मत्स्य पुराण · अध्याय 164
कथितं नरसिंहस्य माहात्म्यं विस्तरेण च
पुनस्तस्यैव माहात्म्यम् अन्यद्विस्तरतो वद ॥
पद्मरूपमभूदेतत् कथं हेममयं जगत्
कथं च वैष्णवी सृष्टिः पद्ममध्ये ऽभवत्पुरा ॥
श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः
विस्मयोत्फुल्लनयनः पुनः पप्रच्छ केशवम् ॥
कथं पाद्मे महाकल्पे तव पद्ममयं जगत्
जलार्णवगतस्येह नाभौ जातं जनार्दन ॥
प्रभावात्पद्मनाभस्य स्वपतः सागराम्भसि
पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा ॥
एतदाख्याहि निखिलं योगं योगविदां पते
शृण्वतस्तस्य मे कीर्तिं न तृप्तिरुपजायते ॥
कियता चैव कालेन शेते वै पुरुषोत्तमः
कियन्तं वा स्वपिति च को ऽस्य कालस्य संभवः ॥
कियता वाथ कालेन ह्य् उत्तिष्ठति महायशाः
कथं चोत्थाय भगवान् सृजते निखिलं जगत् ॥
के प्रजापतयस्तावद् आसन्पूर्वं महामुने
कथं निर्मितवांश्चैव चित्रं लोकं सनातनम् ॥
कथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे
दग्धे देवासुरनरे प्रनष्टोरगराक्षसे ॥
नष्टानिलानले लोके नष्टाकाशमहीतले
केवलं गह्वरीभूते महाभूतविपर्यये ॥
विभुर्महाभूतपतिर् महातेजा महाकृतिः
आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित् ॥
शृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः
वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥
श्रद्धया चोपविष्टानां भगवन्वक्तुमर्हसि ॥
नारायणस्य यशसः श्रवणे या तव स्पृहा
तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ ॥
शृणुष्वादिपुराणेषु वेदेभ्यश्च यथा श्रुतम्
ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम् ॥
यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः
पराशरसुतः श्रीमान् गुरुर्द्वैपायनो ऽब्रवीत् ॥
तत्ते ऽहं कथयिष्यामि यथाशक्ति यथाश्रुति
यद्विज्ञातुं मया शक्यम् ऋषिमात्रेण सत्तमाः ॥
कः समुत्सहते ज्ञातुं परं नारायणात्मकम्
विश्वायनश्च यद्ब्रह्मा न वेदयति तत्त्वतः ॥
तत्कर्म विश्ववेदानां तद्रहस्यं महर्षीणाम्
तमीशं सर्वयज्ञानां तत्तत्त्वं सर्वदर्शिनाम्
तदध्यात्मविदां चिन्त्यं नरकं च विकर्मिणाम् ॥
अधिदैवं च यद्दैवम् अधियज्ञं सुसंज्ञितम्
तद्भूतमधिभूतं च तत्परं परमर्षीणाम् ॥
स यज्ञो वेदनिर्दिष्टस् तत्तपः कवयो विदुः
यः कर्ता कारको बुद्धिर् मनः क्षेत्रज्ञ एव च ॥
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते
प्राणः पञ्चविधश्चैव ध्रुव अक्षर एव च ॥
कालः पाकश्च पक्ता च द्रष्टा स्वाध्याय एव च
उच्यते विविधैर्देवैः स एवायं न तत्परम् ॥
स एव भगवान्सर्वं करोति विकरोति च
सो ऽस्मान्कारयते सर्वान् सो ऽत्येति व्याकुलीकृतान् ॥
यजामहे तमेवाद्यं तमेवेच्छाम निर्वृताः
यो वक्ता यच्च वक्तव्यं यच्चाहं तद्ब्रवीमि वः ॥
श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्प्यते
याः कथाश्चैव वर्तन्ते श्रुतयो वाथ तत्पराः
विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः ॥
यत्सत्यं यदमृतमक्षरं परं यद् यद्भूतं परममिदं च यद्भविष्यत्
यत्किंचिच् चरमचरं यदस्ति चान्यत् तत्सर्वं पुरुषवरः प्रभुः पुराणः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0