भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 153

153.1

तमालोक्य पलायन्तं विभ्रष्टध्वजकार्मुकम्
हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ॥

153.2

दैत्यांश्च मुदितान्दृष्ट्वा कर्तव्यं नाध्यगच्छत
अथायान्निकटे विष्णोः सुरेशः पाकशासनः ॥

153.3

उवाच चैनं मधुरं प्रोत्साहपरिबृंहकम्
किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः ॥

153.4

दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥

153.5

तस्मान्न नीचं मतिमान् दुर्गहीनं हि संत्यजेत्
अथाग्रेसरसंपत्त्या रथिनो जयमाप्नुयुः ॥

153.6

कस्ते सखाभवच्चाग्रे हिरण्याक्षवधे विभो
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः ॥

153.7

त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम्
पूर्वे ऽप्यतिबला ये च दैत्येन्द्राः सुरविद्विषः ॥

153.8

विनाशमागताः प्राप्य शलभा इव पावकम्
युगे युगे च दैत्यानां त्वमेवान्तकरो हरे ॥

153.9

तथैवाद्येह मग्नानां भव विष्णो सुराश्रयः
एवमुक्तस्ततो विष्णुर् व्यवर्धत महाभुजः ॥

153.10

ऋद्ध्या परमया युक्तः सर्वभूताश्रयो ऽरिहा
अथोवाच सहस्राक्षं कालक्षमम् अधोक्षजः ॥

153.11

दैत्येन्द्राः स्वैर्वधोपायैः शक्या हन्तुं हि नान्यतः
दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ॥

153.12

कश्चित्स्त्रीवध्यतां प्राप्तो वधे ऽन्यस्य कुमारिका
जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ॥

153.13

तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम्
अवध्यः सर्वभूतानां त्वां विना स तु दानवः ॥

153.14

मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर
तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षो ऽमरारिहा ॥

153.15

समादिशत्सुरान्सर्वान् सैन्यस्य रचनां प्रति
यत्सारं सर्वलोकेषु वीर्यस्य तपसो ऽपि च ॥

153.16

तदेकादश रुद्रांस्तु चकाराग्रेसरान्हरिः
व्यालभोगाङ्गसंनद्धा बलिनो नीलकंधराः ॥

153.17

चन्द्रखण्डनृमुण्डाली मण्डितोरुशिखण्डिनः
शूलज्वालावलिप्ताङ्गा भुजमण्डलभैरवाः ॥

153.18

पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिणः
कपालीशादयो रुद्रा विद्रावितमहासुराः ॥

153.19

कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः
अजेशः शासनः शास्ता शंभुश्चण्डो ध्रुवस्तथा ॥

153.20

एत एकादशानन्त बला रुद्राः प्रभाविणः
पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ॥

153.21

आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः
हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि ॥

153.22

प्रचलच्चामरे हेम घण्टासंघातमण्डिते
ऐरावते चतुर्दन्ते मातङ्गे ऽचलसंस्थिते ॥

153.23

महामदजलस्रावे कामरूपे शतक्रतुः
तस्थौ हिमगिरेः शृङ्गे भानुमानिव दीप्तिमान् ॥

153.24

तस्यारक्षत्पदं सव्यं मारुतो ऽमितविक्रमः
जुगोपापरमग्निस्तु ज्वालापूरितदिङ्मुखः ॥

153.25

पृष्ठरक्षो ऽभवद्विष्णुः ससैन्यस्य शतक्रतोः
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥

153.26

गन्धर्वा राक्षसा यक्षाः सकिंनरमहोरगाः
नानाविधायुधाश्चित्रा दधाना हेमभूषणाः ॥

153.27

कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम्
विश्रामयन्तः स्वां कीर्तिं बन्दिवृन्दपुरःसराः
चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ॥

153.28

शतक्रतोरमरनिकायपालिता पताकिनी गजशतवाजिनादिता
सितोन्नतध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ॥

153.29

आयान्तीम् अवलोक्याथ सुरसेनां गजासुरः
गजरूपी महाम्भोद संघातो भाति भैरवः ॥

153.30

परश्वधायुधो दैत्यो दंशितोष्ठकसंपुटः
ममर्द च रणे देवांश् चिक्षेपान्यान्करेण तु ॥

153.31

परान्परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः
तस्य पातयतः सेनां यक्षगन्धर्वकिंनराः ॥

153.32

मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम्
पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ॥

153.33

कुन्तान्प्रासान् असींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान्
तान्सर्वान्सो ऽग्रसद्दैत्यः कवलानिव यूथपः ॥

153.34

कोपास्फालितदीर्घाग्र करास्फोटेन पातयन्
विचचार रणे देवान् दुष्प्रेक्ष्ये गजदानवः ॥

153.35

यस्मिन्यस्मिन्निपतति सुरवृन्दे गजासुरः
तस्मिंस्तस्मिन्महाशब्दो हाहाकारकृतो ऽभवत् ॥

153.36

अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः
रुद्राः परस्परं प्रोचुर् अहंकारोत्थितार्चिषः ॥

153.37

भो भो गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम्
कर्षतैनं शितैः शूलैर् भञ्जतैनं च मर्मसु ॥

153.38

कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम्
संमार्ज्य वामहस्तेन संरम्भविवृतेक्षणः ॥

153.39

अधावद्भृकुटीवक्रो दैत्येन्द्राभिमुखो रणे
दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ॥

153.40

जघान कुम्भदेशे तु कपाली गजदानवम्
ततो दशापि ते रुद्रा निर्मलायोमयै रणे ॥

153.41

जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे
स्रुतशोणितरन्ध्रस्तु शितशूलमुखार्दितः ॥

153.42

बभौ कृष्णच्छविर् दैत्यः शरदीवामलं सरः
प्रोत्फुल्लारुणनीलाब्ज संघातः सर्वतोदिशम् ॥

153.43

भस्मशुभ्रतनुछायै रुद्रैर्हंसैरिवावृतः
उपस्थितार्तिर्दैत्यो ऽथ प्रचलत्कर्णपल्लवः ॥

153.44

शंभुं बिभेद दशनैर् नाभिदेशे गजासुरः
दृष्ट्वा सक्तं तु रुद्राभ्यां नव रुद्रास्ततो ऽद्भुतम् ॥

153.45

ततक्षुर्विविधैः शस्त्रैः शरीरममरद्विषः
निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः ॥

153.46

मृतं महिषमासाद्य वने गोमायवो यथा
कपालिनं परित्यज्य गतश्चासुरपुंगवः ॥

153.47

वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत्
ममर्द चरणाघातैर् दन्तैश्चापि करेण च ॥

153.48

स तैस्तुमुलयुद्धेन श्रममासादितो यदा
तदा कपाली जग्राह करं तस्यामरद्विषः ॥

153.49

भ्रामयामास वेगेन ह्य् अतीव च गजासुरम्
दृष्ट्वा श्रमातुरं दैत्यं किंचित्स्फुरितजीवितम् ॥

153.50

निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम्
ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ॥

153.51

स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः
दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ॥

153.52

वित्रेसुर्दुद्रुवुर्जग्मुर् निपेतुश्च सहस्रशः
दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ॥

153.53

दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन्
एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ॥

153.54

द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः
कल्पान्ताम्बुधराभेण दुर्धरेणापि दानवः ॥

153.55

निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन् ॥

153.56

यां यां निमिगजो याति दिशं तां तां सवाहना
संत्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतयः
गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः ॥

153.57

पलायितेषु सैन्येषु सुराणां पाकशासनः
तस्थौ दिक्पालकैः सार्धम् अष्टभिः केशवेन च ॥

153.58

सम्प्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति
तावच्छक्रगजो यातो मुक्त्वा नादं स भैरवम् ॥

153.59

ध्रियमाणो ऽपि यत्नेन स रणे नैव तिष्ठति
पलायिते गजे तस्मिन्न् आरूढः पाकशासनः ॥

153.60

विपरीतमुखो ऽयुध्यद् दानवेन्द्रबलं प्रति
शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत् ॥

153.61

गदया दन्तिनश्चास्य गण्डदेशे ऽहनद्दृढम्
तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ॥

153.62

ऐरावणं कटीदेशे मुद्गरेणाभ्यताडयत्
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥

153.63

जगाम पश्चाच्चरणैर् धरणीं भूधराकृतिः
लाघवात्क्षिप्रमुत्थाय ततो ऽमरमहागजः ॥

153.64

रणादपससर्पाशु भीषितो निमिहस्तिना
ततो वायुर्ववौ रूक्षो बहुशर्करपांसुलः ॥

153.65

संमुखो निमिमातङ्गो जवनाचलकम्पनः
स्रुतरक्तो बभौ शैलो घनधातुह्रदो यथा ॥

153.66

धनेशो ऽपि गदां गुर्वीं तस्य दानवहस्तिनः
चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्धनि ॥

153.67

गजो गदानिपातेन स तेन परिमूर्छितः
दन्तैर्भित्त्वा धरां वेगात् पपाताचलसंनिभः ॥

153.68

पतिते तु गजे तस्मिन् सिंहनादो महानभूत्
सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ॥

153.69

ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम्
गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम् ॥

153.70

श्रुत्वा च सिंहनादं च सुराणामतिकोपनः
जम्भो जज्वाल कोपेन पीताज्य इव पावकः ॥

153.71

स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम्
तिष्ठतेत्यब्रवीत्तावत् सारथिं चाप्यचोदयत् ॥

153.72

वेगेन चलतस्तस्य तद्रथस्याभवद्द्युतिः
यथादित्यसहस्रस्या भुदितस्योदयाचले ॥

153.73

पताकिना रथेनाजौ किङ्किणीजालमालिना
शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु ॥

153.74

घट्टयन्सुरसैन्यानां हृदयं समदृश्यत
तम् आयान्तम् अभिप्रेक्ष्य धनुष्याहितसायकः ॥

153.75

शतक्रतुरदीनात्मा दृढमाधत्त कार्मुकम्
बाणं च तैलधौताग्रम् अर्धचन्द्रमजिह्मगम् ॥

153.76

तेनास्य सशरं चापं रणे चिछेद वृत्रहा
क्षिप्रं संत्यज्य तच्चापं जम्भो दानवनन्दनः ॥

153.77

अन्यत्कार्मुकमादाय वेगवद्भारसाधनम्
शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान् ॥

153.78

शक्रं विव्याध दशभिर् जत्रुदेशे तु पत्त्रिभिः
हृदये च त्रिभिश्चापि द्वाभ्यां च स्कन्धयोर् द्वयोः ॥

153.79

शक्रो ऽपि दानवेन्द्राय बाणजालमपीदृशम्
अप्राप्तान्दानवेन्द्रस्तु शराञ्छक्रभुजेरितान् ॥

153.80

चिछेद दशधाकाशे शरैरग्निशिखोपमैः
ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम् ॥

153.81

आच्छादयत यत्नेन वर्षास्विव घनैर्नभः
दैत्यो ऽपि बाणजालं तद् व्यधमत्सायकैः शितैः ॥

153.82

यथा वायुर्घनाटोपं परिवार्य दिशो मुखे
शक्रो ऽथ क्रोधसंरम्भान् न विशेषयते यदा ॥

153.83

दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम्
तदुत्थतेजसा व्याप्तम् अभूद्गमनगोचरम् ॥

153.84

गन्धर्वनगरैश् चापि नानाप्राकारतोरणैः
मुञ्चद्भिरद्भुताकारैर् अस्त्रवृष्टिं समन्ततः ॥

153.85

अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः
जम्भं शरणमागच्छद् अप्रमेयपराक्रमम् ॥

153.86

व्याकुलो ऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः
स्मरन्साधुसमाचारं भीतत्राणपरो ऽभवत् ॥

153.87

अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः
ततो ऽयोमुसलैः सर्वम् अभवत्पूरितं जगत् ॥

153.88

एकप्रहारकरणैर् अप्रधृष्यैः समन्ततः
गन्धर्वनगरं तेषु गन्धर्वास्त्रविनिर्मितम् ॥

153.89

गान्धर्वमस्त्रं संधाय सुरसैन्येषु चापरम्
एकैकेन प्रहारेण गजानश्वान्महारथान् ॥

153.90

रथाश्वान्सो ऽहनत्क्षिप्रं शतशो ऽथ सहस्रशः
ततः सुराधिपस्त्वाष्ट्रम् अस्त्रं च समुदीरयत् ॥

153.91

संध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः
ततो यन्त्रमयान् दिव्यान् आयुधान्दुष्प्रधर्षिणः ॥

153.92

तैर्यन्त्रैरभवद्बद्धम् अन्तरिक्षे वितानकम्
वितानकेन तेनाथ प्रशमं मौसले गते ॥

153.93

शैलास्त्रं मुमुचे जम्भो यन्त्रसंघातताडनम्
व्यामप्रमाणैरुपलैस् ततो वर्षमवर्तत ॥

153.94

त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम्
तेनोपलनिपातेन गतानि तिलशस्ततः ॥

153.95

यन्त्राणि तिलशः कृत्वा शैलास्त्रं परमूर्धसु
निपपातातिवेगेना -दारयत्पृथिवीं ततः ॥

153.96

ततो वज्रास्त्रम् अकरोत् सहस्राक्षः पुरंदरः
तदोपलमहावर्षं व्यशीर्यत समन्ततः ॥

153.97

ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसंनिभः
ऐषीकमस्त्रमकरोद् अभीतो ऽतिपराक्रमः ॥

153.98

ऐषीकेणागमन्नाशं वज्रास्त्रं शक्रवल्लभम्
विजृम्भत्यथ चैषीके परमास्त्रे ऽतिदुर्धरे ॥

153.99

जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु
दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ॥

153.100

आग्नेयमस्त्रमकरोद् बलवान्पाकशासनः
तेनास्त्रेण तदस्त्रं च बभ्रंशे तदनन्तरम् ॥

153.101

तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत
जज्वाल कायं जम्भस्य सरथं च ससारथिम् ॥

153.102

ततः प्रतिहतः सो ऽथ दैत्येन्द्रः प्रतिभानवान्
वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ॥

153.103

ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः
गम्भीरमुरजध्वानैर् आपूरितम् इवाम्बरम् ॥

153.104

करीन्द्रकरतुल्याभिर् जलधाराभिर् अम्बरात्
पतन्तीभिर्जगत्सर्वं क्षणेनापूरितं बभौ ॥

153.105

शान्तमाग्नेयमस्त्रं तत् प्रविलोक्य सुराधिपः
वायव्यम् अस्त्रम् अकरोन् मेघसंघातनाशनम् ॥

153.106

वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले
बभूव विमलं व्योम नीलोत्पलदलप्रभम् ॥

153.107

वायुना चातिघोरेण कम्पितास्ते तु दानवाः
न शेकुस्तत्र ते स्थातुं रणे ऽतिबलिनो ऽपि ये ॥

153.108

तदा जम्भो ऽभवच्छैलो दशयोजनविस्तृतः
मारुतप्रतिघातार्थं दानवानां भयापहः ॥

153.109

मुक्तनानायुधोदग्र तेजो ऽभिज्वलितद्रुमः
ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ ॥

153.110

महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः
तयाशन्या पतितया दैत्यस्याचलरूपिणः ॥

153.111

कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु
ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ॥

153.112

निवृत्तशैलमायो ऽथ दानवेन्द्रो मदोत्कटः
बभूव कुञ्जरो भीमो महाशैलसमाकृतिः ॥

153.113

स ममर्द सुरानीकं दन्तैश्चाप्यहनत्सुरान्
बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः ॥

153.114

ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥

153.115

ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसा
कृष्णदंष्ट्राट्टहासानि क्रकचाभनखानि च ॥

153.116

तैर्विपाटितगात्रो ऽसौ गजमायां व्यपोथयत्
ततश्चाशीविषो घोरो ऽभवत्फणशताकुलः ॥

153.117

विषनिःश्वासनिर्दग्धं सुरसैन्यं महारथः
ततो ऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ॥

153.118

ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः
तैर्गरुत्मद्भिरासाद्य जम्भो भुजगरूपवान्
कृतस्तु खण्डशो दैत्यः सास्य माया व्यनश्यत ॥

153.119

प्रनष्टायां तु मायायां ततो जम्भो महासुरः
चकार रूपमतुलं चन्द्रादित्यपथानुगम्
विवृत्तवदनो ग्रस्तुम् इयेष सुरपुंगवान् ॥

153.120

ततो ऽस्य विविशुर्वक्त्रं समहारथकुञ्जरा
सुरसेनाविशद्भीमं पातालोत्तानतालुकम् ॥

153.121

सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा
शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ॥

153.122

कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम्
किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ॥

153.123

यदाश्रित्य घटामो ऽस्य दानवस्य युयुत्सवः
ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥

153.124

न सांप्रतं रणस्त्याज्यस् त्वया कातरभैरवः
वर्धस्वाशु महामायां पुरंदर रिपुं प्रति ॥

153.125

मयैष लक्षितो दैत्यो ऽधिष्ठितः प्राप्तपौरुषः
मा शक्र मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो ॥

153.126

ततः शक्रः प्रकुपितो दानवं प्रति देवराट्
नारायणास्त्रं प्रयतो मुमोचासुरवक्षसि ॥

153.126*

एतस्मिन्नन्तरे दैत्यो विवृतास्यो ऽग्रसत्क्षणात्
त्रीणि लक्षाणि गन्धर्वी किंनरोरगराक्षसान् ॥

153.127

ततो नारायणास्त्रं तत् पपातासुरवक्षसि
महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः ॥

153.128

रणागारमिवोद्गारं तत्याजासुरनन्दनः
तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ॥

153.129

ततश्चान्तर्दधे दैत्यो वियत्यनुपलक्षितः
गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ॥

153.130

मुमोच सुरसैन्यानां संहारे कारणं परम्
प्रासान्परश्वधांश्चक्रान् बाणान्वज्रान्समुद्गरान् ॥

153.131

कुठारान्सह खड्गैश्च भिन्दिपालानयोगुडान्
ववर्ष दानवो रौद्रो ह्य् अबन्ध्यानक्षयानपि ॥

153.132

तैरस्त्रैर्दानवैर्मुक्तैर् देवानीकेषु भीषणैः
बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ॥

153.133

ऊरुभिर् गजहस्ताभैः करीन्द्रैर्वाचलोपमैः
भग्नेषादण्डचक्राक्षै रथैः सारथिभिः सह ॥

153.134

दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा
रुधिरौघह्रदावर्ता शवराशिशिलोच्चयैः ॥

153.135

कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम्
शृगालगृध्रवायसाः परं प्रमोदमादधुः क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥

153.136

विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् क्वचित्स्थितो ऽतिभीषणः श्वचञ्चुचर्वितो बकः
मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः ॥

153.137

क्वचित् तुरंगमण्डली विकृष्यते श्वजातिभिः क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः
स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर् ममैतदानयाननं खुरो ऽयमस्तु मे प्रियः ॥

153.138

करो ऽयमब्जसंनिभो ममास्तु कर्णपूरकः सरोषमीक्षते ऽपरा वपां विना प्रियं तदा
परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् ॥

153.139

चकार यक्षकामिनी तरुं कुठारपाटितं गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम्
विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥

153.140

मृताश्वकेशवासितं रसं प्रगृह्य पाणिना प्रियाविमुक्तजीवितं समानयासृगासवम्
न पथ्यतां प्रयाति मे गतं श्मशानगोचरं नरस्य तज्जहात्यसौ प्रशस्य किंनराननम् ॥

153.141

स नाग एष नो भयं दधाति मुक्तजीवितो न दानवस्य शक्यते मया तदेकयाननम्
इति प्रियाय वल्लभा वदन्ति यक्षयोषितः परे कपालपाणयः पिशाचयक्षराक्षसाः ॥

153.142

वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः परे ऽवतीर्य शोणितापगासु धौतमूर्तया
पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर् गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ॥

153.143

इति प्रगाढसंकटे सुरासुरे सुसंगरे भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः ॥

153.144

तत शक्रो धनेशश्च वरुणः पवनो ऽनलः
यमो ऽपि निरृतिश्चापि दिव्यास्त्राणि महाबलाः ॥

153.145

आकाशे मुमुचुः सर्वे दानवानभिसंध्य ते
अस्त्राणि व्यर्थतां जग्मुर् देवानां दानवान्प्रति ॥

153.146

संरम्भेणाप्ययुध्यन्त संहतास्तुमुलेन च
गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ॥

153.147

दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् अकिंचित्करतां गताः
परस्परं व्यलीयन्त गावः शीतार्दिता इव ॥

153.148

तदवस्थान्हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह
ब्रह्मास्त्रं स्मर देवेन्द्र यस्यावध्यो न विद्यते
विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ॥

153.149

सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने
धनुष्यजय्ये विनियोज्य बुद्धिमान् अभूत्ततो मन्त्रसमाधिमानसः ॥

153.150

स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसंध्य तु
विकृष्य कर्णान्तम् अकुण्ठदीधितिं मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ॥

153.151

अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्ठत
प्रवेपमानेन मुखेन शुष्यता बलेन गात्रेण च संभ्रमाकुलः ॥

153.152

ततस्तु तस्यास्त्रवराभिमन्त्रितः शरो ऽर्धचन्द्रप्रतिमो महारणे
पुरंदरस्यासनबन्धुतां गतो नवार्कबिम्बं वपुषा विडम्बयन् ॥

153.153

किरीटकोटिस्फुटकान्तिसंकटं सुगन्धिनानाकुसुमाधिवासितम्
प्रकीर्णधूमज्वलनाभमूर्धजं पपात जम्भस्य शिरः सकुण्डलम् ॥

153.154

तस्मिन्विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः
ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः ॥

153.155

तांस्तु त्रस्तान्समालोक्य श्रुत्वारोषमगात्परम्
स जम्भदानवेन्द्रं तु सुरै रणमुखे हतम् ॥

153.156

सावलेपं ससंरम्भं सगर्वं सपराक्रमम्
साविष्कारमनाकारं तारको भावमाविशत् ॥

153.157

स जैत्रं रथमास्थाय सहस्रेण गरुत्मताम्
संरम्भाद्दानवेन्द्रस्तु सुरै रणमुखे गतः ॥

153.158

सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः
त्रैलोक्यऋद्धिसम्पन्नः सुविस्तृतमहाननः ॥

153.159

रणायाभ्यपतत्तूर्णं सैन्येन महता वृतः
जम्भास्त्रक्षतसर्वाङ्गं त्यक्त्वैरावतदन्तिनम् ॥

153.160

सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा
तप्तहेमपरिष्कारं महारत्नसमन्वितम् ॥

153.161

चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम्
गन्धर्वकिंनरोद्गीतम् अप्सरोनृत्यसंकुलम् ॥

153.162

सर्वायुधम् असंबाधं विचित्ररचनोज्ज्वलम्
तं रथं देवराजस्य परिवार्य समन्ततः ॥

153.163

दंशिता लोकपालास्तु तस्थुः सगरुडध्वजाः
ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ॥

153.164

ततो ऽम्बुधय उद्भूतास् ततो नष्टा रविप्रभा
ततस्तमः समुद्भूतं नातो ऽदृश्यन्त तारकाः ॥

153.165

ततो जज्वलुरस्त्राणि ततो ऽकम्पत वाहिनी
एकतस्तारको दैत्यः सुरसंघस्तु चैकतः ॥

153.166

लोकावसादमेकत्र जगत्पालनमेकतः
चराचराणि भूतानि सुरासुरविभेदतः ॥

153.167

तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव
यद्वस्तु किंचिल् लोकेषु त्रिषु सत्तास्वरूपकम्
तत् तत्रादृश्यद् अखिलं खिलीभूतविभूतिकम् ॥

153.168

अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्यपराक्रमौ च
सत्त्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ॥

153.169

अथाभिमुखम् आयान्तं नवभिर्नतपर्वभिः
बाणैरनलकल्पाग्रैर् बिभिदुस्तारकं हृदि ॥

153.170

स तानचिन्त्य दैत्येन्द्रः सुरबाणान्गतान्हृदि
नवभिर्नवभिर्बाणैः सुरान्विव्याध दानवः ॥

153.171

जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः
ततो ऽच्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः ॥

153.172

अनन्तरं च कान्तानाम् अश्रुपातमिवानिशम्
तदप्राप्तं वियत्येव नाशयामास दानवः ॥

153.173

शरैर्यथा कुचरितैः प्रख्यातं परमागतम्
सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ॥

153.174

ततो निवार्य तद्बाण जालं सुरभुजेरितम्
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ॥

153.175

चिछेद पुङ्खदेशेषु स्वके स्थाने च लाघवात्
बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ॥

153.176

कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्ज्वलैः
शास्त्रार्थैः संशयप्राप्तान् यथार्थान्वै विकल्पितैः ॥

153.177

ततः शतेन बाणानां शक्रं विव्याध दानवः
नारायणं च सप्तत्या नवत्या च हुताशनम् ॥

153.178

दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च
धनदं चैव सप्तत्या वरुणं च तथाष्टभिः ॥

153.179

विंशत्या निरृतिं दैत्यः पुनश्चाष्टाभिरेव च
विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ॥

153.180

तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः
गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ॥

153.181

पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः
चकार वर्मजातानि चिछेद च धनूंषि तु
ततो विकवचा देवा विधनुष्काः शरैः कृताः ॥

153.182

अथान्यानि चापानि तस्मिन्सरोषा रणे लोकपाला गृहीत्वा समन्तात्
शरैरक्षयैर्दानवेन्द्रं ततक्षुस् तदा दानवो ऽमर्षसंरक्तनेत्रः ॥

153.183

शरानग्निकल्पान्ववर्षामराणां ततो बाणमादाय कल्पानलाभम्
जघानोरसि क्षिप्रमिन्द्रं सुबाहुं महेन्द्रो व्यकम्पद्रथोपस्थ एव ॥

153.184

विलोक्यान्तरिक्षे सहस्रार्कबिम्बं पुनर्दानवो विष्णुमुद्भूतवीर्यम्
शराभ्यां जघानांसमूले सलीलं ततः केशवस्यापतच्छार्ङ्गमग्रे ॥

153.185

ततस्तारकः प्रेतनाथं पृषत्कैर् वसुं तस्य सव्ये स्मरन्क्षुद्रभावम्
शरैरग्निकल्पैर्जलेशस्य कायं रणे ऽशोषयद्दुर्जयो दैत्यराजः ॥

153.186

शरैरग्निकल्पैश्चकाराशु दैत्यस् तथा राक्षसान्भीतभीतान्दिशासु
पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ॥

153.187*

क्षणाल्लब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः ।
प्रचक्रुः प्रचण्डेन दैत्येन सार्धं महासंगरं संगरग्रासकल्पम् ॥

153.188

अथानम्य चापं हरिस्तीक्ष्णबाणैर् हनत्सारथिं दैत्यराजस्य हृद्यम्
ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम्
यमो बाहुदण्डं रथाङ्गानि वायुर् निशाचारिणाम् ईश्वरस्यापि वर्म ॥

153.189

दृष्ट्वा तद्युद्धममरैर् अकृत्रिमपराक्रमम्
दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः ॥

153.190

मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे
दृष्ट्वा मुद्गरम् आयान्तम् अनिवार्यमथाम्बरे ॥

153.191

रथादाप्लुत्य धरणीम् अगमत्पाकशासनः
मुद्गरो ऽपि रथोपस्थे पपात परुषस्वनः ॥

153.192

स रथं चूर्णयामास न ममार च मातलिः
गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ॥

153.193

स्कन्धे गरुत्मतः सो ऽपि निषसाद विचेतनः
खड्गेन राक्षसेन्द्रस्य निचकर्त च वाहनम् ॥

153.194

यमं च पातयामास भूमौ दैत्यो भुशुण्डिना
वह्निं च भिन्दिपालेन ताडयामास मूर्धनि ॥

153.195

वायुं च दोर्भ्यामुत्क्षिप्य पातयामास भूतले
धनेशं च धनुष्कोट्या कुट्टयामास कोपनः ॥

153.196

ततो देवनिकायानाम् एकैकं समरे ततः
जघानास्त्रैरसंख्येयैर् दैत्येन्द्रो ऽमितविक्रमः ॥

153.197

लब्धसंज्ञः क्षणाद्विष्णुश् चक्रं जग्राह दुर्धरम्
दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ॥

153.198

मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः
पपात चक्रं दैत्यस्य हृदये भास्करद्युति ॥

153.199

व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि
ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितं चिरम् ॥

153.200

यस्मिञ्जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत्
तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः ॥

153.201

व्यशीर्यत विकीर्णार्चिः शतधा खण्डतां गतम्
विनाशमगमन्मुक्तं वायुनासुरवक्षसि ॥

153.202

ज्वलितं ज्वलनाभासम् अङ्कुशं कुलिशं यथा
विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ॥

153.203

रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम्
चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ॥

153.204

महीधरं तम् आयान्तं दैत्यः स्मितमुखस्तदा
जग्राह वामहस्तेन बालकन्दुकलीलया ॥

153.205

ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्छितः
दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ॥

153.206

सो ऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं च न बुद्धवान्
कल्पान्तदहनालोकाम् अजय्यां ज्वलनस्ततः ॥

153.207

शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे
नवा शिरीषमालेव सास्य वक्षस्यराजत ॥

153.208

ततः खड्गं समाकृष्य कोशाद् आकाशनिर्मलम्
भासितासितदिग्भागं लोकपालो ऽपि निरृतिः ॥

153.209

चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च
पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् ॥

153.210

जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम्
मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषुकः ॥

153.211

स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत
स्फुटितक्रकचक्रूर दशनालिर् महाहनुः ॥

153.212

ततो ऽश्विनौ समरुतः ससाध्याः समहोरगाः
यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ॥

153.213

जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः
न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे ॥

153.214

ततो रथादवप्लुत्य तारको दानवाधिपः
जघान कोटिशो देवान् करपार्ष्णिभिरेव च ॥

153.215

हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः
दिशो भीतानि संत्यज्य रणोपकरणानि तु ॥

153.216

लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे
सकेशवान्दृढैः पाशैः पशुमारः पशूनिव ॥

153.217

स भूयो रथमास्थाय जगाम स्वकमालयम्
सिद्धगन्धर्वसंघुष्ट विपुलाचलमस्तकम् ॥

153.218

स्तूयमानो दितिसुतैर् अप्सरोभिर्विनोदितः
त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत्स्वपुरं यथा ॥

153.219

निषसादासने पद्म रागरत्नविनिर्मिते
ततः किंनरगन्धर्व नागनारीविनोदितैः
क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc