मत्स्य पुराण · अध्याय 168
आपवः स विभुर्भूत्वा चारयामास वै तपः
छादयित्वात्मनो देहं यादसां कुलसंभवम् ॥
ततो महात्मातिबलो मतिं लोकस्य सर्जने
महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ॥
तस्य चिन्तयमानस्य निर्वाते संस्थिते ऽर्णवे
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥
ईषत्संक्षोभयामास सो ऽर्णवं सलिलाश्रयः
अनन्तरोर्मिभिः सूक्ष्मम् अथ छिद्रमभूत्पुरा ॥
शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसंभवः
स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः ॥
विवर्धता बलवता वेगाद्विक्षोभितो ऽर्णवः
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते
कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान् ॥
ततः संशोषयामास पावकः सलिलं बहु
क्षयाज्जलनिधेश्छिद्रम् अभवद्विस्तृतं नभः ॥
आत्मतेजोद्भवाः पुण्या आपो ऽमृतरसोपमाः
आकाशं छिद्रसम्भूतं वायुराकाशसंभवः ॥
आभ्यां संघर्षणोद्भूतं पावकं वायुसंभवम्
दृष्ट्वा प्रीतो महादेवो महाभूतविभावनः ॥
दृष्ट्वा भूतानि भगवांल् लोकसृष्ट्यर्थमुत्तमम्
ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् ॥
चतुर्युगाभिसंख्याते सहस्रयुगपर्यये
बहुजन्मा हि विश्वात्मा ब्रह्मणो हविरुच्यते ॥
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम्
ज्ञानं वृष्टं तु विश्वार्थे योगिनां याति मुख्यताम् ॥
तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम्
पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित् ॥
ततस्तस्मिन्महातोये महीशो हरिरच्युतः
जले क्रीडंश्च विधिवन् मोदते सर्वलोककृत् ॥
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा
सहस्रपर्णं विरजं भास्कराभं हिरण्मयम् ॥
हुताशनज्वलितशिखोज्ज्वलत्प्रभम् उपस्थितं शरदमलार्कतेजसम्
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0