भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 152

152.1

तस्मिन्विनिहते दैत्ये ग्रसने लोकनायके
निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ॥

152.2

पट्टिशैर्मुशलैः पाशैर् गदाभिः कुणपैरपि
तीक्ष्णाननैश्च नाराचैश् चक्रैः शक्तिभिरेव च ॥

152.3

तानस्त्रान्दानवैर्मुक्तांश् चित्रयोधी जनार्दनः
एकैकं शतशश्चक्रे बाणैरग्निशिखोपमैः ॥

152.4

ततः क्षीणायुधप्राणा दानवा भ्रान्तचेतसः
अस्त्राण्यादातुमभवन्न् असमर्था यदा रणे ॥

152.5

तदा मृतैर्गजैरश्वैर् जनार्दनमयोधयन्
समन्तात्कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ॥

152.6

बहु कृत्वा वपुर्विष्णुः किंचिच्छान्तभुजो ऽभवत्
उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ॥

152.7

गरुत्मन्कच्चिदश्रान्तस् त्वमस्मिन्नपि साम्प्रतम्
यद्यश्रान्तो ऽसि तद्याहि मथनस्य रथं प्रति ॥

152.8

श्रान्तो ऽस्यथ मुहूर्तं त्वं रणादपसृतो भव
इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ॥

152.9

आससाद रणे दैत्यं मथनं घोरदर्शनम्
दैत्यस्त्वभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम् ॥

152.10

जघान भिन्दिपालेन शितबाणेन वक्षसि
तत्प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे ॥

152.11

जघान पञ्चभिर्बाणैर् मार्जितैश्च शिलाशितैः
पुनर्दशभिर् आकृष्टैस् तं तताड स्तनान्तरे ॥

152.12

विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत
स मुहूर्तं समाश्वास्य जग्राह परिघं तदा ॥

152.13

जघ्ने जनार्दनं चापि परिघेणाग्निवर्चसा
विष्णुस्तेन प्रहारेण किंचिदाघूर्णितो ऽभवत् ॥

152.14

ततः क्रोधविवृत्ताक्षो गदां जग्राह माधवः
मथनं सरथं रोषान् निष्पिपेषाथ रोषतः ॥

152.15

स पपाताथ दैत्येन्द्रः क्षयकाले ऽचलो यथा
तस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ॥

152.16

अवसादं ययुर्दैत्याः कर्दमे करिणो यथा
ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥

152.17

प्रकोपाद्रक्तनयनो महिषो दानवेश्वरः
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ॥

152.18

तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्
शक्त्या च गरुडं वीरो महिषो ऽभ्यहनद्धृदि ॥

152.19

ततो व्यावृत्य वदनं महाचलगुहानिभम्
ग्रस्तुमैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ॥

152.20

अथाच्युतो ऽपि विज्ञाय दानवस्य चिकीर्षितम्
वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ॥

152.21

महिषस्याथ ससृजे बाणौघं गरुडध्वजः
पिधाय वदनं दिव्यैर् दिव्यास्त्रपरिमन्त्रितैः ॥

152.22

स तैर्बाणैरभिहतो महिषो ऽचलसंनिभः
परिवर्तितकायो ऽधः पपात न ममार च ॥

152.23

महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः
महिषासुर मत्तस्त्वं वधं नास्त्रैरिहार्हसि ॥

152.24

योषिद्वध्यः पुरोक्तो ऽसि साक्षात्कमलयोनिना
उत्तिष्ठ जीवितं रक्ष गच्छास्मात्संगराद्द्रुतम् ॥

152.25

तस्मिन्पराङ्मुखे दैत्ये महिषे शुम्भदानवः
संदष्टौष्ठपुटः कोपाद् भ्रुकुटीकुटिलाननः ॥

152.26

निर्मथ्य पाणिना पाणिं धनुरादाय भैरवम्
सज्यं चकार स धनुः शरांश्चाशीविषोपमान् ॥

152.27

स चित्रयोधी दृढमुष्टिपातस् ततस्तु विष्णुं गरुडं च दैत्यः
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः ॥

152.28

विष्णुश्च दैत्येन्द्रशराहतो ऽपि भुशुण्डिमादाय कृतान्ततुल्याम्
तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्त्रं धरणीधराभम् ॥

152.29

तस्मादवप्लुत्य हताच्च मेषाद् भूभौ पदातिः स तु दैत्यनाथः
ततो महीस्थस्य हरिः शरौघान् मुमोच कालानलतुल्यभासः ॥

152.30

शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम्
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ॥

152.31

स तेन विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः
ततो ऽस्य किंचिच् चलितस्य धैर्याद् उवाच शङ्खाम्बुजशार्ङ्गपाणिः ॥

152.32

कुमारिवध्यो ऽसि रणं विमुञ्च शुम्भासुर स्वल्पतरैरहोभिः
वधं न मत्तो ऽर्हसि चेह मूढ वृथैव किं युद्धसमुत्सुको ऽसि ॥

152.33

जम्भो वचो विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम्
गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ॥

152.34

शुम्भो ऽपि विष्णुं परिघेण मूर्ध्नि प्रमृष्टरत्नौघविचित्रभासा
तौ दानवाभ्यां विषमैः प्रहारैर् निपेतुरुर्व्यां घनपावकाभौ ॥

152.35

तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः
धनूंषि चास्फोट्य सुराभिघातैर् व्यदारयन्भूमिमपि प्रचण्डाः
वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ॥

152.36

अथ संज्ञामवाप्याशु गरुडो ऽपि सकेशवः
पराङ्मुखो रणात्तस्मात् पलायत महाजवः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc