भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 163

163.1

खराः खरमुखाश्चैव मकराशीविषाननाः
ईहामृगमुखाश्चान्ये वराहमुखसंस्थिताः ॥

163.2

बालसूर्यमुखाश्चान्ये धूमकेतुमुखास्तथा
अर्धचन्द्रार्धवक्त्राश्च अग्निदीप्तमुखास्तथा ॥

163.3

हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः
सिंहास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥

163.4

द्विजिह्वका वक्रशीर्षास् तथोल्कामुखसंस्थिताः
महाग्राहमुखाश्चान्ये दानवा बलदर्पिताः ॥

163.5

शैलसंवर्ष्मणस् तस्य शरीरे शरवृष्टिभिः
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥

163.6

एवं भूयो ऽपरान्घोरान् असृजन्दानवेश्वराः
मृगेन्द्रस्योपरि क्रुद्धा निःश्वसन्त इवोरगाः ॥

163.7

ते दानवशरा घोरा दानवेन्द्रसमीरिताः
विलयं जग्मुराकाशे खद्योता इव पर्वते ॥

163.8

ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः
मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥

163.9

तैरासीद्गगनं चक्रैः संपतद्भिरितस्ततः
युगान्ते संप्रकाशद्भिश् चन्द्रादित्यग्रहैरिव ॥

163.10

तानि सर्वाणि चक्राणि मृगेन्द्रेण महात्मना
ग्रस्तान्युदीर्णानि तदा पावकार्चिःसमानि वै ॥

163.11

तानि चक्राणि वदने विशमानानि भान्ति वै
मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥

163.12

हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम्
शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम् ॥

163.13

तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्ज्वलाम्
हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥

163.14

रराज भग्ना सा शक्तिर् मृगेन्द्रेण महीतले
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥

163.15

नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे ऽविदूरतः
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥

163.16

स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम्
तत्सैन्यम् उत्सारितवांस् तृणाग्राणीव मारुतः ॥

163.17

ततो ऽश्मवर्षं दैत्येन्द्रा व्यमृजन्त नभोगताः
नगमात्रैः शिलाखण्डैर् गिरिशृङ्गैर्महाप्रभैः ॥

163.18

तदश्मवर्षं सिंहस्य महन्मूर्धनि पातितम्
दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥

163.19

तदाश्मौघैर् दैत्यगणाः पुनः सिंहमरिंदमम्
छादयांचक्रिरे मेघा धाराभिरिव पर्वतम् ॥

163.20

न च तं चालयामासुर् दैत्यौघा देवसत्तमम्
भीमवेगो ऽचलश्रेष्ठं समुद्र इव मन्दरम् ॥

163.21

ततो ऽश्मवर्षे विहते जलवर्षमनन्तरम्
धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः ॥

163.22

नभसः प्रच्युता धारास् तिग्मवेगाः समन्ततः
आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥

163.23

धारा दिवि च सर्वत्र वसुधायां च सर्वशः
न स्पृशन्ति च ता देवं निपतन्त्यो ऽनिशं भुवि ॥

163.24

बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥

163.25

हते ऽश्मवर्षे तुमुले जलवर्षे च शोषिते
सो ऽसृजद्दानवो मायाम् अग्निवायुसमीरिताम् ॥

163.26

महेन्द्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः
महता तोयवर्षेण शमयामास पावकम् ॥

163.27

तस्यां प्रतिहतायां तु मायायां युधि दानवः
असृजद्घोरसंकाशं तमस्तीव्रं समन्ततः ॥

163.28

तमसा संवृते लोके दैत्येष्वात्तायुधेषु च
स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥

163.29

त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे
ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥

163.30

ततः सर्वासु मायासु हतासु दितिनन्दनाः
हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥

163.31

ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा
तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ॥

163.32

आवहः प्रवहश्चैव विवहो ऽथ ह्युदावहः
परावहः संवहश्च महाबलपराक्रमाः ॥

163.33

तथा परिवहः श्रीमान् उत्पातभयशंसिनः
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥

163.34

ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै
ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥

163.35

अयोगतश्चाप्यचरन् मार्गं निशि निशाचरः
सग्रहः सह नक्षत्रैर् आकापतिररिंदमः ॥

163.36

विवर्णतां च भगवान् गतो दिवि दिवाकरः
कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥

163.37

अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्तिर् विभावसुः
गगनस्थश्च भगवान् अभीक्ष्णं परिदृश्यते ॥

163.38

सप्त धूम्रनिभा घोराः सूर्या दिवि समुत्थिताः
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥

163.39

वामे तु दक्षिणे चैव स्थितौ शुक्रबृहस्पती
शनैश्चरो लोहिताङ्गो ज्वलनाङ्गसमद्युतिः ॥

163.40

समं समधिरोहन्तः सर्वे ते गगनेचराः
शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥

163.41

चन्द्रमाश्च सनक्षत्रैर् ग्रहैः सह तमोनुदः
चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥

163.42

गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते
उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥

163.43

देवानामपि यो देवः सो ऽप्यवर्षत शोणितम्
अपतन्गगनादुल्का विद्युद्रूपा महास्वनाः ॥

163.44

अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च
लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥

163.45

फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥

163.46

विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च
प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥

163.47

आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः
चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम् ॥

163.48

नद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥

163.49

वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथंचन
वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥

163.50

यदा च सर्वभूतानां छाया न परिवर्तते
अपराह्णगते सूर्ये लोकानां युगसंक्षये ॥

163.51

तदा हिरण्यकशिपोर् दैत्यस्योपरि वेश्मनः
भाण्डागारायुधागारे निविष्टमभवन्मधु ॥

163.52

असुराणां विनाशाय सुराणां विजयाय च
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥

163.53

एते चान्ये च बहवो घोरोत्पाताः समुत्थिताः
दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥

163.54

मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना
महीधरा नागगणा निपेतुरमितौजसः ॥

163.55

विषज्वालाकुलैर्वक्त्रैर् विमुञ्चन्तो हुताशनम्
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥

163.56

वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
एलामुखः कालियश्च महापद्मश्च वीर्यवान् ॥

163.57

सहस्रशीर्षा नागो वै हेमतालध्वजः प्रभुः
शेषो ऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥

163.58

दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च
तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥

163.59

नागास्तेजोधराश्चापि पातालतलचारिणः
हिरण्यकशिपुर्दैत्यस् तदा संस्पृष्टवान्महीम् ॥

163.60

संदष्टौष्ठपुटः क्रोधाद् वाराह इव पूर्वजः
नदी भागीरथी चैव सरयूः कौशिकी तथा ॥

163.61

यमुना त्वथ कावेरी कृष्णवेणा च निम्नगा
सुवेणा च महाभागा नदी गोदावरी तथा ॥

163.62

चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः
कमलप्रभवश्चैव शोणो मणिनिभोदकः ॥

163.63

नर्मदा शुभतोया च तथा वेत्रवती नदी
गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥

163.64

मही कालमही चैव तमसा पुष्पवाहिनी
जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥

163.65

सुवर्णप्रकटं चैव सुवर्णाकरमण्डितम्
महानदं च लौहित्यं शैलकाननशोभितम् ॥

163.66

पत्तनं कोशकरणम् ऋषिवीरजनाकरम्
मागधाश्च महाग्रामा मुण्डाः शुङ्गास्तथैव च ॥

163.67

सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः
भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥

163.68

कैलासशिखराकारं यत्कृतं विश्वकर्मणा
रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥

163.69

उदयश्च महाशैल उच्छ्रितः शतयोजनम्
सुवर्णवेदिकः श्रीमान् मेघपङ्क्तिनिषेवितः ॥

163.70

भ्राजमानो ऽर्कसदृशैर् जातरूपमयैर्द्रुमैः
शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥

163.71

अयोमुखश्च विख्यातः पर्वतो धातुमण्डितः
तमालवनगन्धश्च पर्वतो मलयः शुभः ॥

163.72

सुराष्ट्राश्च सबाह्लीकाः शूराभीरास्तथैव च
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ॥

163.73

तथैवौण्ड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः
क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥

163.74

अगस्त्यभवनं चैव यदगम्यं कृतं पुरा
सिद्धचारणसंघश्च विप्रकीर्णं मनोहरम् ॥

163.75

विचित्रनानाविहगं सुपुष्पितमहाद्रुमम्
जातरूपमयैः शृङ्गैर् अप्सरोगणनादितम् ॥

163.76

गिरिपुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः
उत्थितः सागरं भित्त्वा विश्रामश्चन्द्रसूर्ययोः
रराज सुमहाशृङ्गैर् गगनं विलिखन्निव ॥

163.77

चन्द्रसूर्यांशुसंकाशैः सागराम्बुसमावृतैः
विद्युत्वान्सर्वतः श्रीमान् आयतः शतयोजनम् ॥

163.78

विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे
ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः ॥

163.79

कुञ्जरः पर्वतः श्रीमान् यत्रागस्त्यगृहं शुभम्
विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी ॥

163.80

तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता
महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥

163.81

चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः
प्राग्ज्यौतिषपुरं चापि जातरूपमयं शुभम् ॥

163.82

यस्मिन्वसति दुष्टात्मा नरको नाम दानवः
मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ॥

163.83

षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः
तरुणादित्यसंकाशो मेरुस्तत्र महागिरिः ॥

163.84

यक्षराक्षसगन्धर्वैर् नित्यं सेवितकंदरः
हेमगर्भो महाशैलस् तथा हेमसखो गिरिः ॥

163.85

कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः
हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥

163.86

कम्पितं मानसं चैव हंसकारण्डवाकुलम्
त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥

163.87

तुषारचयसंछन्नो मन्दरश्चापि पर्वतः
उशीरबिन्दुश्च गिरिश् चन्द्रप्रस्थस्तथाद्रिराट् ॥

163.88

प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः
देवाभ्रपर्वतश्चैव तथा वै रेणुको गिरिः ॥

163.89

क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः
एते चान्ये च गिरयो देशा जनपदास्तथा ॥

163.90

नद्यः ससागराः सर्वाः सो ऽकम्पयत दानवः
कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥

163.91

खेचराश्च सतीपुत्राः पातालतलवासिनः
गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥

163.92

ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः
गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥

163.93

जीमूतघनसंकाशो जीमूतघननिःस्वनः
जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥

163.94

देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत्
समुत्पत्य ततस्तीक्ष्णैर् मृगेन्द्रेण महानखैः
तदोंकारसहायेन विदार्य निहतो युधि ॥

163.95

मही च कालश्च शशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात् ॥

163.96

ततः प्रमुदिता देवा ऋषयश्च तपोधनाः
तुष्टुवुर्नामभिर्दिव्यैर् आदिदेवं सनातनम् ॥

163.97

यत्त्वया विहितं देव नारसिंहमिदं वपुः
एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥

163.98

भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः
भवान्कर्ता विकर्ता च लोकानां प्रभवो ऽव्ययः ॥

163.99

परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च
परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥

163.100

परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्
परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम् ॥

163.101

एवं परस्यापि परं पदं यत् परं परस्यापि परं च देवम्
परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥

163.102

परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम्
परं परस्यापि परं महद्यत् त्वामाहुरग्र्यं पुरुषं पुराणम् ॥

163.103

परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम्
परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥

163.104

एवमुक्त्वा तु भगवान् सर्वलोकपितामहः
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥

163.105

ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥

163.106

नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत्
पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥

163.107

अष्टचक्रेण यानेन भूतयुतेन भास्वता
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc