भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 162

162.1

ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम्
नरसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम् ॥

162.2

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्
दिव्येन चक्षुषा सिंहम् अपश्यद्देवमागतम् ॥

162.3

ते दृष्ट्वा रुक्मशैलाभम् अपूर्वां तनुमाश्रितम्
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥

162.4

महाबाहो महाराज दैत्यानामादिसंभव
न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ॥

162.5

अव्यक्तप्रभवं दिव्यं किमिदं रूपमागतम्
दैत्यान्तकरणं घोरं संशतीव मनो मम ॥

162.6

अस्य देवाः शरीरस्थाः सागराः सरितश्च याः
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥

162.7

चन्द्रमाश्च सनक्षत्रैर् आदित्यैर् वसुभिः सह
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥

162.8

मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥

162.9

ब्रह्मा देवः पशुपतिर् ललाटस्था भ्रमन्ति वै
स्थावराणि च सर्वाणि जङ्गमानि तथैव च ॥

162.10

भवांश्च सहितो ऽस्माभिः सर्वैर्दैत्यगणैर्वृतः
विमानशतसंकीर्णा तथैव भवतः सभा ॥

162.11

सर्वं त्रिभुवनं राजंल् लोकधर्माश्च शाश्वताः
दृश्यन्ते नारसिंहे ऽस्मिंस् तथेदमखिलं जगत् ॥

162.12

प्रजापतिश्चात्र मनुर् महात्मा ग्रहाश्च योगाश्च महीरुहाश्च
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च ॥

162.13

सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे
क्रोधश्च कामश्च तथैव हर्षो धर्मश्च मोहः पितरश्च सर्वे ॥

162.14

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः
उवाच दानवान्सर्वान् गणांश्च स गणाधिपः ॥

162.15

मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥

162.16

ते दानवगणा सर्वे मृगेन्द्रं भीमविक्रमम्
परिक्षिपन्तो मुदितास् त्रासयामासुरोजसा ॥

162.17

सिंहनादं विमुच्याथ नरसिंहो महाबलः
बभञ्ज तां सभां दिव्यां व्यादितास्य इवान्तकः ॥

162.18

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्
चिक्षेपास्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ॥

162.19

सर्वास्त्राणामथ ज्येष्ठं दण्डमन्त्रं सुदारुणम्
कालचक्रं तथाघोरं विष्णुचक्रं तथा परम् ॥

162.20

पैतामहं तथात्युग्रं त्रैलोक्यदहनं महत्
विचित्रामशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥

162.21

रौद्रं तथोग्रं शूलं च कङ्कालं मुसलं तथा
मोहनं शोषणं चैव संतापनविलापनम् ॥

162.22

वायव्यं मथनं चैव कापालमथ कैङ्करम्
तथाप्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ॥

162.23

अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा
कम्पनं शातनं चैव त्वाष्ट्रं चैव सुभैरवम् ॥

162.24

कालमुद्गरमक्षोभ्यं तपनं च महाबलम्
संवर्तनं मोहनं च तथा मायाधरं परम् ॥

162.25

गान्धर्वमस्त्रं दयितम् असिरत्नं च नन्दकम्
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्
अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥

162.26

अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च
नारायणास्त्रमैन्द्रं च सार्पमस्त्रं तथाद्भुतम् ॥

162.27

पैशाचमस्त्रमजितं शोषदं शामनं तथा
महाबलं भावनं च प्रस्थापनविकम्पने ॥

162.28

एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥

162.29

अस्त्रैः प्रज्वलितैः सिंहम् आवृणोदसुरोत्तमः
विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ॥

162.30

स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः
क्षणेन प्लावयामास मैनाकमिव सागरः ॥

162.31

प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा
वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ॥

162.32

मुद्गरैर्भिन्दिपालैश्च शिलोलूखलपर्वतैः
शतघ्नीभिश्च दीप्ताभिर् दण्डैरपि सुदारुणैः ॥

162.33

ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनिवज्रवेगाः
समन्ततो ऽभ्युद्यतबाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ॥

162.34

सुवर्णमालाकुलभूषिताङ्गाः पीतांशुकाभोगविभाविताङ्गाः
मुक्तावलीदामसनाथकक्षा हंसा इवाभान्ति विशालपक्षाः ॥

162.35

तेषां तु वायुप्रतिमौजसां वै केयूरमौलीवलयोत्कटानाम्
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥

162.36*

क्षिपद्भिर् उग्रैर् ज्वलितैर् महाबलैर् महास्त्रपूगैः सुसमावृतो बभौ ।
गिरिर्यथा संततवर्षिभिर् घनैः कृतान्धकारान्तरकंदरो द्रुमैः ॥

162.37*

तैर्हन्यमानो ऽपि महास्त्रजालैर् महाबलैर् दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान्प्रतापस्थितः प्रकृत्या हिमवानिवाचलः ॥

162.38*

संत्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावकतुल्यतेजसा ।
भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागरवारिसंभवाः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc