
किंसंज्ञश्चैव भगवांल् लोके विज्ञायसे प्रभो
तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ॥
अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः
अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः ॥
आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः
अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ॥
अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः
अहं योगी युगाख्यस्य युगान्तावर्त एव च ॥
अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि तु
भुजंगानामहं शेषस् तार्क्ष्यो वै सर्वपक्षिणाम् ॥
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥
अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः
यत्तत्सत्यं च परमम् अहमेकः प्रजापतिः ॥
अहं सांख्यमहं योगो ऽप्यहं तत्परमं पदम्
अहमिज्या क्रिया चाहम् अहं विद्याधिपः स्मृतः ॥
अहं ज्योतिरहं वायुर् अहं भूमिरहं नभः
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ॥
अहं वर्षमहं सोमः पर्जन्यो ऽहमहं रविः
क्षीरोदसागरे चाहं समुद्रे वडवामुखः ॥
वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः
अहं पुराणः परमं तथैवाहं परायणम् ॥
अहं भूतस्य भव्यस्य वर्तमानस्य संभवः
यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन ॥
यल्लोके चानुभवसि तत्सर्वं मामनुस्मर
विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम् ॥
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत्
तदेतदखिलं सर्वं मार्कण्डेयावधारय ॥
शुश्रूषुर्मम धर्मांश्च कुक्षौ चर सुखं मम
मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह ॥
व्यक्तमव्यक्तयोगं माम् अवगच्छासुरद्विषम्
अहमेकाक्षरो मन्त्रस् त्र्यक्षरश्चैव तारकः ॥
परस्त्रिवर्गाद् ओंकारस् त्रिवर्गार्थनिदर्शनः
एवमादिपुराणेशो वदन्नेव महामतिः ॥
वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम्
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ॥
स तस्मिन्सुखमेकान्ते शुश्रूषुर्हंसमव्ययम्
यो ऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे
शनैश्चरन्प्रभुरपि हंससंज्ञितो ऽसृजज्जगद्विहरति कालपर्यये ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0