मत्स्य पुराण · अध्याय 15
विभ्राजा नाम चान्ये तु दिवि सन्ति सुवर्चसः
लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः ॥
यत्र बर्हिणयुक्तानि विमानानि सहस्रशः
संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः ॥
यत्राभ्युदयशालासु मोदन्ते श्राद्धदायिनः
यांश् च देवासुरगणा गन्धर्वाप्सरसां गणाः ॥
यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः
पुलस्त्यपुत्राः शतशस् तपोयोगसमन्विताः ॥
महात्मानो महाभागा भक्तानामभयप्रदाः
एतेषां पीवरी कन्या मानसी दिवि विश्रुता ॥
योगिनी योगमाता च तपश्चक्रे सुदारुणम्
प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः ॥
योगवन्तं सुरूपं च भर्तारं विजितेन्द्रियम्
देहि देव प्रसन्नस्त्वं पतिं मे वदतां वरम् ॥
उवाच देवो भविता व्यासपुत्रो यदा शुकः
भविता तस्य भार्या त्वं योगाचार्यस्य सुव्रते ॥
भविष्यति च ते कन्या कृत्वी नाम च योगिनी
पाञ्चालाधिपतेर्देया मानुषस्य त्वया तदा ॥
जननी ब्रह्मदत्तस्य योगसिद्धा च गौः स्मृता
कृष्णो गौरः प्रभुः शम्भुर् भविष्यन्ति च ते सुताः ॥
महात्मानो महाभागा गमिष्यन्ति परं पदम्
तानुत्पाद्य पुनर् योगात् सवरा मोक्षमेष्यसि ॥
सुमूर्तिमन्तः पितरो वसिष्ठस्य सुताः स्मृताः
नाम्ना तु मानसाः सर्वे सर्वे ते धर्ममूर्तयः ॥
ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम्
विराजमानाः क्रीडन्ति यत्र ते श्राद्धदायिनः ॥
सर्वकामसमृद्धेषु विमानेष्वपि पादजाः
किं पुनः श्राद्धदा विप्रा भक्तिमन्तः क्रियान्विताः ॥
गौर् नाम कन्या येषां तु मानसी दिवि राजते
शुक्रस्य दयिता पत्नी साध्यानां कीर्तिवर्धिनी ॥
मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले
पितरो यत्र तिष्ठन्ति हविष्मन्तो ऽङ्गिरःसुताः ॥
तीर्थश्राद्धप्रदा यान्ति ये च क्षत्रियसत्तमाः
राज्ञां तु पितरस्ते वै स्वर्गमोक्षफलप्रदाः ॥
एतेषां मानसी कन्या यशोदा लोकविश्रुता
पत्नी ह्य् अंशुमतः श्रेष्ठा स्नुषा पञ्चजनस्य च ॥
जनन्यथ दिलीपस्य भगीरथपितामही
लोकाः कामदुघा नाम कामभोगफलप्रदाः ॥
सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः
आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः ॥
पुलहाङ्गजदायादा वैश्यास्तान्भावयन्ति च
यत्र श्राद्धकृतः सर्वे पश्यन्ति युगपद्गताः ॥
मातृभ्रातृपितृस्वसृ सखिसम्बन्धिबान्धवान्
अपि जन्मायुतैर्दृष्टान् अनुभूतान्सहस्रशः ॥
एतेषां मानसी कन्या विरजा नाम विश्रुता
या पत्नी नहुषस्यासीद् ययातेर्जननी तथा ॥
एकाष्टकाभवत् पश्चाद् ब्रह्मलोके गता सती
त्रय एते गणाः प्रोक्ताश् चतुर्थं तु वदाम्यतः ॥
लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः
येषां तु मानसी कन्या नर्मदा नाम विश्रुता ॥
सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः
धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः ॥
उत्पन्नाः स्वधया ते तु ब्रह्मत्वं प्राप्य योगिनः
कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः ॥
नर्मदा नाम तेषां तु कन्या तोयवहा सरित्
भूतानि या पावयति दक्षिणापथगामिनी ॥
तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः
ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावे ऽपि सर्वदा ॥
तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसंततिम्
पितॄणामादिसर्गे तु श्राद्धमेव विनिर्मितम् ॥
सर्वेषां राजतं पात्रम् अथवा रजतान्वितम्
दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा ॥
अग्नीषोमयमानां तु कार्यमाप्यायनं बुधः
अग्न्यभावे ऽपि विप्रस्य प्राणाव् अपि जले ऽथवा ॥
अजाकर्णे ऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके
पितॄणाम् अम्बरं स्थानं दक्षिणा दिक्प्रशस्यते ॥
प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च
दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः ॥
खड्गलोहामिषमधु कुशश्यामाकशालयः
यवनीवारमुद्गेक्षु शुक्लपुष्पघृतानि च ॥
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा
द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु ॥
मसूरशणनिष्पाव राजमाषकुसुम्भिकाः
पद्मबिल्वार्कधत्तूर पारिभद्राटरूषकाः ॥
न देयाः पितृकार्येषु पयश्चाजाविकं तथा
कोद्रवोदारचणकाः कपित्थं मधुकातसी ॥
एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता
पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम् ॥
यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम्
देवकार्यादपि पुनः पितृकार्यं विशिष्यते ॥
देवतानां च पितरः पूर्वमाप्यायनं स्मृतम्
शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः ॥
शान्तात्मानः शौचपराः सततं प्रियवादिनः
भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः ॥
हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः
एतद्वः सर्वमाख्यातं पितृवंशानुकीर्तनम्
पुण्यं पवित्रम् आयुष्यं कीर्तनीयं सदा नृभिः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0