भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 154

154.1

प्रादुरासीत्प्रतीहारः शुभ्रनीलाम्बुजाम्बरः
स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना ॥

154.2

उवाचानाविलं वाक्यम् अल्पाक्षरपरिस्फुटम्
दैत्येन्द्रमर्कवृन्दानां बिभ्रतं भास्वरं वपुः ॥

154.3

कालनेमिः सुरान्बद्धांश् चादाय द्वारि तिष्ठति
स विज्ञापयति स्थेयं क्व बन्दिभिरिति प्रभो ॥

154.4

तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्
यथेष्टं स्थीयतामेभिर् गृहं मे भुवनत्रयम् ॥

154.5

केवलं पाशबन्धेन विमुक्तैरविलम्बितम्
एवं कृते ततो देवा दूयमानेन चेतसा ॥

154.6

जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्
निवेदितास्ते शक्राद्याः शिरोभिर्धरणिं गताः
तुष्टुवुः स्पष्टवर्णार्थैर् वचोभिः कमलासनम् ॥

154.7

त्वमोंकारो ऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम्
सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते ॥

154.8

व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात् साभिधानादचिन्त्यः
द्यावापृथ्व्योर् ऊर्ध्वखण्डावराम्यां ह्य् अण्डादस्मात्त्वं विभागं करोषि ॥

154.9

व्यक्तं मेरौ यज्जनायुस्तवाभूद् एवं विद्मस्त्वत्प्रणीतश्चकास्ति
व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ ॥

154.10

व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः ॥

154.11

वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तःसंनिविष्टं पुराणम्
त्वामात्मानं लब्धयोगा गृणन्ति सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥

154.12

तासां हेतुर्याष्टमी चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम्
दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥

154.13

सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनां ते ऽभ्युपेयुः
त्वत्संकल्पेनान्तमायाप्तिगूढः कालो मेयो ध्वस्तसंख्याविकल्पः ॥

154.14

भावाभावव्यक्तिसंहारहेतुस् त्वं सो ऽनन्तस्तस्य कर्तासि चात्मन्
ये ऽन्ये सूक्ष्माः सन्ति तेभ्यो ऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम् ॥

154.15

तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम्
भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य
इत्थं देवो भक्तिभाजां शरण्यस् त्राता गोप्ता नो भवानन्तमूर्तिः ॥

154.16

विरेमुरमराः स्तुत्वा ब्रह्माणमविकारिणम्
तस्थुर्मनोभिर् इष्टार्थ सम्प्राप्तिप्रार्थनास्ततः ॥

154.17

एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः
अमरान्वरदेनाह वामहस्तेन निर्दिशन् ॥

154.18

नारी याभर्तृकाकस्मात् तनुस्ते त्यक्तभूषणा
न राजते तथा शक्र म्लानवक्त्रशिरोरुहा ॥

154.19

हुताशनविमुक्तो ऽपि न धूमेन विराजसे
भस्मनेव प्रतिच्छन्नो दग्धदावश्चिरोषितः ॥

154.20

यमामयमये नैव शरीरे त्वं विराजसे
दण्डस्यालम्बनेनेव ह्य् अकृच्छ्रस्तु पदे पदे ॥

154.21

रजनीचरनाथो ऽपि किं भीत इव भाषसे
राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा ॥

154.22

तनुस्ते वरुणोच्छुष्का परीतस्येव वह्निना
विमुक्तरुधिरं पाशं फणिभिः प्रविलोकयन् ॥

154.23

वायो भवान् विचेतस्कस् त्वं स्निग्धैरिव निर्जितः
किं त्वं बिभेषि धनद संन्यस्यैव कुबेरताम् ॥

154.24

रुद्रास्त्रिशूलिनः सन्तो वदध्वं बहुशूलताम्
भवन्तः केन तत्क्षिप्तं तेजस्तु भवतामपि ॥

154.25

अकिंचित्करतां यातः करस्ते न विभासते
अलं नीलोत्पलाभेन चक्रेण मधुसूदन ॥

154.26

किं त्वयानुदरालीन भुवनप्रविलोकनम्
क्रियते स्तिमिताक्षेण भवता विश्वतोमुख ॥

154.27

एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्ममूर्तिना
वाचां प्रधानभूतत्वान् मारुतं तमचोदयन् ॥

154.28

अथ विष्णुमुखैर्देवैः श्वसनः प्रतिबोधितः
चतुर्मुखं तदा प्राह चराचरगुरुं विभुम् ॥

154.29*

न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभवः ।
पुनरर्थिवचो ऽभिविस्तृतश्रवणोपमकौतुकभावकृतः ॥

154.30

त्वमनन्त करोषि जगद्भवतां सचराचरगर्भविभिन्नगुणाम्
अमरासुरमेतदशेषमपि त्वयि तुल्यमहो जनको ऽसि यतः ॥

154.31

पितुरस्ति तथापि मनोविकृतिः सगुणो विगुणो बलवानबलः
भवतो वरलाभनिवृत्तभयः कुलिशाङ्गसुतो दितिजो ऽतिबलः ॥

154.32

सचराचरनिर्मथने किमिति कितवस्तु कृतो विहितो भवता
किल देव त्वया स्थितये जगतां महदद्भुतचित्रविचिगुणाः ॥

154.33

अपि तुष्टिकृतः श्रुतकामफला विहिता द्विजनायक देवगणाः
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम् ॥

154.34

अपहृत्य विमानगणं स कृतो दितिजेन महामरुभूमिसमः
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया ॥

154.35

सममिङ्गितभावविधिः स गिरिर् गगनेन सदोच्छ्रयतां हि गतः
अधिवासविहारविधावुचितो दितिजने पविक्षतशृङ्गतटः ॥

154.36

परिलुण्ठितरत्नगुहानिवहो बहुदैत्यसभाश्रयतां गमितः
सुरराज स तस्य भयेन गतं व्यदधादशरीर इतो ऽपि वृथा ॥

154.37

उपयोग्यतया विवृतं सुचिरं विमलद्युतिपूरितदिग्वदनम्
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहम् अनुत्थमिदम् ॥

154.38

दितिजस्य शरीरमवाप्य गतं शतधा मतिभेदमिवाल्पमनाः
आसारधूलिध्वस्ताङ्गा द्वारस्थाः स्मः कदर्थिनः
लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः ॥

154.39

सभायाममरा देव निकृष्टे ऽप्युपवेशिताः
वेत्रहस्तैर् अजल्पन्तस् ततो ऽपहसितास्तु तैः ॥

154.40

महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः
चाटुयुक्तमथो कर्म ह्य् अमरा बहु भाषत ॥

154.41

समयं दैत्यसिंहस्य सशक्रस्य नु संस्थिताः
वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु ॥

154.42

ऋतवो मूर्तिमन्तस्तम् उपासन्ते ह्यहर्निशम्
कृतापराधसंत्रासं न त्यजन्ति कदाचन ॥

154.43

तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिंनरैः
सुरागम् उपधा नित्यं गीयते तस्य वेश्मसु ॥

154.44

हन्ताकृतोपकरणैर् मित्राणि गुरुलाघवैः
शरणागतसंत्यागी त्यक्तसत्यपरिश्रयः ॥

154.45

इति निःशेषमथवा निःशेषं वै न शक्यते
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम् ॥

154.46

इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम्
सुरानुवाच भगवांस् ततः स्मितमुखाम्बुजः ॥

154.47

अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः
यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान् ॥

154.48

मया स वरदानेन छन्दयित्वा निवारितः
तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकात् ॥

154.49

स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात्
स सप्तदिवसो बालः शंकराद्यो भविष्यति ॥

154.50

तारकस्य निहन्ता स भास्कराभो भविष्यति
सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः ॥

154.51

यच्चाहमुक्तवान्यस्या ह्य् उत्तानकरता सदा
उत्तानो वरदः पाणिर् एष देव्याः सदैव तु ॥

154.52

हिमाचलस्य दुहिता सा तु देवी भविष्यति
तस्याः सकाशाद्यः शर्वस् त्व् अरण्यां पावको यथा ॥

154.53

जनयिष्यति तं प्राप्य तारको ऽभिभविष्यति
मयाप्युपायः स कृतो यथैवं हि भविष्यति ॥

154.54

शेषश्चाप्यस्य विभवो विनश्येत्तदनन्तरम्
स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा ॥

154.55

इत्युक्तास्त्रिदशास्तेन साक्षात्कमलजन्मना
जग्मुस्तं प्रणिपत्येशं यथायोगं दिवौकसः ॥

154.56

ततो गतेषु देवेषु ब्रह्मा लोकपितामहः
निशां सस्मार भगवान् स्वतनोः पूर्वसंभवाम् ॥

154.57

ततो भगवती रात्रिर् उपतस्थे पितामहम्
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥

154.58

विभावरि महत्कायं विबुधानामुपस्थितम्
तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयम् ॥

154.59

तारको नाम दैत्येन्द्रः सुरकेतुरनिर्जितः
तस्याभावाय भगवाञ् जनयिष्यति चेश्वरः ॥

154.60

सुतं स भविता तस्य तारकस्यान्तकारकः
शंकरस्याभवत्पत्नी सती दक्षसुता तु या ॥

154.61

सा मृता कुपिता देवी कस्मिंश्चित्कारणान्तरे
भविता हिमशैलस्य दुहिता लोकभाविनी ॥

154.62

विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयम्
तपस्यन्हिमशैलस्य कन्दरे सिद्धसेविते ॥

154.63

प्रतीक्षमाणस्तज्जन्म कंचित्कालं निवत्स्यति
तयोः सुतप्ततपसोर् भविता यो महाबलः ॥

154.64

स भविष्यति दैत्यस्य तारकस्य विनाशकः
जातमात्रा तु सा देवी स्वल्पसंज्ञा च भामिनी ॥

154.65

विरहोत्कण्ठिता गाढं हरसंगमलालसा
तयोः सुतप्ततपसोः संयोगः स्याच्छुभानने ॥

154.66

ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्
ततो ऽपि संशयो भूयस् तारकं प्रति दृश्यते ॥

154.67

तयोः संयुक्तयोस्तस्मात् सुरतासक्तिकारणे
विघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा शृणु ॥

154.68

गर्भस्थाने च तन्मातुः स्वेन रूपेण रञ्जय
ततो विहाय शर्वस्तां विश्रान्तो नर्मपूर्वकम् ॥

154.69

भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती
प्रयास्यति तपश्चर्तुं तत्तस्मात्तपसे पुनः ॥

154.70

जनयिष्यति यं शर्वा दयितद्युतिमण्डितम्
स भविष्यति हन्ता वै सुरारीणामसंशयम् ॥

154.71

त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः
यावच्च न सती देह संक्रान्तगुणसंचया ॥

154.72

तत्संगमेन तावत्त्वं दैत्यान्हन्तुं न शक्ष्यसे
एवं कृते तपस्तप्त्वा सृष्टिसंहारकारिणी ॥

154.73

समाप्तनियमा देवी यदा चोमा भविष्यति
तदा स्वमेव तद्रूपं शैलजा प्रतिपत्स्यते ॥

154.74

तनुस्तवापि सहजा सैकानंशा भविष्यति
रूपांशेन तु संयुक्ता त्वमुमायां भविष्यसि ॥

154.75

एकानंशेति लोकस्त्वां वरदे पूजयिष्यति
भेदैर्बहुविधाकारैः सर्वगा कामसाधिनी ॥

154.76

ओंकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः
आक्रान्तिरूर्जिताकारा राजभिश्च महाभुजैः ॥

154.77

त्वं भूरिति विशां माता शूद्रैः शैवीति पूजिता
क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामिति ॥

154.78

त्वं महोपायसंदोहा नीतिर्नयविसर्पिणाम्
परिच्छित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया ॥

154.79

त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम्
त्वं च कीर्तिमतां कीर्तिस् त्वं मूर्तिः सर्वदेहिनाम् ॥

154.80

रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम्
त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्मणाम् ॥

154.81

त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम्
जलधीनां महावेला त्वं च लीला विलासिनाम् ॥

154.82

संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी
त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी ॥

154.83

प्रियकण्ठग्रहानन्द दायिनी त्वं विभावरी
इत्यनेकविधैर्देवि रूपैर्लोके त्वमर्चिता ॥

154.84

ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति वापि ये
ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः ॥

154.85

इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलिः
जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम् ॥

154.86

तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्
ददर्श मेनामापाण्डु च्छविवक्त्रसरोरुहाम् ॥

154.87

किंचिच् छ्याममुखोदग्र स्तनभारावनामिताम्
महौषधिगणाबद्ध मन्त्रराजनिषेविताम् ॥

154.88

उद्वहत्कनकोन्नद्ध जीवरक्षामहोरगाम्
मणिदीपगणज्योतिर् महालोकप्रकाशिते ॥

154.89

प्रकीर्णबहुसिद्धार्थे मनोजपरिवारके
शुचिन्यंशुकसंछन्न भूशय्यास्तरणोज्ज्वले ॥

154.90

धूपामोदमनोरम्ये सर्जगन्धोपयोगिके
ततः क्रमेण दिवसे गते दूरं विभावरी ॥

154.91

व्यजृम्भत सुखोदर्के ततो मेना महागृहे
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारिके ॥

154.92

स्फुटालोके शशभृति भ्रान्तिरात्रिविहंगमे
रजनीचरभूतानां संघैरावृतचत्वरे ॥

154.93

गाढकण्ठग्रहालग्न सुभगेष्टजने ततः
किंचिदाकुलतां प्राप्ते मेनानेत्राम्बुजद्वये ॥

154.94

आविवेश मुखे रात्रिः सुचिरस्फुटसंगमा
जन्मदाया जगन्मातुः क्रमेण जठरान्तरे ॥

154.95

आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै
अरञ्जयच्छविं देव्या गुहारण्ये विभावरी ॥

154.96

ततो जगत्पतिप्राण हेतुर्हिमगिरिप्रिया
ब्राह्मे मुहूर्ते सुभगे व्यसूयत गुहारणिम् ॥

154.97

तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः ॥

154.98

नारकाणामपि तदा सुखं स्वर्गसमं महत्
अभवत्क्रूरसत्त्वानां चेतः शान्तं च देहिनाम् ॥

154.99

ज्योतिषामपि तेजस्त्वम् अभवत्सुरतोन्नता
वनाश्रिताश्चौषधयः स्वादुवन्ति फलानि च ॥

154.100

गन्धवन्ति च माल्यानि विमलं च नभो ऽभवत्
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहरा ॥

154.101

तेन चोद्भूतफलित परिपाकगुणोज्ज्वलाः
अभवत्पृथिवी देवी शालिमालाकुलापि च ॥

154.102

तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम् ॥

154.103

विस्मृतानि च शस्त्राणि प्रादुर्भावं प्रपेदिरे
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमो ऽभवत् ॥

154.104

अन्तरिक्षे सुराश्चासन् विमानेषु सहस्रशः
समहेन्द्रहरिब्रह्म वायुवह्निपुरोगमाः ॥

154.105

पुष्पवृष्टिं प्रमुमुचुस् तस्मिंस्तु हिमभूधरे
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥

154.106

मेरुप्रभृतयश्चापि मूर्तिमन्तो महाबलाः
तस्मिन्महोत्सवे प्राप्ते दिव्यप्रभृतपाणयः ॥

154.107

सरितः सागराश्चैव समाजग्मुश्च सर्वशः
हिमशैलो ऽभवल्लोके तथा सर्वैश्चराचरैः ॥

154.108

सेव्यश्चाप्यभिगम्यश्च स श्रेयांश्चाचलोत्तमः
अनुभूयोत्सवं देवा जग्मुः स्वानालयान्मुदा ॥

154.109

देवगन्धर्वनागेन्द्र शैलशीलावनीगुणैः
हिमशैलसुता देवी स्वयंपूर्विकया ततः ॥

154.110

क्रमेण वृद्धिमानीता लक्ष्मीवानलसैर्बुधैः
क्रमेण रूपसौभाग्य प्रबोधैर्भुवनत्रयम् ॥

154.111

अजयद्भूषयच्चापि निःसाधारैर्नगात्मजा
एतस्मिन्नन्तरे शक्रो नारदं देवसंमतम् ॥

154.112

देवर्षिमथ सस्मार कार्यसाधनसत्वरम्
स्मृतिं शक्रस्य विज्ञाय जातां तु भगवांस्तदा ॥

154.113

आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम्
तं स दृष्ट्वा सहस्राक्षः समुत्थाय महासनात् ॥

154.114

यथार्हेण तु पाद्येन पूजयामास वासवः
शक्रप्रणीतां तां पूजां प्रतिगृह्य यथाविधि ॥

154.115

नारदः कुशलं देवम् अपृच्छत्पाकशासनम्
पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः ॥

154.116

कुशलस्याङ्कुरे तावत् सम्भूते भुवनत्रये
तत्फलोद्भवसंपत्तौ त्वं भवातन्द्रितो मुने ॥

154.117

वेत्सि चैतत्समस्तं त्वं तथापि परिचोदकः
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने ॥

154.118

तद्यथा शैलजा देवी योगं यायात्पिनाकिना
शीघ्रं तदुद्यमः सर्वैर् अस्मत्पक्षैर्विधीयताम् ॥

154.119

अवगम्यार्थमखिलं तत आमन्त्र्य नारदः
शक्रं जगाम भगवान् हिमशैलनिवेशनम् ॥

154.120

तत्र द्वारे स विप्रेन्द्रश् चित्रवेत्रलताकुले
वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः ॥

154.121

सह प्रविश्य भवनं भुवो भूषणतां गतम्
निवेदिते स्वयं हैमे हिमशैले न विस्तृते ॥

154.122

महासने मुनिवरो निषसादातुलद्युतिः
यथार्हं चार्घ्यपाद्यं च शैलस्तस्मै न्यवेदयत् ॥

154.123

मुनिस्तु प्रतिजग्राह तमर्घं विधिवत्तदा
गृहीतार्घं मुनिवरम् अपृच्छच्छ्लक्ष्णया गिरा ॥

154.124

कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः
मुनिरप्यद्रिराजानम् अपृच्छत्कुशलं तदा ॥

154.125

अहो ऽवतारिताः सर्वे संनिवेशे महागिरे
पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल ॥

154.126

गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते
प्रसन्नता च तोयस्य मनसो ऽप्यधिका च ते ॥

154.127

न लक्षयामः शैलेन्द्र शिष्यते कन्दरोदरात्
न च लक्ष्मीस्तथा स्वर्गे कुत्राधिकतया स्थिता ॥

154.128

नानातपोभिर्मुनिभिर् ज्वलनार्कसमप्रभैः
पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः ॥

154.129

अवमत्य विमानानि स्वर्गवासविरागिणः
पितुर्गृह इवासन्ना देवगन्धर्वकिंनराः ॥

154.130

अहो धन्यो ऽसि शैलेन्द्र यस्य ते कन्दरं हरः
अध्यास्ते लोकनाथो ऽपि समाधानपरायणः ॥

154.131

इत्युक्तवति देवर्षौ नारदे सादरं गिरा
हिमशैलस्य महिषी मेना मुनिदिदृक्षया ॥

154.132

अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका
लज्जाप्रणयनम्राङ्गी प्रविवेश निवेशनम् ॥

154.133

तत्र स्थितो मुनिवरः शैलेन सहितो वशी
दृष्ट्वा तु तेजसो राशिं मुनिं शैलप्रिया तदा ॥

154.134

ववन्दे गूढवदना पाणिपद्मकृताञ्जलिः
तां विलोक्य महाभागो महर्षिर् अमितद्युतिः ॥

154.135

आशीर्भिर् अमृतोद्गार रूपाभिस्तां व्यवर्धयत्
ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका ॥

154.136

उदैक्षन्नारदं देवी मुनिमद्भुतरूपिणम्
एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा ॥

154.137

कण्ठे गृहीत्वा पितरम् उत्सङ्गे समुपाविशत्
उवाच माता तां देवीम् अभिवन्दय पुत्रिके ॥

154.138

भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम्
इत्युक्ता तु ततो मात्रा वस्त्रान्तपिहितानना ॥

154.139

किंचित्कम्पितमूर्धा तु वाक्यं नोवाच किंचन
ततः पुनरुवाचेदं वाक्यं माता सुतां तदा ॥

154.140

वत्से वन्दय देवर्षिं ततो दास्यामि ते शुभम्
रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया ॥

154.141

इत्युक्ता तु ततो वेगाद् उद्धृत्य चरणौ तदा
ववन्दे मूर्ध्नि संधाय करपङ्कजकुड्मलम् ॥

154.142

कृते तु वन्दने तस्या माता सखीमुखेन तु
चोदयामास शनकैस् तस्याः सौभाग्यशंसिनाम् ॥

154.143

शरीरलक्षणानां तु विज्ञानाय तु कौतुकात्
स्त्रीस्वभावाद्यद्दुहितुश् चिन्तां हृदि समुद्वहन् ॥

154.144

ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु
अनुद्गीर्णो ऽक्षतिर्मेने रम्यमेतदुपस्थितम् ॥

154.145

चोदितः शैलमहिषी सख्या मुनिवरस्तदा
स्मिताननो महाभागो वाक्यं प्रोवाच नारदः ॥

154.146

न जातो ऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता
उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः
स्वछायया भविष्येयं किमन्यद्बहु भाष्यते ॥

154.147

श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो महाबलः
नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः ॥

154.148

संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः
सृष्ट्यां चावश्यभाविन्यां केनाप्यतिशयात्मना ॥

154.149

कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्
यो जायते हि यद्बीजो जनितुः स ह्यसार्थकः ॥

154.150

जनिता चापि जातस्य न कश्चिदिति यत्स्फुटम्
स्वकर्मणैव जायन्ते विविधा भूतजातयः ॥

154.151

अण्डजो ह्यण्डजाज्जातः पुनर्जायेत मानवः
मानुषाच्च सरीसृप्यां मनुष्यत्वेन जायते ॥

154.152

तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु
अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः ॥

154.153

मनुजास्तत्र जायन्ते यतो न गृहधर्मिणः
क्रमेणाश्रमसंप्राप्तिर् ब्रह्मचारिव्रतादनु ॥

154.154

तस्य कर्तुर्नियोगेन संसारो येन वर्धितः
संसारस्य कुतो वृद्धिः सर्वे स्युर्यदतिग्रहाः ॥

154.155

अतः कर्त्रा तु शास्त्रेषु सुतलाभः प्रशंसितः
प्राणिनां मोहनार्थाय नरकत्राणसंश्रयात् ॥

154.156

स्त्रिया विरहिता सृष्टिर् जन्तूनां नोपपद्यते
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभाषिणी
शास्त्रालोचनसामर्थ्यम् उज्झितं तासु वेधसा ॥

154.157

शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलम्
दशपुत्रसमा कन्या या न स्याच्छीलवर्जिता ॥

154.158

वाक्यमेतत्फलभ्रष्टं पुंसि ग्लानिकरं परम्
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्धिनी ॥

154.159

यापि स्यात्पूर्णसर्वाढ्या पतिपुत्रधनादिभिः
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः ॥

154.160

त्वं चोक्तवान्सुताया मे शरीरे दोषसंग्रहम्
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद ॥

154.161

अयुक्तमथ वक्तव्यम् अप्राप्यमपि सांप्रतम्
अनुग्रहेण मे छिन्द्धि दुःखं कन्याश्रयं मुने ॥

154.162

परिच्छिन्ने ऽप्यसंदिग्धे मनः परिभवाश्रयम्
तृष्णा मुष्णाति निष्णाता फललोभाश्रयाशुभा ॥

154.163

स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम्
इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम् ॥

154.164

दुर्लभः सत्पतिः स्त्रीणां विगुणो ऽपि पतिः किल
न प्राप्यते विना पुण्यैः पतिर्नार्या कदाचन ॥

154.165

यतो निःसाधनो धर्मः परिमाणोज्झिता रतिः
धनं जीवितपर्याप्तं पत्यौ नार्याः प्रतिष्ठितम् ॥

154.166

निर्धनो दुर्भगो मूर्खः सर्वलक्षणवर्जितः
दैवतं परमं नार्याः पतिरुक्तः सदैव हि ॥

154.167

त्वया चोक्तं हि देवर्षे न जातो ऽस्याः पतिः किल
एतद्दौर्भाग्यमतुलम् असंख्यं गुरु दुःसहम् ॥

154.168

चराचरे भूतसर्गे यदद्यापि च नो मुने
न स जात इति ब्रूषे तेन मे व्याकुलं मनः ॥

154.169

मनुष्यदेवजातीनां शुभाशुभनिवेदकम्
लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल ॥

154.170

सेयम् उत्तानहस्तेति त्वयोक्ता मुनिपुंगव
उत्तानहस्तता प्रोक्ता याचतामेव नित्यदा ॥

154.171

शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम्
स्वछाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ॥

154.172

तत्रापि श्रेयसां ह्याशा मुने न प्रतिभाति नः
शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः ॥

154.173

सौभाग्यधनपुत्रायुः पतिलाभानुशंसनम्
तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुंगव ॥

154.174

त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः
मुह्यामि मुनिशार्दूल हृदयं दीर्यतीव मे ॥

154.175

इत्युक्त्वा विरतः शैलो महादुःखविचारणात्
श्रुत्वैतदखिलं तस्माच् छैलराजमुखाम्बुजात्
स्मितपूर्वमुवाचेदं नारदो देवचोदितः ॥

154.176

हर्षस्थाने ऽपि महति त्वया दुःखं निरूप्यते
अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे ॥

154.177

इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम्
समाहितो महाशैल मयोक्तस्य विचारणे ॥

154.178

न जातो ऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल
न स जातो महादेवो भूतभव्यभवोद्भवः
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः ॥

154.179

ब्रह्मविष्ण्विन्द्रमुनयो जन्ममृत्युजरार्दिताः
तस्यैते परमेशस्य सर्वे क्रीडनका गिरे ॥

154.180

आस्ते ब्रह्मा तदिच्छातः सम्भूतो भुवनप्रभुः
विष्णुर्युगे युगे जातो नानाजातिर्महातनुः ॥

154.181

मन्यसे मायया जातं विष्णुं चापि युगे युगे
आत्मनो न विनाशो ऽस्ति स्थावरान्ते ऽपि भूधर ॥

154.182

संसारे जायमानस्य भ्रियमाणस्य देहिनः
नश्यते देह एवात्र नात्मनो नाश उच्यते ॥

154.183

ब्रह्मादिस्थावरान्तो ऽयं संसारो यः प्रकीर्तितः
स जन्ममृत्युदुःखार्तो ह्य् अवशः परिवर्तते ॥

154.184

महादेवो ऽचलः स्थाणुर् न जातो जनको ऽजरः
भविष्यति पतिः सो ऽस्या जगन्नाथो निरामयः ॥

154.185

यदुक्तं च मया देवी लक्षणैर्वर्जिता तव
शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम् ॥

154.186

लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः
सर्वायुर्धनसौभाग्य परिमाणप्रकाशकः ॥

154.187

अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर
नैवाङ्को लक्षणाकारः शरीरे संविधीयते ॥

154.188

अतो ऽस्या लक्षणं गात्रे शैल नास्ति महामते
यथाहमुक्तवानस्या ह्य् उत्तानकरतां सदा ॥

154.189

उत्तानो वरदः पाणिर् एष देव्याः सदैव तु
सुरासुरमुनिव्रात वरदेयं भविष्यति ॥

154.190

यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ
अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम ॥

154.191

चरणौ पद्मसंकाशाव् अस्याः स्वच्छनखोज्ज्वलौ
सुरासुराणां नमतां किरीटमणिकान्तिभिः ॥

154.192

विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ
भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर ॥

154.193

जननी लोकधर्मस्य सम्भूता भूतभावनी
शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः ॥

154.194

तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना
तथा विधेयं विधिवत् त्वया शैलेन्द्रसत्तम
अत्यन्तं हि महत्कार्यं देवानां हिमभूधर ॥

154.195

एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि
आत्मानं स पुनर्जातं मेने मेनापतिस्तदा ॥

154.196

नमस्कृत्य वृषाङ्काय तदा देवाय धीमते
उवाच सो ऽपि संहृष्टो नारदं तु हिमाचलः ॥

154.197

दुस्तरान्नरकाद्घोराद् उद्धृतो ऽस्मि त्वया मुने
पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः ॥

154.198

हिमाचलो ऽस्मि विख्यातस् त्वया मुनिवराधुना
हिमाचले ऽचलगुणां प्रापितो ऽस्मि समुन्नतिम् ॥

154.199

आनन्ददिवसाहारि हृदयं मे ऽधुना मुने
नाध्यवस्यति कृत्यानां प्रविभागविचारणम्
यदि वाचामधीशः स्यां त्वद्गुणानां विचारणे ॥

154.200

भवद्विधानां नियतम् अमोघं दर्शनं मुने
तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने ॥

154.201

भवद्भिरेव कृत्यो ऽहं निवासायात्मरूपिणाम्
मुनीनां देवतानां च स्वयंकर्तापि कल्मषम् ॥

154.202

तथापि वस्तुन्येकस्मिन्न् आज्ञा मे सम्प्रदीयताम्
इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे ॥

154.203

तथा च नारदो वाक्यं कृतं सर्वमिति प्रभो
सुरकार्ये य एवार्थस् तवापि सुमहत्तरः ॥

154.204

इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति
स गत्वा शक्रभवनम् अमरेशं ददर्श ह ॥

154.205

ततो ऽभिरूपे स मुनिर् उपविष्टो महासने
पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम् ॥

154.206

समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि
किं तु पञ्चशरस्यैव समयो ऽयमुपस्थितः ॥

154.207

इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना
चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः ॥

154.208

संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता
उपतस्थे रतियुतः सविलासो झषध्वजः
प्रादुर्भूतं तु तं दृष्ट्वा शक्रः प्रोवाच सादरम् ॥

154.209

उपदेशेन बहुना किं त्वां प्रति वदे प्रियम्
मनोभवो ऽसि तेन त्वं वेत्सि भूतमनोगतम् ॥

154.210

तद्यथार्थकमेव त्वं कुरु नाकसदां प्रियम्
शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव
संयुतो मधुना चैव ऋतुराजेन दुर्जय ॥

154.211

इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये
प्रोवाच पञ्चबाणो ऽथ वाक्यं भीतः शतक्रतुम् ॥

154.212

अनया देवसामग्र्या मुनिदानवभीमया
दुःसाध्यः शंकरो देवः किं न वेत्सि जगत्प्रभो ॥

154.213

तस्य देवस्य वेत्थ त्वं कारणं तु यदव्ययम्
प्रायः प्रसादः कोपो ऽपि सर्वो हि महतां महान् ॥

154.214

सर्वोपभोगसारा हि सुन्दर्यः स्वर्गसंभवाः
अध्याश्रितं च यत्सौख्यं भवता नष्टचेष्टितम् ॥

154.215

प्रमादादथ विभ्रश्येद् ईशं प्रति विचिन्त्यताम्
प्रागेव चेह दृश्यन्ते भूतानां कार्यसंभवाः ॥

154.216

विशेषं काङ्क्षतां शक्र सामान्याद्भ्रंशनं फलम्
श्रुत्वैतद्वचनं शक्रस् तमुवाचामरैर्युतः ॥

154.217

वयं प्रमाणास्ते ह्यत्र रतिकान्त न संशयः
संदेशेन विना शक्तिर् अपकारस्य नेष्यते
कस्यचिच् च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः ॥

154.218

इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः
रतियुक्तो जगामाशु प्रस्थं तु हिमभूभृतः ॥

154.219

स तु तत्राकरोच्चिन्तां कार्यस्योपायपूर्विकाम्
महार्था ये हि निष्कम्पा मनस्तेषां सुदुर्जयम् ॥

154.220

तदादावेव संक्षोभ्य नियतं सुजयो भवेत्
संसिद्धिं प्राप्नुयुश्चैव पूर्वं संशोध्य मानसम् ॥

154.221

कथं च विविधैर्भावैर् द्वेषानुगमनं विना
क्रोधः क्रूरतरासङ्गाद् भीषणेर्ष्यां महासखीम् ॥

154.222

चापल्यमूर्ध्नि विध्वस्त धैर्याधारां महाबलाम्
तामस्य विनियोक्ष्यामि मनसो विकृतिं पराम् ॥

154.223

पिधाय धैर्यद्वाराणि संतोषमपकृष्य च
अवगन्तुं हि मां तत्र न कश्चिदतिपण्डितः ॥

154.224

विकल्पमात्रावस्थाने वैरूप्यं मनसो भवेत्
पश्चान्मूलक्रियारम्भ गम्भीरावर्तदुस्तरः ॥

154.225

हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः
इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः ॥

154.226

चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम्
जगाम जगतीसारं सरलद्रुमवेदिकम् ॥

154.227

शान्तसत्त्वसमाकीर्णम् अचलप्राणिसंकुलम्
नानापुष्पलताजालं गगनस्थगणेश्वरम् ॥

154.228

निर्व्यग्रवृषभाध्युष्ट नीलशाद्वलसानुकम्
तत्रापश्यत्त्रिनेत्रस्य रम्यं कंचिद्द्वितीयकम् ॥

154.229

वीरकं लोकवीरेशम् ईशानसदृशद्युतिम्
यक्षकुङ्कुमकिञ्जल्क पुञ्जपिङ्गजटासटम् ॥

154.230

वेत्रपाणिनम् अव्यग्रम् उग्रभोगीन्द्रभूषणम्
ततो निमीलितोन्निद्र पद्मपत्राभलोचनम् ॥

154.231

प्रेक्षमाणमृजुस्थानं नासिकाग्रं सुलोचनैः
श्रवस्तरससिंहेन्द्र चर्मलम्बोत्तरीयकम् ॥

154.232

श्रवणाहिफलन्मुक्त निःश्वासानलपिङ्गलम्
प्रेङ्खत्कपालपर्यन्त तुम्बिलम्बिजटाचयम् ॥

154.233

कृतवासुकिपर्यङ्क नाभिमूलनिवेशितम्
ब्रह्माञ्जलिस्थपुच्छाग्र निबद्धोरगभूषणम् ॥

154.234

ददर्श शंकरं कामः क्रमप्राप्तान्तिकं शनैः
ततो भ्रमरझङ्कार मालम्बिद्रुमसानुकम् ॥

154.235

प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः
शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम् ॥

154.236

सस्मार दक्षदुहितारं दयितां रक्तमानसः
ततः सा तस्य शनकैस् तिरोभूयातिनिर्मला ॥

154.237

समाधिभावना तस्थौ लक्ष्यप्रत्यक्षरूपिणी
ततस्तन्मयतां यातः प्रत्यूहापिहिताशयः ॥

154.238

वशित्वेन बुबोधेशो विकृतिं मदनात्मिकाम्
ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्जटिः ॥

154.239

निरासे मदनस्थित्या योगमायासमाव्रतः
स तया माययाविष्टो जज्वाल मदनस्ततः ॥

154.240

इच्छाशरीरो दुर्जेयो रोषदोषमहाश्रयः
हृदयान्निर्गतः सो ऽथ वासनाव्यसनात्मकः ॥

154.241

बहिःस्थलं समालम्ब्य ह्य् उपतस्थौ झषध्वजः
अनुयातो ऽथ हृद्येन मित्रेण मधुना सह ॥

154.242

सहकारतरौ दृष्ट्वा मृदुमारुतनिर्धुतम्
स्तबकं मदनो रम्यं हरवक्षसि सत्वरम् ॥

154.243

मुमोच मोहनं नाम मार्गणं मकरध्वजः
शिवस्य हृदये शुद्धे नाशशाली महाशरः ॥

154.244

पपात परुषप्रांशुः पुष्पबाणो विमोहनः
ततः करणसंदेहो विद्धस्तु हृदये भवः ॥

154.245

बभूव भूधरौपम्य धैर्यो ऽपि मदनोन्मुखः
ततः प्रभुत्वाद्भावानां नावेशं समपद्यत ॥

154.246

बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम्
ततः कोपानलोद्भूत घोरहुङ्कारभीषणे ॥

154.247

बभूव वदने नेत्रं तृतीयमनलाकुलम्
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम् ॥

154.248

तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः
तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम् ॥

154.249

गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः
स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवो ऽनलः ॥

154.250

व्यजृम्भत जगद्दग्धुं ज्वालाहुङ्कारघस्मरः
ततो भवो जगद्धेतोर् व्यभवज्जातवेदसम् ॥

154.251

सहकारे मधौ चन्द्रे सुमनःसु परेष्वपि
भृङ्गेषु कोकिलास्येषु विभागेन स्मरानलम् ॥

154.252

स बाह्यान्तरविद्धेन हरेण स्मरमार्गणः
रागस्नेहसमिद्धान्तर् धावंस्तीव्रहुताशनः ॥

154.253

विभक्तलोकसंक्षोभ करो दुर्वारजृम्भितः
सम्प्राप्य स्नेहसंपृक्तं कामिनां हृदयं किल ॥

154.254

ज्वलत्यहर्निशं भीमो दुश्चिकित्स्यमुखात्मकः
विलोक्य हरहुङ्कार ज्वालाभस्मकृतं स्मरम् ॥

154.255

विललाप रतिः क्रूरं बन्धुना मधुना सह
ततो विलप्य बहुशो मधुना परिसान्त्विता ॥

154.256

जगाम शरणं देवम् इन्दुमौलिं त्रिलोचनम्
भृङ्गानुयातां संगृह्य पुष्पितां सहकारजाम् ॥

154.257

लतां पवित्रकस्थाने पाणौ परभृतां सखीम्
निर्बध्य तु जटाजूटं कुटिलैर् अलकै रतिः ॥

154.258

उद्ध्वल्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना
जानुभ्यामवनीं गत्वा प्रोवाचेन्दुविभूषणम् ॥

154.259

नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥

154.260

नमो भवायास्तु भवोद्भवाय नमो ऽस्तु ते ध्वस्तमनोभवाय
नमो ऽस्तु ते गूढमहाव्रताय नमो ऽस्तु मायागहनाश्रयाय ॥

154.261

नमो ऽस्तु शर्वाय नमः शिवाय नमो ऽस्तु सिद्धाय पुरातनाय
नमो ऽस्तु कालाय नमः कलाय नमो ऽस्तु ते ज्ञानवरप्रदाय ॥

154.262

नमो ऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय
नमो ऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमो ऽगुणाय ॥

154.263

नमो ऽस्तु ते भीमगणानुगाय नमो ऽस्तु नानाभुवनादिकर्त्रे
नमो ऽस्तु नानाजगतां विधात्रे नमो ऽस्तु ते चित्रफलप्रयोक्त्रे ॥

154.264

सर्वावसाने ह्यविनाशनेत्रे नमो ऽस्तु चित्राध्वरभागभोक्त्रे
नमो ऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे ॥

154.265

अनन्तरूपाय सदैव तुभ्यम् असह्यकोपाय नमो ऽस्तु तुभ्यम्
शशाङ्कचिह्नाय सदैव तुभ्यम् अमेयमानाय नमः स्तुताय ॥

154.266

वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय
नमो ऽस्तु भक्त्याभिमतप्रदाय नमो ऽस्तु सर्वार्तिहराय तुभ्यम् ॥

154.267

चराचराचारविचारवर्यम् आचार्यम् उत्प्रेक्षितभूतसर्गम्
त्वामिन्दुमौलिं शरणं प्रपन्ना प्रियाप्रमेयं महतां महेशम् ॥

154.268

प्रयच्छ मे कामयशःसमृद्धिं पुनः प्रभो जीवतु कामदेवः
प्रियं विना त्वां प्रियजीवितेषु त्वत्तो ऽपरः को भुवनेष्विहास्ति ॥

154.269

प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः
त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभीतिः ॥

154.270

इत्थं स्तुतः शंकर ईड्य ईशो वृषाकपिर्मन्मथकान्तया तु
तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥

154.271

भवितेति च कामो ऽयं कालात्कान्तो ऽचिरादपि
अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति ॥

154.272

इत्युक्ता शिरसावन्द्य गिरिशं कामवल्लभा
जगामोपवनं रम्यं रतिस्तु हिमभूभृतः ॥

154.273

रुरोद चापि बहुशो दीना रम्ये स्थले तु सा
मरणव्यवसायात्तु निवृत्ता सा हराज्ञया ॥

154.274

अथ नारदवाक्येन चोदितो हिमभूधरः
कृताभरणसंस्कारां कृतकौतुकमङ्गलाम् ॥

154.275

स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकाम्बराम्
शराभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः ॥

154.276

जगाम शुभयोगेन तदा सम्पूर्णमानसः
सकाननान्युपाक्रम्य वनान्युपवनानि च ॥

154.277

ददर्श रुदतीं नारीम् अप्रतर्क्यमहौजसम्
रूपेणासदृशीं लोके रम्येषु वनसानुषु ॥

154.278

कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः
उपसर्प्य ततस्तस्या निकटे सो ऽभ्यपृच्छत ॥

154.279

कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि
नैतदल्पमहं मन्ये कारणं लोकसुन्दरि ॥

154.280

सा तस्य वचनं श्रुत्वा उवाच मधुना सह
रुदती शोकजननं श्वसती दैन्यवर्धनम् ॥

154.281

कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत
गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः ॥

154.282

तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम्
दग्धो ऽसौ झषकेतुस्तु मम कान्तो ऽतिवल्लभः ॥

154.283

अहं तु शरणं याता तं देवं भयविह्वला
स्तुतवत्यथ संस्तुत्या ततो मां गिरिशो ऽब्रवीत् ॥

154.284

तुष्टो ऽहं कामदयिते कामो ऽयं ते भविष्यति
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः
लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः ॥

154.285

प्रतीक्षन्ती च तद्वाक्यम् आशावेशादिभिर्ह्यहम्
शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते ॥

154.286

इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः
पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम् ॥

154.287

भाविनो ऽवश्यभावित्वाद् भवित्री भूतभाविनी
लज्जमाना सखिमुखैर् उवाच पितरं गिरिम् ॥

154.288

दुर्भाग्येण शरीरेण किं ममानेन कारणम्
कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत् ॥

154.289

तपोभिः प्राप्यते ऽभीष्टं नासाध्यं हि तपस्यतः
दुर्भगत्वं वृथा लोको वहते सति साधने ॥

154.290

जीविताद्दुर्भगाच्छ्रेयो मरणं ह्यतपस्यतः
भविष्यामि न संदेहो नियमैः शोषये तनुम् ॥

154.291

तपसि भ्रष्टसंदेह उद्यमो ऽर्थजिगीषया
साहं तपः करिष्यामि यदहं प्राप्य दुर्लभा ॥

154.292

इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः
उवाच वाचा शैलेन्द्रः स्नेहगद्गदवर्णया ॥

154.293

उमेति चपले पुत्रि न क्षमं तावकं वपुः
सोढुं क्लेशस्वरूपस्य तपसः सौम्यदर्शने ॥

154.294

भावीन्यभिविचार्याणि पदार्थानि सदैव तु
भाविनो ऽर्था भवन्त्येव हठेनानिच्छतो ऽपि वा ॥

154.295

तस्मान्न तपसा ते ऽस्ति बाले किंचित्प्रयोजनम्
भवनायैव गच्छामश् चिन्तयिष्यामि तत्र वै ॥

154.296

इत्युक्ता तु यदा नैव गुहायाभ्येति शैलजा
ततः स चिन्तयाविष्टो दुहितां प्रशशंस च ॥

154.297

ततो ऽन्तरिक्षे दिव्या वाग् अभूद्भुवनभूतले
उमेति चपले पुत्रि त्वयोक्ता तनया ततः ॥

154.298

उमेति नाम तेनास्या भुवनेषु भविष्यति
सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम् ॥

154.299

इति श्रुत्वा तु वचनम् आकाशात्काशपाण्डुरः
अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम् ॥

154.300

शैलजापि ययौ शैलम् अगम्यमपि दैवतैः
सखीभ्यामनुयाता तु नियता नगराजजा ॥

154.301

शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम्
दिव्यपुष्पलताकीर्णं सिद्धगन्धर्वसेवितम् ॥

154.302

नानामृगगणाकीर्णं भ्रमरोद्घुष्टपादपम्
दिव्यप्रस्रवणोपेतं दीर्घिकाभिरलंकृतम् ॥

154.303

नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम्
जलजस्थलजैः पुष्पैः प्रोत्फुल्लैरुपशोभितम् ॥

154.304

चित्रकन्दरसंस्थानं गुहागृहमनोहरम्
विहङ्गसंघसंजुष्टं कल्पपादपसंकटम् ॥

154.305

तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम्
सर्वर्तुकुसुमोपेतं मनोरथशतोज्ज्वलम् ॥

154.306

नानापुष्पसमाकीर्णं नानाविधफलान्वितम्
नतं सूर्यस्य रुचिभिर् भिन्नसंहृतपल्लवम् ॥

154.307

तत्राम्बराणि संत्यज्य भूषणानि च शैलजा
संवीता वल्कलैर्दिव्यैर् दर्भनिर्मितमेखला ॥

154.308

त्रिःस्नाता पाटलाहारा बभूव शरदां शतम्
शतमेकेन शीर्णेन पर्णेनावर्तयत्तदा ॥

154.309

निराहारा शतं साभूत् समानां तपसां निधिः
तत उद्वेजिताः सर्वे प्राणिनस्तत्तपो ऽग्निना ॥

154.310

ततः सस्मार भगवान् मुनीन्सप्त शतक्रतुः
ते समागम्य मुनयः सर्वे समुदितास्ततः ॥

154.311

पूजिताश्च महेन्द्रेण पप्रच्छुस्तं प्रयोजनम्
किमर्थं तु सुरश्रेष्ठ संस्मृतास्तु वयं त्वया ॥

154.312

शक्रः प्रोवाच शृण्वन्तु भगवन्तः प्रयोजनम्
हिमाचले तपो घोरं तप्यते भूधरात्मजा
तस्या ह्यभिमतं कामं भवन्तः कर्तुमर्हथ ॥

154.313

ततः समापतन्देव्या जगदर्थं त्वरान्विताः
तथेत्युक्त्वा तु शैलेन्द्रं सिद्धसंघातसेवितम् ॥

154.314

ऊचुरागत्य मुनयस् तामथो मधुराक्षरम्
पुत्रि किं ते व्यवसितः कामः कमललोचने ॥

154.315

तानुवाच ततो देवी सलज्जा गौरवान्मुनीन्
तपस्यतो महाभागाः प्राप्य मौने भवादृशान् ॥

154.316

वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम्
प्रश्नोन्मुखत्वाद्भवतां युक्तमासनमादितः ॥

154.317

उपविष्टाः श्रमोन्मुक्तास् ततः प्रक्ष्यथ मामतः
इत्युक्त्वा सा ततश्चक्रे कृतासनपरिग्रहान् ॥

154.318

सा तु तान्विधिवत्पूज्यान् पूजयित्वा विधानतः
उवाचादित्यसंकाशान् मुनीन्सप्त सती शनैः ॥

154.319

त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम्
भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा ॥

154.320

गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा
सापि गौरवगर्भेण मनसा चारुहासिनी ॥

154.321

मुनीञ्शान्तकथालापान् प्रेक्ष्य प्रोवाच वाग्यमम्
भगवन्तो विजानन्ति प्राणिनां मानसं हितम् ॥

154.322

मनोगतीभिरत्यर्थं कदर्थन्ते हि देहिनः
केचित् तु निपुणास्तत्र घटन्ते विबुधोद्यमैः ॥

154.323

उपायैर्दुर्लभान्भावान् प्राप्नुवन्ति ह्यतन्द्रिताः
अपरे तु परिच्छिन्ना नानाकाराभ्युपक्रमाः ॥

154.324

देहान्तरार्थमारम्भम् आश्रयन्ति हितप्रदम्
मम त्वाकाशसम्भूत पुष्पदामा विभूषितम् ॥

154.325

वन्ध्या सुतं प्राप्तुकामा मनः प्रसरते मुहुः
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता ॥

154.326

प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति
सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयम् ॥

154.327

सांप्रतं चापि निर्दग्ध मदनं वीतरागिणम्
कथमाराधयेदीशं मादृशी तादृशं शिवम् ॥

154.328

इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम् ॥

154.329

द्विविधं तु सुखं तावत् पुत्रि लोकेषु भाव्यते
शरीरस्यास्य संभोगैश् चेतसश्चापि निर्वृतिः ॥

154.330

प्रकृत्या स तु दिग्वासा भीमः पितृवणेशयः
कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः ॥

154.331

प्रमत्तोन्मत्तकाकारो बीभत्सकृतसंग्रहः
यतिना तेन कस्ते ऽर्थो मूर्तानर्थेन काङ्क्षितः ॥

154.332

यदि ह्यस्य शरीरस्य भोगमिच्छसि सांप्रतम्
तत्कथं ते महादेवाद् भयभाजो जुगुप्सितात् ॥

154.333

स्रवद्रक्तवसाभ्यक्त कपालकृतभूषणात्
श्वसदुग्रभुजंगेन्द्र कृतभूषणभीषणात् ॥

154.334

श्मशानवासिनो रौद्र प्रमथानुगतात् सति
सुरेन्द्रमुकुटव्रात निघृष्टचरणो ऽरिहा ॥

154.335

हरिरस्ति जगद्धाता श्रीकान्तो ऽनन्तमूर्तिमान्
नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः ॥

154.336

देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत्
वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम् ॥

154.337

तथा वैश्रवणो राजा सर्वार्थमतिमान्विभुः
एभ्य एकतमं कस्मान् न त्वं सम्प्राप्तुमिच्छसि ॥

154.338

उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम्
एवमेतत्तवाप्यत्र प्रभवो नाकसंपदाम्
अस्मिन्नेव पराः सर्वाः कल्याणप्राप्तयस्तव ॥

154.339

पितुरेवास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते
अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव ॥

154.340

प्रायेण प्रार्थितो भद्रे सुस्वल्पो ह्यतिदुर्लभः
अस्य ते विधियोगस्य धाता कर्तात्र चैव हि ॥

154.341

इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा
उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः ॥

154.342

असद्ग्रहस्य का प्रीतिर् व्यसनस्य क्व यन्त्रणा
विपरीतार्थबोद्धारः सत्पथे केन योजिताः ॥

154.343

एवं मां वेत्थ दुष्प्रज्ञां ह्य् अस्थानासद्ग्रहप्रियाम्
न मां प्रतिविचारो ऽस्ति यत्रेहासद्ग्रहावितौ ॥

154.344

प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः
नूनं न वेत्थ तं देवं शाश्वतं जगतः प्रभुम् ॥

154.345

अजमीशानमव्यक्तम् अमेयमहिमोदयम् ॥

154.346

आस्तां तद्धर्मसद्भाव संबोधस्तावदद्भुतः
विदुर्यं न हरिब्रह्म प्रमुखा हि सुरेश्वराः ॥

154.347

यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम्
प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम् ॥

154.348

कस्यैतद्गगनं भूरितः कस्याग्निः कस्य मारुतः
कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः ॥

154.349

कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः
यं ब्रुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः ॥

154.350

प्रभावं प्रभवं चैष तेषामपि न वेत्थ किम्
अदितिः कस्य मातेयं कस्माज्जातो जनार्दनः ॥

154.351

अदितेः कश्यपाज्जाता देवा नारायणादयः
मरीचेः कश्यपः पुत्रो ह्य् अदितिर्दक्षपुत्रिका ॥

154.352

मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल
ब्रह्मा हिरण्मयात्त्वण्डाद् दिव्यसिद्धिविभूतिकम् ॥

154.353

कस्य प्रादुरभूद्ध्यानात् प्रक्षुब्धाः प्राकृतांशकाः
प्रकृतौ तु तृतीयायां मधुद्विड्जननक्रिया ॥

154.354

जाता ससर्ज षड्वर्गान् बुद्धिपूर्वान् स्वकर्मजान्
अजातको ऽभवद्वेधा ब्रह्मणो ऽव्यक्तजन्मनः ॥

154.355

यः स्वयोगेन संक्षोभ्य प्रकृतिं कृतवानिदम्
ब्रह्मणः सिद्धसर्वार्थम् ऐश्वर्यं लोककर्तृताम् ॥

154.356

विदुर्विष्ण्वादयो यच्च स्वमहिम्ना सदैव हि
कृत्वान्यं देहम् अन्या दृक् तादृक् कृत्वा पुनर्हरिः ॥

154.357

कुरुते जगतः कृत्यम् उत्तमाधममध्यमम्
एवमेव हि संसारो यो जन्ममरणात्मकः ॥

154.358

कर्मणश्च फलं ह्येतन् नानारूपसमुद्भवम्
अथ नारायणो देवः स्वकां छायां समाश्रयत् ॥

154.359

तत्प्रेरितः प्रकुरुते जन्म नानाप्रकारकम्
सापि कर्मण एवोक्ता प्रेरणा विवशात्मनाम् ॥

154.360

यथोन्मादादिजुष्टस्य मतिरेव हि सा भवेत्
इष्टान्येव यथार्थानि विपरीतानि मन्यते ॥

154.361

लोकस्य व्यवहारेषु सृष्टेषु सहते सदा
धर्माधर्मफलावाप्तौ विष्णुरेव निबोधितः ॥

154.362

अथानादित्वमस्यास्ति सामान्यात्तु तदात्मना
न ह्यस्य जीवितं दीर्घं दृष्टं देहे तु कुत्रचित् ॥

154.363

भवद्भिर्यस्य नो दृष्टम् अन्तरग्रमथापि वा
देहिनां धर्म एवैष क्वचिज्जायेत्कचिन्म्रियेत् ॥

154.364

क्वचिद्गर्भगतो नश्येत् क्वचिज् जीवेज्जरामयः
क्वचित्समाः शतं जीवेत् क्वचिद्बाल्ये विपद्यते ॥

154.365

शतायुः पुरुषो यस्तु सो ऽनन्तः स्वल्पजन्मनः
जीवितो न म्रियत्यग्रे तस्मात्सो ऽमर उच्यते ॥

154.366

अदृष्टजन्मनिधना ह्य् एवं विष्ण्वादयो मताः
एतत्संशुद्धमैश्वर्यं संसारे को लभेदिह ॥

154.367

तत्र क्षयादियोगात्तु नानाश्चर्यस्वरूपिणि
तस्माद्दिवश्चरान्सर्वान् मलिनान्स्वल्पभूतिकान् ॥

154.368

नाहं भद्राः किलेच्छामि ऋते शर्वात्पिनाकिनः
स्थितं च तारतम्येन प्राणिनां परमं त्विदम् ॥

154.369

धीबलैश्वर्यकार्यादि प्रमाणं महतां महत्
यस्मान्न किंचिदपरं सर्वं यस्मात्प्रवर्तते ॥

154.370

यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता
एष मे व्यवसायश्च दीर्घो ऽतिविपरीतकः ॥

154.371

यात वा तिष्ठतैवाथ मुनयो मद्विधायकाः
एवं निशम्य वचनं देव्या मुनिवरास्तदा ॥

154.372

आनन्दाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीम्
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः ॥

154.373

अत्यद्भुतास्यहो पुत्रि ज्ञानमूर्तिरिवामला
प्रसादयति नो भावं भवभावप्रतिश्रयात् ॥

154.374

ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः ॥

154.375

अचिरादेव तन्वङ्गि कामस्ते ऽयं भविष्यति
क्वादित्यस्य प्रभा याति रत्नेभ्यः क्व द्युतिः पृथक् ॥

154.376

को ऽर्थो वर्णालिकाव्यक्तः कथं त्वं गिरिशं विना
यामो नैकाभ्युपायने तमभ्यर्थयितुं वयम् ॥

154.377

अस्माकमपि वै सो ऽर्थः सुतरां हृदि वर्तते
अतस्त्वमेव सा बुद्धिर् यतो नीतिस्त्वमेव हि ॥

154.378

अतो निःसंशयं कायं शंकरो ऽपि विधास्यति
इत्युक्त्वा पूजिता याता मुनयो गिरिकन्यया ॥

154.379

प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्
गङ्गाम्बुप्लावितात्मानं पिङ्गबद्धजटासटम् ॥

154.380

भृङ्गानुयातपाणिस्थ मन्दारकुसुमस्रजम्
गिरेः सम्प्राप्य ते प्रस्थं ददृशुः शंकराश्रमम् ॥

154.381

प्रशान्ताशेषसत्त्वौघं नवस्तिमितकाननम्
निःशब्दाक्षोभसलिल प्रपातं सर्वतोदिशम् ॥

154.382

तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम्
सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात् ॥

154.383

ऊचुर्मधुरभाषिण्या वाचा ते वाग्मिनां वराः
द्रष्टुं वयमिहायाताः शरण्यं गणनायकम् ॥

154.384

त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः
त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः ॥

154.385

सा प्रार्थनैषा प्रायेण प्रतीहारमयः प्रभुः
इत्युक्तो मुनिभिः सो ऽथ गौरवात्तानुवाच सः ॥

154.386

सवनस्यापरां संध्यां स्नातुं मन्दाकिनीजले
क्षणेन भविता विप्रास् तत्र द्रक्ष्यथ शूलिनम् ॥

154.387

इत्युक्ता मुनयस्तस्थुस् ते तत्कालप्रतीक्षिणः
गम्भीराम्बुधरं प्रावृट् तृषिताश्चातका यथा ॥

154.388

ततः क्षणेन निष्पन्न समाधानक्रियाविधिः
वीरासनं बिभेदेशो मृगचर्मनिवासितम् ॥

154.389

ततो विनीतो जानुभ्याम् अवलम्ब्य महीस्थितिम्
उवाच वीरको देवं प्रणामैकसमाश्रयः ॥

154.390

सम्प्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्ततेजसः
विभो समादिश द्रष्टुम् अवगन्तुम् इहार्हसि
ते ऽब्रुवन्देवकार्येण तव दर्शनलालसाः ॥

154.391

इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना
भूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा ॥

154.392

मूर्ध्नः कम्पेन तान्सर्वान् वीरको ऽपि महामुनीन्
आजुहावाविदूरस्थान् दर्शनाय पिनाकिनः ॥

154.393

त्वराबद्धार्धचूडास्ते लम्बमानाजिनाम्बराः
विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः ॥

154.394

बद्धपाणिपुटाक्षिप्त नाकपुष्पोत्करास्ततः
पिनाकिपादयुगलं वन्द्यं नाकनिवासिनाम् ॥

154.395

ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना
मन्मथारिं ततो हृष्टाः समं तुष्टुवुरादृताः ॥

154.396

अहो कृतार्था वयमेव सांप्रतं सुरेश्वरो ऽप्यत्र वरो भविष्यति
भवत्प्रसादामलवारिसेकतः फलेन काचित् तपसा नियुज्यते ॥

154.397

जयत्यसौ धन्यतरो हिमाचलस् तदाश्रयं यस्य सुता तपस्यति
स दैत्यराजो ऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः ॥

154.398

त्वदीयमंशं प्रविलोक्य कल्मषात् स्वकं शरीरं परिमोक्ष्यते हि यः
स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवह्निदीपितः ॥

154.399

त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो महाभितापप्रशमैकहेतुकम्
त्वमेव चैको विविधाकृतक्रियः किलेति वाचा विधुरैर् विभाष्यते ॥

154.400

अथाद्य एकस्त्वमवादि नान्यथा जगत्तथा निर्घृणतां तव स्पृशेत्
न वेत्सि वा दुःखमिदं प्रजात्मकं विहन्यते ते खलु सर्वतः क्रिया ॥

154.401

उपेक्षसे चेज् जगतामुपद्रवं दयामयत्वं तव केन कथ्यते
स्वयोगमायामहिमागुहाश्रयं न विद्यते निर्मलभूतिगौरवम् ॥

154.402

वयं च ते धन्यतराः शरीरिणां यदीदृशं त्वां प्रविलोकयामहे
अदर्शनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम् ॥

154.403

जगद्विधानैकविधौ जगन्मुखे करिष्यसे ऽतो बलभिच्चरा वयम्
विनेमुरित्थं मुनयो विसृज्य तां गिरं गिरीशश्रुतिभूमिसंनिधौ ॥

154.404

उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः ॥

154.405

तेषां श्रुत्वा तु तां रम्यां प्रक्रमोपक्रमक्रियाम्
वाचं वाचस्पतिस्तुष्टः प्रोवाच स्मितसुन्दरीम् ॥

154.406

जाने लोकविधानस्य कन्या सत्कार्यमुत्तमम्
जाता प्रालेयशैलस्य संकेतकनिरूपणाः ॥

154.407

सत्यमुत्कण्ठिताः सर्वे देवकार्यार्थमुद्यताः
तेषां त्वरन्ति चेतांसि किंतु कार्यं विवक्षितम् ॥

154.408

लोकयात्रानुगन्तव्या विशेषेण विचक्षणैः
सेवन्ते ते यतो धर्मं तत्प्रामाण्यात्परे स्थिताः ॥

154.409

इत्युक्ता मुनयो जग्मुस् त्वरितास्तु हिमाचलम्
तत्र ते पूजितास्तेन हिमशैलेन सादरम्
ऊचुर्मुनिवराः प्रीताः स्वल्पवर्णं त्वरान्विताः ॥

154.410

देवो दुहितरं साक्षात् पिनाकी तव मार्गते
तच्छीघ्रं पावयात्मानम् आहुत्येवानलार्पणात् ॥

154.411

कार्यमेतच्च देवानां सुचिरं परिवर्तते
जगदुद्धरणायैष क्रियतां वै समुद्यमः ॥

154.412

इत्युक्तस्तैस्तदा शैलो हर्षाविष्टो ऽवदन्मुनीन्
असमर्थो ऽभवद्वक्तुम् उत्तरं प्रार्थयञ्छिवम् ॥

154.413

ततो मेना मुनीन्वीक्ष्य प्रोवाच स्नेहविक्लवा
दुहितुस्तान्मुनींश्चैव चरणाश्रयम् अर्थवित् ॥

154.414

यदर्थं दुहितुर्जन्म नेच्छन्त्यपि महाफलम्
तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम् ॥

154.415

कुलजन्मवयोरूप विभूत्यृद्धियुतो ऽपि यः
वरस्तस्यापि चाहूय सुता देया ह्ययाचतः ॥

154.416

तत्समस्ततपोघोरं कथं पुत्री प्रयास्यति
पुत्रीवाक्याद्यदत्रास्ति विधेयं तद्विधीयताम् ॥

154.417

इत्युक्ता मुनयस्ते तु प्रियया हिमभूभृतः
ऊचुः पुनरुदारार्थं नारीचित्तप्रसादकम् ॥

154.418

ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुरैः
आराध्यमानपादाब्ज युगलत्वात्सुनिर्वृतैः ॥

154.419

यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम्
घोरं तपस्यते बाला तेन रूपेण निर्वृतिः ॥

154.420

यस्तद्व्रतानि दिव्यानि नयिष्यति समापनम्
तत्र सावहिता तावत् तस्मात् सैव भविष्यति ॥

154.421

इत्युक्त्वा गिरिणा सार्धं ते ययुर्यत्र शैलजा
जितार्कज्वलनज्वाला तपस्तेजोमयी ह्युमा ॥

154.422

प्रोचुस्तां मुनयः स्निग्धं संमान्य पथमागतम्
रम्यं प्रियं मनोहारि मा रूपं तपसा दह ॥

154.423

प्रातस्ते शंकरः पाणिम् एष पुत्रि ग्रहीष्यति
वयमर्थितवन्तस्ते पितरं पूर्वमागताः ॥

154.424

पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरम् ॥

154.425

इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा
त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम् ॥

154.426

सा तत्र रजनीं मेने वर्षायुतसमां सती
हरदर्शनसंजात महोत्कण्ठा हिमाद्रिजा ॥

154.427

ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः
नानामङ्गलसंदोहान् यथावत्क्रमपूर्वकम् ॥

154.428

दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले
उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः ॥

154.429

वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः
हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना ॥

154.430

कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला
चिन्तामणिप्रभृतयो रत्नाः शैलं समन्ततः ॥

154.431

उपतस्थुर्नगाश्चापि कल्पकाममहाद्रुमाः
ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः ॥

154.432

रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः
किंकरास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः ॥

154.433

नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत्
तत्सर्वं हिमशैलस्य महिमानमवर्धयत् ॥

154.434

अभवन्मुनयो नागा यक्षगन्धर्वकिंनराः
शंकरस्यापि विबुधा गन्धमादनपर्वते ॥

154.435

सर्वे मण्डनसंभारास् तस्थुर्निर्मलमूर्तयः
शर्वस्यापि जटाजूटे चन्द्रखण्डं पितामहः ॥

154.436

बबन्ध प्रणयोदार विस्फारितविलोचनः
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धयत् ॥

154.437

उवाच चापि वचनं पुत्रं जनय शंकर
यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति ॥

154.438

सौरिर् ज्वलच्छिरोरत्न मुकुटं चानलोल्बणम्
भुजगाभरणं गृह्य सज्जं शंभोः पुरो ऽभवत् ॥

154.439

शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम्
दध्रे सरभसं स्विद्यद् विस्तीर्णमुखपङ्कजम् ॥

154.440

वायुश्च विपुलं तीक्ष्ण शृङ्गं हिमगिरिप्रभम्
वृषं विभूषयामास हरयानं महौजसम् ॥

154.441

वितेनुर्नयनान्तःस्थाः शम्भोः सूर्यानलेन्दवः
स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः ॥

154.442

चिताभस्म समाधाय कपाले रजतप्रभम्
मनुजास्थिमयीं मालाम् आबबन्ध च पाणिना ॥

154.443

प्रेताधिपः पुरो द्वारे सगदः समवर्तत
नानाकारमहारत्न भूषणं धनदाहृतम् ॥

154.444

विहायोदग्रसर्पेन्द्र कटकेन स्वपाणिना
कर्णोत्तंसं चकारेशो वासुकिं तक्षकं स्वयम् ॥

154.445

जलाधीशाहृतां स्थास्नु प्रसूनावेष्टितां पृथक्
ततस्तु ते गणाधीशा विनयात्तत्र वीरकम् ॥

154.446

प्रोचुर्व्यग्राकृते त्वं गां समावेदय शूलिने
निष्पन्नाभरणं देवं प्रसाध्येशं प्रसाधनैः ॥

154.447

सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम्
ततो विलोकितात्मानं महाम्बुधिजलोदरे ॥

154.448

धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः
शोभसे देव रूपेण जगदानन्ददायिना ॥

154.449

मातरः प्रेरयन् काम वधूं वैधव्यचिह्निताम्
कालो ऽयमिति चालक्ष्य प्रकारेङ्गितसंज्ञया ॥

154.450

ततस्ताश्चोदिता देवम् ऊचुः प्रहसिताननाः
रतिः पुरस्तव प्राप्ता नाभाति मदनोज्झिता ॥

154.451

ततस्तां संनिर्वायाह वामहस्ताग्रसंज्ञया
प्रयाणं गिरिजावक्त्र दर्शनोत्सुकमानसः ॥

154.452

ततो हरो हिमगिरिकन्दराकृतिं सितं कशामृदुहतिभिः प्रचोदयत्
महावृषं गणतुमुलाहितेक्षणं स भूधरानशनिरिव प्रकम्पयन् ॥

154.453

ततो हरिर्द्रुतपदपद्धतिः पुरः पुरःसरान्द्रुमनिकरेषु संश्रितान्
धरारजःशबलितभूषणो ऽब्रवीत् प्रयात मा कुरुत पथो ऽस्य संकटम् ॥

154.454

प्रभोः पुनः प्रथमनियोगमूर्जयन् सुतो ऽब्रवीद् भ्रुकुटिमुखो ऽपि वीरकः
वियच्चरा वियति किमस्ति कान्तकं प्रयात नो धरणिधराविदूरतः ॥

154.455

महार्णवाः कुरुत शिलोपमं पयः सुरद्विषागमनमहातिकर्दमम्
गणेश्वराश् चपलतया न गम्यतां सुरेश्वरैः स्थिरमतिभिर् निरीक्ष्यते ॥

154.456

न भृङ्गिणा स्वतनुमवेक्ष्य नीयते पिनाकिनः पृथुमुखमण्डम् अग्रतः
वृथा यमः प्रकटितदन्तकोटरं त्वमायुधं वहसि विहाय संभ्रमम् ॥

154.457

पदं न यद्रथतुरगैः पुरद्विषः प्रमुच्यते बहुतरमातृसंकुलम्
अमी सुराः पृथगनुयायिभिर्वृताः पदातयो द्विगुणपथान् हरप्रियाः ॥

154.458

स्ववाहनैः पवनविधूतचामरैश् चलध्वजैर्व्रजत विहारशालिभिः
सुराः स्वकं किमिति सरागमूर्जितं विचार्यते नियतलयत्रयानुगम् ॥

154.459

न किंनरैर् अभिभवितुं हि शक्यते विभूषणचयसमुद्भवो ध्वनिः
अजातिजाः किमिति न षड्जमध्यम् अपृथुस्वरं बहुतरमत्र वक्ष्यते ॥

154.460

नतानतानतनततानतां गताः पृथक्तया समयकृता विभिन्नताम्
विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः ॥

154.461

विसंहताः किमिति न षाड्गवादयः स्वगीतकैर् ललितपदप्रयोगजैः
प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते ॥

154.462

अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम्
प्रयुञ्जते गिरिशयशोविसारिणं प्रकीर्णकं बहुतरनागजातयः ॥

154.463

अमी कथं ककुभि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधूविमिश्रिताः
न जातयो ध्वनिमुरजासमीरिता न मूर्छिताः किमिति च मूर्छनात्मकाः ॥

154.464*

श्रुतिप्रियक्रमगतिभेदसाधनं ततादिकं किमिति न तुम्बरेरितम् ।
न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् ॥

154.465

इतीरते गिरिमवधानशालिनः सुरासुराः सपदि तु वीरकाज्ञया
नियामिताः प्रययुरतीव हर्षिताश् चराचरं जगदखिलं ह्यपूरयन् ॥

154.466

इति स्तनत्ककुभि रसन्महार्णवे स्तनद्घने विदलितशैलकंदरे
जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः ॥

154.467

परिज्वलत्कनकसहस्रतोरणं क्वचिन्मिलन्मरकतवेश्मवेदिकम्
क्वचित् क्वचिद् विमलविदूरवेदिकं क्वचिद् गलज्जलधररम्यनिर्झरम् ॥

154.468

चलद्ध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तबकविकीर्णचत्वरम्
सितासितारुणरुचिधातुवर्णिकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम् ॥

154.469*

विजृम्भिताप्रतिमध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् ।
हरो महागिरिनगरं समासदत्क्षणादिव प्रवरसुरासुरस्तुतः ॥

154.470

तं प्रविशन्तमगात्प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः
व्यग्रपुरन्ध्रिजनं जययुक्तं धावितमार्गजनाकुलरथ्यम् ॥

154.471

हर्म्यगवाक्षगतामरनारी लोचननीलसरोरुहमालम्
सुप्रकटा समदृश्यत काचित् स्वाभरणांशुवितानविगूढा ॥

154.472

काप्यखिलीकृतमण्डनभूषा त्यक्तसखीप्रणया हरम् ऐक्षत्
काचिदुवाच कलं गतमाना कातरतां सखि मा कुरु मूढे ॥

154.473

दग्धमनोभव एव पिनाकी कामयते स्वयमेव विहर्तुम्
काचिदपि स्वयमेव पतन्ती प्राह परां विरहस्खलिताङ्गीम् ॥

154.474

मा चपले मदनव्यतिषङ्गं शंकरजं स्खलनेन वद त्वम्
कापि कृतव्यवधानमदृष्ट्वा युक्तिवशाद्गिरिशो ह्ययमूचे ॥

154.475

एष स यत्र सहस्रमखाद्या नाकसदामधिपाः स्वयमुक्तैः
नामभिर् इन्दुजटं निजसेवा प्राप्तफलाय नतास्तु घटन्ते ॥

154.476

एष न चैष स एष यदग्रे चर्मपरीततनुः शशिमौली
धावति वज्रधरो ऽमरराजो मार्गममुं विवृतीकरणाय ॥

154.477

एष स पद्मभवो ऽयमुपेत्य प्रांशुजटामृगचर्मनिगूढः
सप्रणयं करघट्टितवक्त्रः किंचिदुवाच मितं श्रुतिमूले ॥

154.478

एवमभूत्सुरनारिकुलानां चित्तविसंष्ठुलता गुरुरागात्
शंकरसंश्रयणाद् गिरिजायाज् अन्मफलं परमं त्विति चोचुः ॥

154.479

ततो हिमगिरेर्वेश्म विश्वकर्मनिवेदितम्
महानीलमयस्तम्भं ज्वलत्काञ्चनकुट्टिमम् ॥

154.480

मुक्ताजालपरिष्कारं ज्वलितौषधिदीपितम्
क्रीडोद्यानसहस्राढ्यं काञ्चनाम्बुजदीर्घिकम् ॥

154.481

महेन्द्रप्रमुखाः सर्वे सुरा दृष्ट्वा तदद्भुतम्
नेत्राणि सफलान्यद्य मनोभिरिति ते दधुः ॥

154.482

विमर्दक्षीणकेयूरा हरिणा द्वारि रोधिताः
कथंचित्प्रमुखास्तत्र विविशुर्नाकवासिनः ॥

154.483

प्रणतेनाचलेन्द्रेण पूजितो ऽथ चतुर्मुखः
चकार विधिना सर्वं विधिमन्त्रपुरःसरम् ॥

154.484

शर्वस्य पाणिग्रहणम् अग्निसाक्षिकमक्षतम्
दाता महीभृतां नाथो होता देवश्चतुर्मुखः ॥

154.485

वरः पशुपतिः साक्षात् कन्या विश्वारणिस्तथा
चराचराणि भूतानि सुरासुरवराणि च ॥

154.486

तत्राप्येते नियमतो ह्य् अभवन्व्यग्रमूर्तयः
मुमोचाभिनवान्सर्वान् सस्यशालीन्रसौषधीः ॥

154.487

व्यग्रा तु पृथिवी देवी सर्वभावमनोरमा
गृहीत्वा वरुणः सर्व रत्नान्याभरणानि च ॥

154.488

पुण्यानि च पवित्राणि नानारत्नमयानि तु
तस्थौ साभरणो देवो हर्षदः सर्वदेहिनाम् ॥

154.489

धनदश्चापि दिव्यानि हैमान्याभरणानि च
जातरूपविचित्राणि प्रयतः समुपस्थितः ॥

154.490

वायुर्ववौ सुसुरभिः सुखसंस्पर्शनो विभुः
छत्रमिन्दुकरोद्भासि सुसितं च शतक्रतुः ॥

154.491

जग्राह मुदितः स्रग्वी बाहुभिर्बहुभूषणैः
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥

154.492

वादयन्तो ऽतिमधुरं जगुर् गन्धर्वकिंनराः
मूर्ताश्च ऋतवस्तत्र जगुश्च ननृतुश्च वै ॥

154.493

चपलाश्च गणास्तस्थुर् लोलयन्तो हिमाचलम्
उत्तिष्ठन्क्रमशश्चात्र विश्वभुग्भगनेत्रहा ॥

154.494

चकारौद्वाहिकं कृत्यं पत्न्या सह यथोचितम्
दत्तार्घो गिरिराजेन सुरवृन्दैर् विनोदितः ॥

154.495

अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः
ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि ॥

154.496

स्तुतिभिर् देवदैत्यानां विबुद्धो विबुधाधिपः
आमन्त्र्य हिमशैलेन्द्रं प्रभाते चोमया सह
जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा ॥

154.497

ततो गते भगवति नीललोहिते सहोमया रतिमलभन्न भूधरः
सबान्धवो भवति च कस्य नो मनो विह्वलं च जगति हि कन्यकापितुः ॥

154.498

ज्वलन्मणिस्फटिकहाटकोत्कटं स्फुटद्युति स्फटिकगोपुरं पुरम्
हरो गिरौ चिरमनुकल्पितं तदा विसर्जितामरनिवहो ऽविशत्स्वकम् ॥

154.499

तदोमासहितो देवो विजहार भगाक्षिहा
पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च ॥

154.500

सुरक्तहृदयो देव्या मकराङ्कपुरःसरः
ततो बहुतिथे काले सुतकामा गिरेः सुता ॥

154.501

सखीभिः सहिता क्रीडां चक्रे कृत्रिमपुत्रकैः
कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा ॥

154.502

चूर्णैरुद्वर्तयामास मलिनान्तरितां तनुम्
तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम् ॥

154.503

पुत्रकं क्रीडती देवी तं चाप्यर्पयदम्भसि
जाह्नव्यास्तु शिवासख्यास् ततः सो ऽभूद्बृहद्वपुः ॥

154.504

कायेनातिविशालेन जगदापूरयत्तदा
पुत्रेत्युवाच ते देवी पुत्रेत्यूचे च जाह्नवी ॥

154.505

गाङ्गेय इति देवैस्तु पूजितो ऽभूद्गजाननः
विनायकाधिपत्यं च ददावस्य पितामहः ॥

154.506

पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिनी
मनोज्ञमङ्कुरं रूढम् अशोकस्य शुभानना ॥

154.507

वर्धयामास तं चापि कृतसंस्कारमङ्गला
बृहस्पतिमुखैर्विप्रैर् दिवस्पतिपुरोगमैः ॥

154.508

ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः
भवानि भवती भव्या सम्भूता लोकभूतये ॥

154.509

प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते
अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः ॥

154.510

अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः
इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम् ॥

154.511

एवं निरुदके देशे यः कूपं कारयेद्बुधः
बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि ॥

154.512

दशकूपसमा वापी दशवापीसमो ह्रदः
दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः
एषैव मम मर्यादा नियता लोकभाविनी ॥

154.513

इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः
जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम् ॥

154.514

गतेषु तेषु देवो ऽपि शंकरः पर्वतात्मजाम्
पाणिनालम्ब्य वामेन शनैः प्रावेशयच्छुभाम् ॥

154.515

चित्तप्रसादजननं प्रासादमनुगोपुरम्
लम्बमौक्तिकदामानं मालिकाकुलवेदिकम् ॥

154.516

निर्धौतकलधौतं च क्रीडागुहमनोरमम्
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम् ॥

154.517

किंनरोद्गीतसंगीत गृहान्तरितभित्तिकम्
सुगन्धिधूपसंघात मनःप्रार्थ्यमलक्षितम् ॥

154.518

क्रीडन्मयूरनारीभिर् वृतं वै ततवादिभिः
हंससंघातसंघुष्टं स्फटिकस्तम्भवेदिकम् ॥

154.519

अनाविलमसंभ्रान्त्या बहुशः किंनराकुलम्
शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः ॥

154.520

भित्तयो दाडिमभ्रान्त्या प्रतिबिम्बितमौक्तिकाः
तत्राक्षक्रीडया देवी विहर्तुमुपचक्रमे ॥

154.521

स्वच्छेन्द्रनीलभूभागे क्रीडने यत्र धिष्ठितौ
वपुःसहायतां प्राप्तौ विनोदरसनिर्वृतौ ॥

154.522

एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा
प्रादुर्भवन्महाशब्दस् तद्गृहोदरगोचरः ॥

154.523

तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्
पप्रच्छ तं शुभतनुर् हरं विस्मयपूर्वकम् ॥

154.524

उवाच देवीं नैतत्ते दृष्टपूर्वं सुविस्मिते
एते गणेशाः क्रीडन्ते शैले ऽस्मिन्मत्प्रियाः सदा ॥

154.525

तपसा ब्रह्मचर्येण नियमैः क्षेत्रसेवनैः
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः ॥

154.526

मत्समीपमनुप्राप्ता मम हृद्याः शुभानने
कामरूपा महोत्साहा महारूपगुणान्विताः ॥

154.527

कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्
चराचरस्य जगतः सृष्टिसंहरणक्षमाः ॥

154.528

ब्रह्मविष्ण्विन्द्रगन्धर्वैः सकिंनरमहोरगैः
समावृतो ऽप्यहं नित्यं नैभिर्विरहितो रमे ॥

154.529

हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ
इत्युक्ता तु ततो देवी त्यक्त्वा तद्विस्मयाकुला ॥

154.530

गवाक्षान्तरमासाद्य प्रेक्षते विस्मितानना
यावन्तस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः ॥

154.531

व्याघ्रेभवदनाः केचित् केचिन्मेषाजरूपिणः
अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः ॥

154.532

सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटासटाः
नानाविहङ्गवदना नानाविधमृगाननाः ॥

154.533

कौशेयचर्मवसना नग्नाश्चान्ये विरूपिणः
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः ॥

154.534

बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः
अनेककुसुमापीडा नानाव्यालविभूषणाः ॥

154.535

वृकाननायुधधरा नानाकवचभूषणाः
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः ॥

154.536

वीणावाद्यमुखोद्घुष्टा नानास्थानकनर्तकाः
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम् ॥

154.537

गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः
एकैकशो मम ब्रूहि धिष्ठिता ये पृथक्पृथक् ॥

154.538

कोटिसंख्या ह्यसंख्याता नानाविख्यातपौरुषाः
जगदापूरितं सर्वैर् एभिर्भीमैर्महाबलैः ॥

154.539

सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु
दानवानां शरीरेषु बालेषून्मत्तकेषु च
एते विशन्ति मुदिता नानाहारविहारिणः ॥

154.540

ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः
रक्तपाः सर्वभक्षाश्च वायुपा ह्यम्बुभोजनाः ॥

154.541

गेयनृत्योपहाराश्च नानावाद्यरवप्रियाः
न ह्येषां वै अनन्तत्वाद् गुणान्वक्तुं हि शक्यते ॥

154.542

मार्गत्वगुत्तरासङ्ग शुद्धाङ्गो मुञ्जमेखली
मानशिलेन कल्केन चपलो रञ्जिताननः ॥

154.543

पिनद्धोत्पलस्रग्दामा सुकान्तो मधुराकृतिः
पाषाणशकलोत्तान कांस्यतालप्रवर्तकः ॥

154.544

असौ गणेश्वरो देवः किंनामा किंनरानुगः
य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः ॥

154.545

स एष वीरको देवि सदा मद्धृदयप्रियः
नानाश्चर्यगुणाधारो गणेश्वरगणार्चितः ॥

154.546

ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक
कदाहम् ईदृशं पुत्रं द्रक्ष्याम्यानन्ददायिनम् ॥

154.547

एष एव सुतस्ते ऽस्तु नयनानन्दहेतुकः
त्वया मात्रा कृतार्थो ऽस्तु वीरको ऽपि सुमध्यमे ॥

154.548

इत्युक्ता प्रेषयामास विजयां हर्षणोत्सुका
वीरकानयनायाशु दुहिता हिमभूभृतः ॥

154.549

सावरुह्य त्वरायुक्ता प्रासादादम्बरस्पृशः
विजयोवाच गणपं गणमध्ये प्रवर्तिता ॥

154.550

एहि वीरक चापल्यात् त्वया देवः प्रकोपितः
किमुत्तरं वदत्यर्थे नृत्यरङ्गे तु शैलजा ॥

154.551

इत्युक्तस्त्यक्तपाषाण शकलो मार्जिताननः
आहूतस्तु तयोद्भूत मूलप्रस्तावशंसकः ॥

154.552

देव्याः समीपमागच्छद् विजयानुगुप्तः शनैः
प्रासादशिखरात्फुल्ल रक्ताम्बुजनिभद्युतिः ॥

154.553

तं दृष्ट्वा प्रस्रुतानल्प स्वादुक्षीरपयोधरा
गिरिजोवाच सस्नेहं गिरा मधुरवर्णया ॥

154.554

एह्येहि यातो ऽसि मे पुत्रतां देवदेवेन दत्तो ऽधुना वीरक ॥

154.555

इत्येवमङ्के निधायाथ तं पर्यचुम्बत्कपोले कलवादिनम् ॥

154.556

मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि भूषयामास दिव्यैः स्वयं भूषणैः किङ्किणीमेखलानूपुरैर् माणिक्यकेयूरहारोरुमूलगुणैः ॥

154.557

कोमलैः पल्लवैश्चित्रितैश्चारुभिर् दिव्यमन्त्रोद्भवैस् तस्य शुभैस्ततो भूरिभिश्चाकरोन्मिश्रसिद्धार्थकैर् अङ्गरक्षाविधिम् ॥

154.558

एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्ज्वलम् ॥

154.559

गच्छ गच्छाधुना क्रीड सार्धं गणैरप्रमत्तो नगे श्वभ्रवर्ज शनैर्व्यालमालाकुलाः शैलसानुद्रुमदन्तिभिर् भिन्नसाराः परे सङ्गिनः ॥

154.560

जाह्नवीयं जलं क्षुब्धतोयाकुलं कूलं मा विशेथा बहुव्याघ्रदुष्टे वने ॥

154.561

वत्सासंख्येषु दुर्गा गणेशेष्वेतस्मिन्वीरके पुत्रभावोपतुष्टान्तःकरणा तिष्ठतु ॥

154.562

स्वस्य पितृजनप्रार्थितं भव्यमायातिभाविन्यसौ भव्यता ॥

154.563

सो ऽपि निर्वर्त्य सर्वान् गणान् सस्मयमाह बालत्वलीलारसाविष्टधीः ॥

154.564

एष मात्रा स्वयं मे कृतभूषणो ऽत्र एष पटः पाटलैर्बिन्दुभिः सिन्दुवारस्य पुष्पैरियं मालतीमिश्रिता मालिका मे शिरस्याहिता ॥

154.565

को ऽयमातोद्यधारी गणस्तस्य दास्यामि हस्तादिदं क्रीडनम् ॥

154.566

दक्षिणात्पश्चिमं पश्चिमादुत्तरमुत्तरात्पूर्वमभ्येत्य सख्या युता प्रेक्षती तं गवाक्षान्तराद्वीरकं शैलपुत्री बहिः क्रीडनं यज्जगन्मातुरप्येष चित्तभ्रमः ॥

154.567

पुत्रलुब्धो जनस्तत्र को मोहमायाति न स्वल्पचेता जडो मांसविण्मूत्रसंघातदेहः ॥

154.568

द्रष्टुमभ्यन्तरे नाकवासेश्वरैर् इन्दुमौलिं प्रविष्टेषु कक्षान्तरम् ॥

154.569

वाहनात्यावरोहा गणास्तैर्युतो लोकपालास्त्रमूर्तो ह्ययं खड्गो विखड्गकरो निर्ममः कृतान्तः कस्य केनाहतो ब्रूत मौने भवन्तो ऽस्त्रदण्डेन किं दुःस्पृहाः ॥

154.570

भीममूर्त्याननेनास्ति कृत्यं गिरौ य एषो ऽस्त्रज्ञेन किं वध्यते ॥

154.571

मा वृथा लोकपालानुगचित्तता एवम् एवैतद् इत्यूचुरस्मै तदा देवताः ॥

154.572

देवदेवानुगं वीरकं लक्षणा प्राह देवी वनं पर्वता निर्झराण्यग्निदेव्यान्यथो भूतपा निर्झराम्भोनिपातेषु निमज्जत ॥

154.573

पुष्पजालावनद्धेषु धामस्वपि प्रोत्तुङ्गनानाद्रिकुञ्जेष्वनुगर्जन्तु हेमारुतास्फोटसंक्षेपणात् कामतः ॥

154.574

काञ्चनोत्तुङ्गशृङ्गावरोहक्षितौ हेमरेणूत्करासङ्गद्युतिं खेचराणां वनाधायिनि रम्ये बहुरूपसंपत्प्रकरे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिर् आपीतरूपामृतं विस्तृतैर् नेत्रपात्रैर् अनुन्मेषिभिर् वीरके शैलपुत्री निमेषान्तराद् अस्मरत्पुत्रगृध्री विनोदार्थिनी ॥

154.575

सो ऽपि तादृक्क्षणावाप्तपुण्योदयो यो ऽपि जन्मान्तरस्यात्मजत्वं गतः क्रीडतस्तस्य तृप्तिः कथं जायते यो ऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः प्रणतः ॥

154.576

क्षणं सिंहनादाकुले गण्डशैले सृजद्रत्नजाले बृहत्सालताले
क्षणं फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलो मराले ॥

154.577

क्षणे स्वल्पपङ्के जले पङ्कजाढ्ये क्षणं मातुरङ्के शुभे निष्कलङ्के
परिक्रीडते बाललीलाविहारी गणेशाधिपो देवतानन्दकारी
निकुञ्जेषु विद्याधरैर्गीतशीलः पिनाकीव लीलाविलासैः सलीलः ॥

154.578

प्रकाश्य भुवनाभोगी ततो दिनकरे गते
देशान्तरं तदा पश्चाद् दूरमस्तावनीधरम् ॥

154.579

उदयास्ते पुरोभावी यो हि चास्ते ऽवनीधरः
मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम् ॥

154.580

नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः
नाकरोत्सेवितुं मेरुर् उपहारं पतिष्यतः ॥

154.581

जले ऽप्येषा व्यवस्थेति संशयेताखिलं बुधः
दिनान्तानुगतो भानुः स्वजनत्वमपूरयत् ॥

154.582

संध्याबद्धाञ्जलिपुटा मुनयो ऽभिमुखा रविम्
याचन्त्यागमनं शीघ्रं निवार्यात्मनि भाविताम् ॥

154.583

व्यजृम्भत तथा लोके क्रमाद्वैभावरं तमः
कुटिलस्येव हृदये कालुष्यं दूषयन्मनः ॥

154.584

ज्वलत्फणिफणारत्न दीपोद्द्योतितभित्तिके
शयनं शशिसंघात शुभ्रवस्त्रोत्तरच्छदम् ॥

154.585

नानारत्नद्युतिलसच् छक्रचापविडम्बकम्
रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम् ॥

154.586

कमनीयचलल्लोल वितानाच्छादिताम्बरम्
मन्दिरे मन्दसंचारः शनैर्गिरिसुतायुतः ॥

154.587

तस्थौ गिरिसुताबाहु लतामीलितकंधरः
शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः ॥

154.588

गिरिजाप्यसितापङ्गी नीलोत्पलदलच्छविः
विभावर्या च संपृक्ता बभूवातितमोमयी
तमुवाच ततो देवः क्रीडाकेलिकलायुतम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc