मत्स्य पुराण · अध्याय 166
भूत्वा नारायणो योगी सत्त्वमूर्तिर्विभावसुः
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥
ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः
पर्वतानां च सलिलं सर्वमादाय रश्मिभिः ॥
भित्त्वा गभस्तिभिश्चैव महीं गत्वा रसातलात्
पातालजलमादाय पिबते रसमुत्तमम् ॥
मूत्रासृक्क्लेदम् अन्यच्च यदस्ति प्राणिषु ध्रुवम्
तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥
वायुश्च बलवान्भूत्वा विधुन्वानो ऽखिलं जगत्
प्राणापानसमानाद्यान् वायून् आकर्षते हरिः ॥
ततो देवगणाः सर्वे भूतान्येव च यानि तु
गन्धो घ्राणं शरीरं च पृथिवीं संश्रिता गुणाः ॥
जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥
स्पर्शः प्राणश्च चेष्टा च पवने संश्रिता गुणाः
शब्दः श्रोत्रं च खान्येव गगने संश्रिता गुणाः ॥
लोकमाया भगवता मुहूर्तेन विनाशिता
मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ॥
तं वरेण्यं परमेष्ठी हृषीकेशमुपाश्रितः
ततो भगवतस्तस्य रश्मिभिः परिवारितः ॥
वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रितः
तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन् ॥
अदहच्च तदा सर्वं वृतः संवर्तको ऽनलः
सपर्वतद्रुमान्गुल्मांल् लतावल्लीस्तृणानि च ॥
विमानानि च दिव्यानि पुराणि विविधानि च
यानि चाश्रयणीयानि तानि सर्वाणि सो ऽदहत् ॥
भस्मीकृत्य ततः सर्वांल् लोकांल्लोकगुरुर्हरिः
भूयो निर्वापयामास युगान्तेन च कर्मणा ॥
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥
ततः क्षीरनिकायेन स्वादुना परमाम्भसा
शिवेन पुण्येन मही निर्वाणमगमत्परम् ॥
तेन रोधेन संछन्ना पयसां वर्षतो धरा
एकार्णवजलीभूता सर्वसत्त्वविवर्जिता ॥
महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम्
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ॥
संशोषमात्मना कृत्वा समुद्रानपि देहिनः
दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः ॥
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः
एकार्णवजलव्यापी योगी योगमुपाश्रितः ॥
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥
कश्चैव पुरुषो नाम किंयोगः कश्च योगवान्
असौ कियन्तं कालं च एकार्णवविधिं प्रभुः ॥
करिष्यतीति भगवान् इति कश्चिन् न बुध्यते ॥
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः
तस्य न ज्ञायते किंचित् तमृते देवसत्तमम् ॥
नभः क्षितिं पवनम् अपः प्रकाशकं प्रजापतिं भुवनधरं सुरेश्वरम्
पितामहं श्रुतिनिलयं महामुनिं प्रशाम्य भूयः शयनं ह्यरोचयत् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0