मत्स्य पुराण · अध्याय 155
शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः
भुजंगीवासिता शुद्धा संश्लिष्टा चन्दने तरौ ॥
चन्द्रातपेन संपृक्ता रुचिराम्बरया तथा
रजनीवासिते पक्षे दृष्टिदोषं ददासि मे ॥
इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना
उवाच कोपरक्ताक्षी भ्रुकुटीकुटिलानना ॥
स्वकृतेन जनः सर्वो जाड्येन परिभूयते
अवश्यमर्थी प्राप्नोति खण्डनां जनमण्डले ॥
तपोभिर्दीर्घचरितैर् यच्च प्रार्थितवत्यहम्
तस्या मे नियतस्त्वेष ह्य् अवमानः पदे पदे ॥
नैवास्मि कुटिला शर्व विषमा नैव धूर्जटे
सविषयस्त्वं गतः ख्यातिं व्यक्तदोषाकराश्रयः ॥
नाहं पूष्णो ऽपि दशना नेत्रे चास्मि भगस्य हि
आदित्यश्च विजानाति भगवान्द्वादशात्मकः ॥
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन्
यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः ॥
यास्याम्यहं परित्यक्त्वा चात्मानं तपसा गिरिम्
जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया ॥
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः
उवाचाविष्टसंभ्रान्ति प्रणयोन्मिश्रया गिरा ॥
अनात्मज्ञासि गिरिजे नाहं निन्दापरस्तव
त्वद्भक्तिबुद्ध्या कृतवांस् तवाहं नामसंश्रयम् ॥
विकल्पः स्वस्थचित्ते ऽपि गिरिजे नैव कल्पना
यद्येवं कुपिता भीरु त्वं तवाहं न वै पुनः ॥
नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते
शिरसा प्रणतश्चाहं रचितस्ते मयाञ्जलिः ॥
स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम्
तस्मान्न जातु रुष्टस्य नर्मस्पृष्टो जनः किल ॥
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता ॥
अवष्टब्धम् अथास्फाल्य वासः शंकरपाणिना
विपर्यस्तालका वेगाद् यातुमैच्छत शैलजा ॥
तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः
सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः ॥
हिमाचलस्य शृङ्गैस्तैर् मेघजालाकुलैर्नभः
तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः ॥
काठिन्याङ्कस्त्वमस्मभ्यं वनेभ्यो बहुधा गता
कुटिलत्वं च वर्त्मभ्यो दुःसेव्यत्वं हिमादपि
संक्रान्तिं सर्वदैवेति तन्वङ्गि हिमशैलराट् ॥
इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा
कोपकम्पितमूर्धा च प्रस्फुरद्दशनच्छदा ॥
मा सर्वान्दोषदानेन निन्दान्यान्गुणिनो जनान्
तवापि दुष्टसंपर्कात् संक्रान्तं सर्वमेव हि ॥
व्यालेभ्यो ऽनेकजिह्वत्वं भस्मना स्नेहबन्धनम्
हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं वृषादपि ॥
तथा बहु किमुक्तेन अलं वाचा श्रमेण ते
श्मशानवासान् निर्भीस् त्वं नग्नत्वान्न तव त्रपा
निर्घृणत्वं कपालित्वाद् दया ते विगता चिरम् ॥
इत्युक्त्वा मन्दिरात्तस्मान् निर्जगाम हिमाद्रिजा ॥
तस्यां व्रजन्त्यां देवेश गणैः किलकिलो ध्वनिः
क्व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥
विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदम्
प्रोवाच मातः किंत्वेतत् क्व यासि कुपितान्तरा ॥
अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम्
नो चेत्पतिष्ये शिखरात् तपोनिष्ठे त्वयोज्झितः ॥
उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना
उवाच वीरकं माता शोकं पुत्रक मा कृथाः ॥
शैलाग्रात्पतितुं नैव न चागन्तुं मया सह
युक्तं ते पुत्र वक्ष्यामि येन कार्येण तच्छृणु ॥
कृष्णेत्युक्त्वा हरेणाहं निन्दिता चाप्यनिन्दिता
सार्हं तपः करिष्यामि येन गौरीत्वमाप्नुयाम् ॥
एष स्त्रीलम्पटो देवो यातायां मय्यनन्तरम्
द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षिणा ॥
यथा न काचित् प्रविशेद् योषिदत्र हरान्तिकम्
दृष्ट्वा परांस्त्रियं चात्र वदेथा मम पुत्रक ॥
शीघ्रम् एव करिष्यामि यथायुक्तम् अनन्तरम्
एवमस्त्विति देवीं स वीरकः प्राह सांप्रतम् ॥
मातुराज्ञामृताह्लाद प्लाविताङ्गो गतज्वरः
जगाम कक्षां संद्रष्टुं प्रणिपत्य च मातरम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0