भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 160

160.1

श्रुत्वैतत्तारकः सर्वम् उद्घुष्टं देवबन्दिभिः
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥

160.2

स्मृत्वा घर्मार्द्रसर्वाङ्गः पदातिरपदानुगः
मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ॥

160.3

कालनेमिमुखा दैत्याः संरम्भाद्भ्रान्तचेतसः
स्वे स्वे स्वनीकेषु तदा त्वराविस्मितचेतसः
योधा धावत गृहीत योजयध्वं वरूथिनीम् ॥

160.4

कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः
किं बाल योद्धुकामो ऽसि क्रीड कन्दुकलीलया ॥

160.5

त्वया न दानवा दृष्टा यत्सङ्गरविभीषकाः
बालत्वादथ ते बुद्धिर् एवं स्वल्पार्थदर्शिनी ॥

160.6

कुमारो ऽपि तमग्रस्थं बभाषे हर्षयन्सुरान्
शृणु तारक शास्त्रार्थस् तव चैव निरूप्यते ॥

160.7

शास्त्रैरर्था न दृश्यन्ते समरे निर्भयैर्भटैः
शिशुत्वं मावमंस्था मे शिशुः कालभुजंगमः ॥

160.8

दुष्प्रेक्ष्यो भास्करो बालस् तथाहं दुर्जयः शिशुः
अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य दृश्यते ॥

160.9

कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम्
कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ॥

160.10

ततश्चिक्षेप दैत्येन्द्रो भिन्दिपालमयोमयम्
करेण तच्च जग्राह कार्तिकेयो ऽमरारिहा ॥

160.11

गदां मुमोच दैत्याय षण्मुखः परमस्वनाम्
तया हतस्ततो दैत्यश् चकम्पे ऽचलराडिव ॥

160.12

मेने च दुर्जयं दैत्यस् तदा षड्वदनं रणे
चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ॥

160.13

कुपितं तु तमालोक्य कालनेमिपुरोगमाः
सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ॥

160.14

स तैः प्रहारैरस्पृष्टो वृथाक्लेशैर्महाद्युतिः
रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ॥

160.15

कुमारं सामरं जघ्नुर् बलिनो देवकण्टकाः
कुमारस्य व्यथा नाभूद् दैत्यास्त्रनिहतस्य तु ॥

160.16

प्राणान्तकरणो जातो देवानां दानवाहवः
देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत् ॥

160.17

ततो ऽस्त्रैर्वारयामास दानवानामनीकिनीम्
ततस्तैर् निष्प्रतीकरैस् ताडिताः सुरकण्टकाः ॥

160.18

कालनेमिमुखाः सर्वे रणादासन्पराङ्मुखाः
विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥

160.19

ततः क्रुद्धो महादैत्यस् तारको ऽसुरनायकः
जग्राह च गदां दिव्यां हेमजालपरिष्कृताम् ॥

160.20

जघ्ने कुमारं गदया निष्टप्तकनकाङ्गदः
शरैर्मयूरपत्रैश्च चकार विमुखान्सुरान् ॥

160.21

तथा परैर्महाभल्लैर् मयूरं गुहवाहनम्
बिभेद तारकः क्रुद्धः स सैन्ये ऽसुरनायकः ॥

160.22

दृष्ट्वा पराङ्मुखान्देवान् मुक्तरक्तं स्ववाहनम्
जग्राह शक्तिं विमलां रणे कनकभूषणाम् ॥

160.23

बाहुना हेमकेयूर रुचिरेण षडाननः
ततो जवान्महासेनस् तारकं दानवाधिपम् ॥

160.24

तिष्ठ तिष्ठ सुदुर्बुद्धे जीवलोकं विलोकय
हतो ऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ॥

160.25

इत्युक्त्वा च ततः शक्तिं मुमोच दितिजं प्रति
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा
बिभेद दैत्यहृदयं वज्रशैलेन्द्रकर्कशम् ॥

160.26

गतासुः स पपातोर्व्यां प्रलये भूधरो यथा
विकीर्णमुकुटोष्णीषो विस्रस्ताखिलभूषणः ॥

160.27

तस्मिन्विनिहते दैत्ये त्रिदशानां महोत्सवे
नाभूत् कश्चित् तदा दुःखी नरकेष्वपि पापकृत् ॥

160.28

स्तुवन्तः षण्मुखं देवाः क्रीडन्तश्चाङ्गनायुताः
जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः ॥

160.29

ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति
तुष्टाः सम्प्राप्तसर्वेच्छाः सह सिद्धैस्तपोधनैः ॥

160.30

यः पठेत्स्कन्दसम्बद्धां कथां मर्त्यो महामतिः
शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ॥

160.31

बह्वायुः सुभगः श्रीमान् कान्तिमाञ्छुभदर्शनः
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः ॥

160.32

संध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत्
स मुक्तः किल्बिषैः सर्वैर् महाधनपतिर्भवेत् ॥

160.33

बालानां व्याधिजुष्टानां राजद्वारं च सेवताम्
इदं तत्परमं दिव्यं सर्वदा सर्वकामदम्
तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc