भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 165

165.1

चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम्
तस्य तावच्छती संध्या द्विगुणा रविनन्दन ॥

165.2

यत्र धर्मश्चतुष्पादस् त्व् अधर्मः पादविग्रहः
स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥

165.3

विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नृपाः
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥

165.4

तदा सत्यं च शौचं च धर्मश्चैव विवर्धते
सद्भिराचरितं कर्म क्रियते ख्यायते च वै ॥

165.5

एतत्कार्तयुगं वृत्तं सर्वेषामपि पार्थिव
प्राणिनां धर्मसङ्गानाम् अपि वै नीचजन्मनाम् ॥

165.6

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते
तस्य तावच्छती संध्या द्विगुणा परिकीर्त्यते ॥

165.7

द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः
यत्र सत्यं च सत्त्वं च त्रेताधर्मो विधीयते ॥

165.8

त्रेतायां विकृतिं यान्ति वर्णास्त्वेते न संशयः
चातुर्वर्ण्यस्य वैकृत्याद् यान्ति दौर्बल्यमाश्रमाः ॥

165.9

एषा त्रेतायुगगतिर् विचित्रा देवनिर्मिता
द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ॥

165.10

द्वापरं द्वे सहस्रे तु वर्षाणां रविनन्दन
तस्य तावच्छती संध्या द्विगुणा युगमुच्यते ॥

165.11

तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः
सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन ॥

165.12

द्वाभ्यां धर्मः स्थितः पद्भ्याम् अधर्मस्त्रिभिरुत्थितः
विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ॥

165.13

ब्राह्मण्यभावस्य ततस् तथौत्सुक्यं विशीर्यते
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥

165.14

तथा वर्षसहस्रं तु वर्षाणां द्वे शते अपि
संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ॥

165.15

यत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः
कामिनस्तपसा हीना जायन्ते तत्र मानवाः ॥

165.16

नैवातिसात्त्विकः कश्चिन् न साधुर्न च सत्यवाक्
नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ॥

165.17

अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः
विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ॥

165.18

आश्रमाणां विपर्यासः कलौ सम्परिवर्तते
वर्णानां चैव संदेहो युगान्ते रविनन्दन ॥

165.19

विद्याद्द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम्
एवं सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते ॥

165.20

ततो ऽहनि गते तस्मिन् सर्वेषामेव जीविनाम्
शरीरनिर्वृतिं दृष्ट्वा लोकसंहारबुद्धितः ॥

165.21

देवतानां च सर्वासां ब्रह्मादीनां महीपते
दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम् ॥

165.22

गन्धर्वाणामप्सरसां भुजंगानां च पार्थिव
पर्वतानां नदीनां च पशूनां चैव सत्तम
तिर्यग्योनिगतानां च सत्त्वानां कृमिणां तथा ॥

165.23

महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत्
जगत्संहरणार्थाय कुरुते वैशसं महत् ॥

165.24

भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम्
भूत्वा वह्निर्निर्दहन्सर्वलोकान् भूत्वा मेघो भूय उग्रो ऽप्यवर्षत् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc