मत्स्य पुराण · अध्याय 161
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम्
नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः
दैत्यानामादिपुरुषश् चकार स महत्तपः ॥
दश वर्षसहस्राणि दश वर्षशतानि च
जलवासी समभवत् स्नानमौनधृतव्रतः ॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
ब्रह्मा प्रीतो ऽभवत्तस्य तपसा नियमेन च ॥
ततः स्वयंभूर्भगवान् स्वयमागम्य तत्र ह
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
आदित्यैर्वसुभिः साध्यैर् मरुद्भिर्दैवतैस्तथा
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥
दिग्भिश् चैव विदिग्भिश् च नदीभिः सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा
राजर्षिभिः पुण्यकृद्भिर् गन्धर्वाप्सरसां गणैः ॥
चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥
प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥
ऋषयो वा न मां शापैः शपेयुः प्रपितामह
यदि मे भगवान्प्रीतो वर एष वृतो मया ॥
न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च
न शुष्केण न चार्द्रेण न दिवा न निशाथ वा ॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः
सर्वान्कामान्सदा वत्स प्राप्स्यसि त्वं न संशयः ॥
एवमुक्त्वा स भगवाञ् जगामाकाश एव हि
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥
ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥
वरप्रदानाद्भगवन् वधिष्यति स नो ऽसुरः
तत्प्रसीदाशु भगवन् वधो ऽप्यस्य विचिन्त्यताम् ॥
भगवन्सर्वभूतानाम् आदिकर्ता स्वयं प्रभुः
स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तप्रकृतिर् बुधः ॥
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्
तपसो ऽन्ते ऽस्य भगवान् वधं विष्णुः करिष्यति ॥
तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजन्मनः
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः ॥
लब्धमात्रे वरे चाथ सर्वाः सो ऽबाधत प्रजाः
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥
आश्रमेषु महाभागान् स मुनीञ्छंसितव्रतान्
सत्यधर्मपरान्दान्तान् धर्षयामास दानवः ॥
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥
यदा वरमदोत्सिक्तश् चोदितः कालधर्मतः
यज्ञियानकरोद्दैत्यान् अयज्ञियाश्च देवताः ॥
तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा
सेन्द्रा देवगणा यक्षाः सिद्धद्विजमहर्षयः ॥
शरण्यं शरणं विष्णुम् उपतस्थुर्महाबलम्
देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥
नारायण महाभाग देवास्त्वां शरणं गताः
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ॥
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥
भयं त्यजध्वममरा अभयं वो ददाम्यहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम्
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥
एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान्
वधं संकल्पयामास हिरण्यकशिपोः प्रभुः ॥
साहाय्यं च महाबाहुर् ओंकारं गृह्य सत्वरम्
अथौंकारसहायस्तु भगवान्विष्णुरव्ययः ॥
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः
तेजसा भास्कराकारः शशी कान्त्येव चापरः ॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥
ततो ऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥
विस्तीर्णां योजनशतं शतमध्यर्धमायताम्
वैहायसीं कामगमां पञ्चयोजनविस्तृताम् ॥
जराशोकक्लमापेतां निष्प्रकम्पां शिवां सुखाम्
वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ॥
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥
नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि
अवतानैस्तथा गुल्मैर् मञ्जरीशतधारिभिः ॥
सिताभ्रघनसंकाशा प्लवन्तीव व्यदृश्यत
रश्मिवती भास्वरा च दिव्यगन्धमनोरमा ॥
सुसुखा न च दुःखा सा न शीता न च घर्मदा
न क्षुत्पिपासे ग्लानिं वा प्राप्य तां प्राप्नुवन्ति ते ॥
नानारूपैरुपकृतां विचित्रैरतिभास्वरैः
स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ॥
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः
रसयुक्तं प्रभूतं च भक्ष्यभोज्यमनन्तकम् ॥
पुण्यगन्धस्रजश्चात्र नित्यपुष्पफलद्रुमाः
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति च ॥
पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरधारिणः
लतावितानसंछन्ना नदीषु च सरःसु च ॥
वृक्षान्बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥
नातिशीतानि नोष्णानि तत्र तत्र सरांसि च
अपश्यत्सर्वतीर्थानि सभायां तस्य स प्रभुः ॥
नलिनैः पुण्डरीकैश्च शतपत्त्रैः सुगन्धिभिः
रक्तैः कुवलयैर्नीलैः कुमुदैः संवृतानि च ॥
सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियैः
कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ॥
विमलैः स्फाटिकाभैश्च पाण्डुरच्छदनैर्द्विजैः
बहुहंसोपगीतानि सारसाभिरुतानि च ॥
गन्धवत्यः शुभास्तत्र पुष्टमञ्जरिधारिणीः
दृष्टवान्पर्वताग्रेषु नानापुष्पधरा लताः ॥
केतक्यशोकसरलाः पुंनागतिलकार्जुनाः
चूता नीपाः प्रस्थपुष्पाः कदम्बा बकुला धवाः ॥
प्रियङ्गुपाटलावृक्षाः शाल्मल्यः सहरिद्रकाः
सालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः ॥
तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः
विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ॥
स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः
अञ्जनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ॥
वरुणो वत्सनाभश्च पनसाः सह चन्दनैः
नीपाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥
पारिजाताश्च लोध्राश्च मल्लिका भद्रदारवः
आमलक्यस्तथा जम्बू लकुचाः शैलवालुकाः ॥
खर्जूर्यो नारिकेलाश्च हरीतकविभीतकाः
कालीयका द्रुकालाश्च हिङ्गवः पारियात्रकाः ॥
मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा
रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह ॥
कदम्बाश्चैव भव्याश्च दाडिमा बीजपूरकाः
सप्तपर्णाश्च बिल्वाश्च मधुपैरावृतास्तथा ॥
अशोकाश्च तमालाश्च नानागुल्मलतावृताः
मधूकाः सप्तपर्णाश्च बहवः क्षीरका द्रुमाः ॥
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः
एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥
नानापुष्पफलोपेता व्यराजन्त समन्ततः
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ॥
पुष्पिताः पुष्पिताग्रैश्च संपतन्ति महाद्रुमाः
रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः ॥
परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः
तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥
स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्बरः
अनर्घ्यमणिवज्रार्चिः शिखाज्वलितकुण्डलः ॥
आसीनश्चासने चित्रे दशनल्वप्रमाणतः
दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते ॥
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः ॥
उपचेरुर्महादैत्यं हिरण्यकशिपुं तदा
दिव्यतानेन गीतानि जगुर् गन्धर्वसत्तमाः ॥
विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता
दिव्याथ सौरभेयी च समीची पुञ्जिकस्थली ॥
मिश्रकेशी च रम्भा च चित्रलेखा शुचिस्मिता
चारुकेशी घृताची च मेनका चोर्वशी तथा ॥
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः
उपतिष्ठन्ति राजानं हिरण्यकशिपुं प्रभुम् ॥
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम्
उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा ॥
तमप्रतिमकर्माणं शतशो ऽथ सहस्रशः
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ॥
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः
सुरहन्ता सुनामा च प्रमतिः सुमतिर्वरः ॥
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपः सुरूपश्च स्वबलश्च महाबलः ॥
दशग्रीवश्च वाली च मेघवासा महासुरः
घटास्यो ऽकम्पनश्चैव प्रजनश्चेन्द्रतापनः ॥
दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः
स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः ॥
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ॥
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः
विमानैर्विविधाकारैर् भ्राजमानैरिवाग्निभिः ॥
महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः
भूषिताङ्गा दितेः पुत्रास् तमुपासन्त सर्वशः ॥
तस्यां सभायां दिव्यायाम् असुराः पर्वतोपमाः
हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः ॥
न श्रुतं नैव दृष्टं हि हिरण्यकशिपोर्यथा
ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः ॥
कनकरजतचित्रवेदिकायां परिहृतरत्नविचित्रवीथिकायाम्
स ददर्श मृगाधिपः सभायां सुरचितरत्नगवाक्षशोभितायाम् ॥
कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श
दिवसकरमहाप्रभाज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0