मत्स्य पुराण · अध्याय 150
अथ ग्रसनमालोक्य यमः क्रोधविमूर्छितः
ववर्ष शरवर्षेण विशेषेणाग्निवर्चसा ॥
स विद्धो बहुभिर्बाणैर् ग्रसनो ऽतिपराक्रमः
कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम् ॥
शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयत्
स विचिन्त्य यमो बाणान् ग्रसनस्यातिपौरुषम् ॥
बाणवृष्टिभिरुग्राभिर् यमो ग्रसनमर्दयत्
कृतान्तशरवृष्टिं तां वियति प्रतिसर्पिणीम् ॥
चिछेद शरवर्षेण ग्रसनो दानवेश्वरः
विफलां तां समालोक्य यमस्तां शरसंततिम् ॥
स विचिन्त्य शरव्रातं ग्रसनस्य रथं प्रति
चिक्षेप मुद्गरं घोरं तरसा तस्य चान्तकः ॥
स तं मुद्गरम् आयान्तम् उत्प्लुत्य गगनस्थितम्
जग्राह वामहस्तेन याम्यं दानवनन्दनः ॥
तमेव मुद्गरं गृह्य यमस्य महिषं रुषा
पातयामास वेगेन स पपात महीतले ॥
उत्प्लुत्याथ यमस्तस्मान् महिषान्निष्पतिष्यतः
प्रासेन ताडयामास ग्रसनं वदने दृढम् ॥
स तु प्रासप्रहारेण मूर्छितो न्यपतद्भुवि
ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः ॥
यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥
कृतान्तं मर्दितं दृष्ट्वा गदापाणिर्धनाधिपः
वृतो यक्षायुतशतैर् जम्भं प्रत्युद्ययौ रुषा ॥
जम्भो रुषा तम् आयान्तं दानवानीकसंवृतः
उवाच प्राज्ञो वाक्यं तु यथा स्निग्धेन भाषितम् ॥
ग्रसनो लब्धसंज्ञो ऽथ यमस्य प्राहिणोद्गदाम्
मणिहेमपरिष्कारां गुर्वीम् अरिविमर्दिनीम् ॥
तामप्रतर्क्यां सम्प्रेक्ष्य गदां महिषवाहनः
गदायाः प्रतिघातार्थं जगद्दलनभैरवम् ॥
दण्डं मुमोच कोपेन ज्वालामालासमाकुलम्
स गदां वियति प्राप्य ररासाम्बुधरो यथा ॥
संघट्टमभवत्ताभ्यां शैलाभ्यामिव दुःसहम्
ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगन्तरम् ॥
जगद् व्याकुलतां यातं प्रलयागमशङ्कया
क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम् ॥
निष्पेषणे तयोर्भीमम् अभूद्गगनगोचरम्
निहत्याथ गदां दण्डस् ततो ग्रसनमूर्धनि ॥
हृत्वा श्रियमिवानर्थो दुर्वृत्तस्यापतद्दृढः
स तु तेन प्रहारेण दृष्ट्वा सतिमिरा दिशः ॥
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः
ततो हाहारवो घोरः सेनयोरुभयोरभूत् ॥
ततो मुहूर्तमात्रेण ग्रसनः प्राप्य चेतनाम्
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणाम्बराम् ॥
स चापि चिन्तयामास कृते प्रतिकृतिक्रियाम्
मद्विधे वस्तुनि पुंसि प्रभोः परिभवोदयात् ॥
मय्याश्रितानि सैन्यानि जिते मयि विनाशिता
असंभावित एवास्तु जनः स्वच्छन्दचेष्टितः ॥
न तु व्यर्थशतोद्घुष्ट संभावितधनो नरः
एवं संचिन्त्य वेगेन समुत्तस्थौ महाबलः ॥
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभः
ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः ॥
रथेन त्वरितो गच्छन् नाससादान्तकं रणे
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम् ॥
वेगेन महता रौद्रं चिक्षेप यममूर्धनि
विलोक्य मुद्गरं दीप्तं यमः संभ्रान्तलोचनः ॥
वञ्चयामास दुर्धर्षं मुद्गरं स महाबलः
तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम् ॥
याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह
ततस्तां निहतां दृष्ट्वा घोरां किंकरवाहिनीम् ॥
अगमत्परमं क्षोभं नानाप्रहरणोद्यतः
ग्रसनस्तु समालोक्य तां किंकरमयीं चमूम् ॥
मेने यमसहस्राणि सृष्टानि यममायया
निग्राह्य ग्रसनः सेनां विसृजन्नस्त्रवृष्टयः ॥
कल्पान्तघोरसंकाशो बभूव क्रोधमूर्छितः
कांश्चिद्बिभेद शूलेन कांश्चिद्बाणैरजिह्मगैः ॥
कांश्चित् पिपेष गदया कांश्च मुद्गरवृष्टिभिः
केचित्प्रासप्रहारैश्च दारुणैस्ताडितास्तदा ॥
अपरे बहुशस्तस्य ललम्बुर्बाहुमण्डले
शिलाभिरपरे जघ्नुर् द्रुमैरन्यैर्महोच्छ्रयैः ॥
तस्यापरे तु गात्रेषु दशनैरप्यदंशयन्
अपरे मुष्टिभिः पृष्ठं किंकराः प्रहरन्ति च ॥
अभिद्रुतस्तथा घोरैर् ग्रसनः क्रोधमूर्छितः
उत्सृज्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः ॥
कांश्चिदुत्थाय मुष्टिभिर् जघ्ने किंकरसंश्रयान्
स तु किंकरयुद्धेन ग्रसनः श्रममाप्तवान् ॥
तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम्
आजगाम समुद्यम्य दण्डं महिषवाहनः ॥
ग्रसनस्तु समायान्तम् आजघ्ने गदयोरसि
अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तको ऽरिहा ॥
जघ्ने रथस्य मूर्धन्यान् व्याघ्रान्दण्डेन कोपनः
स रथो दण्डमथितैर् व्याघ्रैरर्धैर् विकृष्यते ॥
संशयः पुरुषस्येव चित्तं दैत्यस्य तद्रथम्
समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः ॥
यमं भुजाभ्यामादाय योधयामास दानवः
यमो ऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत ॥
ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः
भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः ॥
यमो ऽपि कण्ठे ऽवष्टभ्य दैत्यं बाहुयुगेन तु
वेगेन भ्रामयामास समुत्कृष्य महीतलात् ॥
ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः
दैत्येन्द्रस्यातिकायत्वात् ततः श्रान्तभुजो यमः ॥
स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत
तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा ॥
निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः
यावद्यमस्य वदनात् सुस्राव रुधिरं बहु ॥
निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः
जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः ॥
स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः
धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः ॥
दिशो ऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम्
ततः क्रोधपरीतस्तु धनेशो जम्भदानवम् ॥
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम्
सारथिं च शतेनाजौ ध्वजं दशभिरेव च ॥
हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः
मार्गणैर् बर्हिपत्त्राङ्गैस् तैलधौतैरजिह्मगैः ॥
सिंहमेकेन तं तीक्ष्णैर् विव्याध दशभिः शरैः
जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम् ॥
हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः
जग्राह निशितान्बाणाञ् छत्रुमर्मविभेदिनः ॥
आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः
विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः ॥
सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि
चिछेद ज्यामथैकेन तैलधौतेन दानवः ॥
ततस्तु निशितैर्बाणैर् दारुणैर् मर्मभेदिभिः
विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत् ॥
मोहं परमतो गच्छन् दृढविद्धो हि वित्तपः
स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम् ॥
किरन्बाणसहस्राणि निशितानि धनाधिपः
दिशः खं विदिशो भूमीर् अनीकान्यसुरस्य च ॥
पूरयामास वेगेन संछाद्य रविमण्डलम्
जम्भो ऽपि परमेकैकं शरैर्बहुभिराहवे ॥
चिछेद लघुसंधानो धनेशस्यातिपौरुषात्
ततो धनेशः संक्रुद्धो दानवेन्द्रस्य कर्मणा ॥
व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः
तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः ॥
गृहीत्वा मुद्गरं भीमम् आयसं हेमभूषितम्
धनदानुचरान्यक्षान् निष्पिपेष सहस्रशः ॥
ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान्
रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः ॥
दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम्
तेन दैत्यसहस्राणि सूदयामास सत्वरः ॥
क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः
जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम् ॥
स तेन शितधारेण धनभर्तुर् महारथम्
चिछेद शतशो दैत्यो ह्य् आखुः स्निग्धमिवाम्बरम् ॥
पदातिरथ वित्तेशो गदामादाय भैरवीम्
महाहवविमर्देषु दृप्तशत्रुविनाशिनीम् ॥
अधृष्यां सर्वभूतानां बहुवर्षगणार्चिताम्
नानाचन्दनदिग्धाङ्गां दिव्यपुष्पविवासिताम् ॥
निर्मलायोमयीं गुर्वीम् अमोघां हेमभूषणाम्
चिक्षेप मूर्ध्नि संक्रुद्धो जम्भस्य तु धनाधिपः ॥
आयान्तीं तां समालोक्य तडित्संघातमण्डिताम्
दैत्यो गदाभिघातार्थं शस्त्रवृष्टिं मुमोच ह ॥
चक्राणि कुणपान्प्रासान् भुशुण्डीः पट्टिशानपि
हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः ॥
व्यर्थीकृत्य तु तान्सर्वान् आयुधान्दैत्यवक्षसि
प्रस्फुरन्ती पपातोग्रा महोल्केवाद्रिकन्दरे ॥
स तयाभिहतो गाढं पपात रथकूबरे
स्रोतोभिश्चास्य रुधिरं सुस्राव गतचेतसः ॥
जम्भं तु निहतं मत्वा कुजम्भो भैरवस्वनः
धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः ॥
चक्रे बाणमयं जालं दिक्षु यक्षाधिपस्य तु
चिछेद बाणजालं तद् अर्धचन्द्रैः शितैस्ततः ॥
मुमोच शरवृष्टिं तु तस्मै यक्षाधिपो बली
स तं दैत्यः शरव्रातं चिछेद निशितैः शरैः ॥
व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः
शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम् ॥
बाहुना रत्नकेयूर कान्तिसंतानहासिना
स तां निरूप्य वेगेन कुजम्भाय मुमोच ह ॥
सा कुजम्भस्य हृदयं दारयामास दारुणम्
वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता ॥
अथास्य हृदयं भित्त्वा जगाम धरणीतलम्
ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः ॥
जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम्
स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम् ॥
वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा
निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा ॥
तेन पट्टिशघातेन धनेशः परिमूर्छितः
निपपात रथोपस्थे जर्जरो धूर्वहो यथा ॥
तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम्
खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः ॥
अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम्
अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम् ॥
चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति
स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम् ॥
रथादाप्लुत्य वेगेन भूषणद्युतिभास्वरः
खड्गेन कमलानीव विकोशेनाम्बरत्विषा ॥
चिछेद रिपुवक्त्राणि विचित्राणि समन्ततः
तिर्यक्पृष्ठमधश्चोर्ध्वं दीर्घबाहुर्महासिना ॥
संदष्टौष्ठपुटाटोप भ्रुकुटीविकटाननः
प्रचण्डकोपरक्ताक्षो न्यकृन्तद्दानवान्रणे ॥
ततो निःशेषितप्रायां विलोक्य स्वामनीकिनीम्
मुक्त्वा कुजम्भो धनदं राक्षसेन्द्रमभिद्रवन् ॥
लब्धसंज्ञो ऽथ जम्भस्तु धनाध्यक्षपदानुगान्
जीवग्राहान्स जग्राह बद्ध्वा पाशैः सहस्रशः ॥
मूर्तिमन्ति तु रत्नानि विविधानि च दानवाः
वाहनानि च दिव्यानि विमानानि सहस्रशः ॥
धनेशो लब्धसंज्ञो ऽथ तामवस्थां विलोक्य तु
निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः ॥
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके
मुमोच दानवानीके तं बाणं शत्रुदारणम् ॥
प्रथमं कार्मुकात्तस्य निश्चेरुर्धूमराजयः
अनन्तरं स्फुलिङ्गानां कोटयो दीप्तवर्चसाम् ॥
ततो ज्वालाकुलं व्योम चकारास्त्रं समन्ततः
ततः क्रमेण दुर्वारं नानारूपं तदाभवत् ॥
अमूर्तश्चाभवल्लोको ह्य् अन्धकारसमावृतः
ततो ऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम् ॥
कुजम्भस्तत्समालोच्य दानवो ऽतिपराक्रमः
अभिदुद्राव वेगेन पदातिर्धनदं नदन् ॥
अथाभिमुखम् आयान्तं दैत्यं दृष्ट्वा धनाधिपः
बभूव सम्भ्रमाविष्टः पलायनपरायणः ॥
ततः पलायतस्तस्य मुकुटं रत्नमण्डितम्
पपात भूतले दीप्तं रविबिम्बमिवाम्बरात् ॥
शूराणामभिजातानां भर्तर्यपसृते रणात्
मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः ॥
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः
युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम् ॥
अभिमानधना वीरा धनदस्य पदानुगाः
तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः ॥
भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम्
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान् ॥
तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे
समारोप्यामररिपुर् जित्वा धनदमाहवे ॥
धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च
आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्रसिंहः
धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम् ॥
कुजम्भेनाथ संसक्तो रजनीचरनन्दनः
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः ॥
मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम्
ततो विफलनेत्राणि दानवानां बलानि तु ॥
न शेकुश्चलितं तत्र पदादपि पदं तदा
ततो नानास्त्रवर्षेण दानवानां महाचमूम् ॥
जघान घननीहार तिमिरातुरवाहनाम्
वध्यमानेषु दैत्येषु कुजम्भे मूढचेतसि ॥
महिषो दानवेन्द्रस्तु कल्पान्ताम्भोदसंनिभः
अस्त्रं चकार सावित्रम् उल्कासंघातमण्डितम् ॥
विजृम्भत्यथ सावित्रे परमास्त्रे प्रतापिनि
प्रणाशमगमत्तीव्रं तमो घोरमनन्तरम् ॥
ततो ऽस्त्रं विस्फुलिङ्गाङ्कं तमः कृत्स्नं व्यनाशयत्
प्रफुल्लारुणपद्मौघं शरदीवामलं सरः ॥
ततस्तमसि संशान्ते दैत्येन्द्राः प्राप्तचक्षुषः
चक्रुः क्रूरेण मनसा देवानीकैः सहाद्भुतम् ॥
शस्त्रैरमर्षान्निर्मुक्तैर् भुजंगास्त्रं विनोदितम्
अथादाय धनुर्घोरम् इषूंश्चाशीविषोपमान् ॥
कुजम्भो ऽधावत क्षिप्तं रक्षोराजबलं प्रति
राक्षसेन्द्रस्तम् आयान्तं विलोक्य सपदानुगः ॥
विव्याध निशितैर्बाणैः क्रूराशीविषभीषणैः
तदादानं च संधानं न मोक्षश्चापि लक्ष्यते ॥
चिछेदास्य शरव्रातान् स्वशरैर् अतिलाघवात्
ध्वजं परमतीक्ष्णेन चित्रकर्मामरद्विषः ॥
सारथिं चास्य भल्लेन रथनीडादपातयत्
कुजम्भः कर्म तद्दृष्ट्वा राक्षसेन्द्रस्य संयुगे ॥
रोषरक्तेक्षणयुतो रथादाप्लुत्य दानवः
खड्गं जग्राह वेगेन शरदम्बरनिर्मलम् ॥
चर्म चोदयखण्डेन्दु दशकेन विभूषितम्
अभ्यद्रवद्रणे दैत्यो रक्षो ऽधिपतिमोजसा ॥
तं रक्षो ऽधिपतिः प्राप्तं मुद्गरेणाहनद्धृदि
स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः ॥
तस्थावचेष्टो दनुजो यथा धीरो धराधरः
स मुहूर्तं समाश्वस्तो दानवेन्द्रो ऽतिदुर्जयः ॥
रथमारुह्य जग्राह रक्षो वामकरेण तु
केशेषु निरृतिं दैत्यो जानुनाक्रम्य धिष्ठितम् ॥
ततः खड्गेन च शिरश् छेत्तुमैच्छदमर्षणः
तस्मिंस्तदन्तरे देवो वरुणो ऽपांपतिर्द्रुतम् ॥
पाशेन दानवेन्द्रस्य बबन्ध च भुजद्वयम्
ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् ॥
ताडयामास गदया दयामुत्सृज्य पाशभृत्
स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन् ॥
दधार रूपं मेघस्य विद्युन्मालालतावृतम्
तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः ॥
व्यावृत्तवदने ऽगाधे ग्रस्तुमैच्छत् सुरावुभौ
निरृतिं वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः ॥
तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम्
त्यक्त्वा रथपथं भीतौ महिषस्यातिरंहसा ॥
भृशं द्रुतौ जवाद् दिग्भ्याम् उभाभ्यां भयविह्वलौ
जगाम निरृतिः क्षिप्रं शरणं पाकशासनम् ॥
क्रुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः
तमन्तकमुखासक्तम् आलोक्य हिमवद्द्युतिः ॥
चक्रे सोमास्त्रनिःसृष्टं हिमसंघातकण्टकम्
वायव्यं चास्त्रमतुलं चन्द्रश्चक्रे द्वितीयकम् ॥
वायुना तेन चन्द्रेण संशुष्केण हिमेन च
व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः ॥
न शेकुश्चलितुं पद्भ्यां नास्त्राण्यादातुमेव च
महाहिमनिपातेन शस्त्रैश्चन्द्रप्रचोदितैः ॥
गात्राण्यसुरसैन्यानाम् अदह्यन्त समन्ततः
महिषो निष्प्रयत्नस्तु शीतेनाकम्पिताननः ॥
कक्षावालम्ब्य पाणिभ्याम् उपविष्टो ह्यधोमुखः
सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः ॥
रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः
तत्राब्रवीत्कालनेमिर् दैत्यान्कोपेन दीपितः ॥
भो भोः शृङ्गारिणः शराः सर्वे शस्त्रास्त्रपारगाः
एकैको ऽपि जगत्सर्वं शक्तस्तुलयितुं भुजैः ॥
एकैको ऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम्
एकैकस्यापि पर्याप्ता न सर्वे ऽपि दिवौकसः ॥
कलां पूरयितुं यत्नात् षोडशीमतिविक्रमाः
किं प्रयाताश्च तिष्ठध्वं समरे ऽमरनिर्जिताः ॥
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्
राजा चान्तरितो ऽस्माकं तारको लोकमारकः ॥
विरतानां रणादस्मात् क्रुद्धः प्राणान्हरिष्यति
शीतेन नष्टश्रुतयो भ्रष्टवाक्पाटवास्तथा ॥
मूकास्तदाभवन्दैत्या रणद्दशनपङ्क्तयः
तान्दृष्ट्वा नष्टचेतस्कान् दैत्याञ्छीतेन सादितान् ॥
मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः
आश्रित्य दानवीं मायां वितत्य स्वं महावपुः ॥
पूरयामास गगनं दिशो विदिश एव च
निर्ममे दानवेन्द्रेशः शरीरे भास्करायुतम् ॥
दिशश्च मायया चण्डैः पूरयामास पावकैः
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात् ॥
तेन ज्वालासमूहेन हिमांशुरगमच्छमम्
ततः क्रमेण विभ्रष्टं शीतदुर्दिनम् आबभौ ॥
तद्बलं दानवेन्द्राणां मायया कालनेमिनः
तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः
उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः ॥
नयारुण रथं शीघ्रं कालनेमिरथो यतः
विमर्दस्तत्र विषमो भविता शूरसंक्षयः ॥
जित एष शशाङ्को ऽत्र यद्बलं वयमाश्रिताः
इत्युक्तश्चोदयामास रथं गरुडपूर्वजः ॥
प्रयत्नविधृतैरश्वैः सितचामरमालिभिः
जगद्दीपो ऽथ भगवाञ् जग्राह विततं धनुः ॥
शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती
संचारास्त्रेण संधाय बाणमेकं ससर्ज सः ॥
द्वितीयमिन्द्रजालेन योजितं प्रमुमोच ह
संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम् ॥
देवानां दानवं रूपं दानवानां च दैविकम्
मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् ॥
कालनेमी रुषाविष्टः कृतान्त इव संक्षये
कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन् नाराचवृष्टिभिः
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः ॥
शिरांसि केषांचिदपातयच्च भुजान्रथान्सारथींश्चोग्रवेगः
कांश्चित् पिपेषाथ रथस्य वेगात् कांश्चित्क्रुधा चोद्धतमुष्टिपातैः ॥
रणे विनिहतान्दृष्ट्वा नेमिः स्वान्दानवाधिपः
रूपं स्वं तु प्रपद्यन्त ह्य् असुराः सुरधर्षिताः ॥
कालनेमी रुषाविष्टस् तेषां रूपं न बुद्धवान्
नेमिदैत्यस्तु तान्दृष्ट्वा कालनेमिमुवाच ह ॥
अहं नेमिः सुरो नैव कालनेमे विदस्व माम्
भवता मोहितेनाजौ निहता भूरिविक्रमाः ॥
दैत्यानां दशलक्षाणि दुर्जयानां सुरैरिह
सर्वास्त्रवारणं मुञ्च ब्राह्ममस्त्रं त्वरान्वितः ॥
स तेन बोधितो दैत्यः सम्भ्रमाकुलचेतनः
योजयामास बाणं हि ब्रह्मास्त्रविहितेन तु ॥
मुमोच चापि दैत्येन्द्रः स स्वयं सुरकण्टकः
ततो ऽस्त्रतेजसा व्याप्तं त्रैलोक्यं सचराचरम् ॥
देवानां चाभवत्सैन्यं सर्वमेव भयान्वितम्
संचरास्त्रं च संशान्तं स्वयमायोधने बभौ ॥
तस्मिन्प्रतिहते ह्यस्त्रे भ्रष्टतेजा दिवाकरः
महेन्द्रजालमाश्रित्य चक्रे स्वां कोटिशस्तनुम् ॥
विस्फूर्जत्करसम्पात समाक्रान्तजगत्त्रयम्
तताप दानवानीकं गतमज्जौघशोणितम् ॥
ततश्चावर्षदनलं समन्ताद् अतिसंहतम्
चक्षूंषि दानवेन्द्राणां चकारान्धानि च प्रभुः ॥
गजानामगलन्मेदः पेतुश्चाप्यरवा भुवि
तुरगा निःश्वसन्तश्च घर्मार्ता रथिनो ऽपि च ॥
इतश्चेतश्च सलिलं प्रार्थयन्तस्तृषातुराः
प्रच्छायविटपांश्चैव गिरीणां गह्वराणि च ॥
तेषां प्रार्थयतां शीतं द्रुमान्तरविसर्पिणाम्
दावाग्निः प्रज्वलंश्चैव घोरार्चिर्दग्धपादपः
तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लोलमालिनम् ॥
पुरःस्थितमपि प्राप्तुं न शेकुरवमर्दिताः
अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः ॥
तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि
रथा गजाश्च पतितास् तुरगाश्च समापिताः ॥
स्थिता वमन्तो धावन्तो गलद्रक्तवसासृजः
दानवानां सहस्राणि व्यदृश्यन्त मृतानि तु ॥
संक्षये दानवेन्द्राणां तस्मिन्महति वर्तिते
प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः ॥
अभवत्कल्पमेघाभः स्फुरद्भूरिशतह्रदः
गम्भीरास्फोटनिर्ह्राद जगद्धृदयघट्टकः ॥
प्रच्छाद्य गगनाभोगं रविमायां व्यनाशयत्
शीतं ववर्ष सलिलं दानवेन्द्रबलं प्रति ॥
दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात्
बीजाङ्कुरा इवाम्लानाः प्राप्य वृष्टिं धरातले ॥
ततः स मेघरूपी तु कालनेमिर्महासुरः
शस्त्रवृष्टिं ववर्षोग्रां देवानीकेषु दुर्जयाम् ॥
तया वृष्ट्या बाध्यमाना दैत्येन्द्राणां महौजसाम्
गतिं कां च न पश्यन्तो गावः शीतार्दिता इव ॥
परस्परं व्यलीयन्त पृष्ठेषु व्यस्त्रपाणयः
स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च ॥
रथेषु त्वमरास्त्रस्तास् तत्र तत्र निलिल्यिरे
अपरे कुञ्चितैर्गात्रैः स्वहस्तपिहिताननाः ॥
इतश्चेतश्च संभ्रान्ता बभ्रमुर्वै दिशो दश
एवंविधे तु संग्रामे तुमुले देवसंक्षये ॥
दृश्यन्ते पतिता भूमौ शस्त्रभिन्नाङ्गसंधयः
विभुजा भिन्नमूर्धानस् तथा छिन्नोरुजानवः ॥
विपर्यस्तरथासङ्गा निष्पिष्टध्वजपङ्क्तयः
निर्भिन्नाङ्गैस्तुरंगैस्तु गजैश्चाचलसंनिभैः ॥
स्रुतरक्तह्रदैर्भूमिर् विकृताविकृता बभौ
एवमाजौ बली दैत्यः कालनेमिर्महासुरः ॥
जघ्ने मुहूर्तमात्रेण गन्धर्वाणां दशायुतम्
यक्षाणां पञ्च लक्षाणि रक्षसामयुतानि षट् ॥
त्रीणि लक्षाणि जघ्ने स किंनराणां तरस्विनाम्
जघ्ने पिशाचमुख्यानां सप्त लक्षाणि निर्भयः ॥
इतरेषामसंख्याताः सुरजातिनिकायिनाम्
जघ्ने स कोटीः संक्रुद्धश् चित्रास्त्रैरस्त्रकोविदः ॥
एवं परिभवे भीमे तदा त्वमरसंक्षये
संक्रुद्धावश्विनौ देवौ चित्रास्त्रकवचोज्ज्वलौ ॥
जघ्नतुः समरे दैत्यं कृतान्तानलसंनिभम्
तमासाद्य रणे घोरम् एकैकः षष्टिभिः शरैः ॥
जघ्ने मर्मसु तीक्ष्णाग्रैर् असुरं भीमदर्शनम्
ताभ्यां बाणप्रहारैः स किंचिदायस्तचेतनः ॥
जग्राह चक्रमष्टारं तैलधौतं रणान्तकम्
तेन चक्रेण सो ऽश्विभ्यां चिछेद रथकूबरम् ॥
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान्
ववर्ष भिषजो मूर्ध्नि संछाद्याकाशगोचरम् ॥
तावप्यस्त्रैश्चिछिदतुः शितैस्तैर्दैत्यसायकान्
तच्च कर्म तयोर्दृष्ट्वा विस्मितः कोपमाविशत् ॥
महता स तु कोपेन सर्वायोमयसादनम्
जग्राह मुद्गरं भीमं कालदण्डविभीषणम् ॥
स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति
तं तु मुद्गरम् आयान्तम् आलोक्याम्बरगोचरम् ॥
त्यक्त्वा रथौ तु तौ वेगाद् आप्लुतौ तरसाश्विनौ
तौ रथौ स तु निष्पिष्य मुद्गरो ऽचलसंनिभः ॥
दारयामास धरणीं हेमजालपरिष्कृतः
तस्य कर्माश्विनौ दृष्ट्वा भिषजौ चित्रयोधिनौ ॥
वज्रास्त्रं तु प्रकुर्वाते दानवेन्द्रनिवारणम्
ततो वज्रमयं वर्षं प्रावर्तद् अतिदारुणम् ॥
घोरवज्रप्रहारैस्तु दैत्येन्द्रः स परिष्कृतः
रथो ध्वजो धनुश्चक्रं कवचं चापि काञ्चनम् ॥
क्षणेन तिलशो जातं सर्वसैन्यस्य पश्यतः
तद्दृष्ट्वा दुष्करं कर्म सो ऽश्विभ्यां भीमविक्रमः ॥
नारायणास्त्रं बलवान् मुमोच रणमूर्धनि
वज्रास्त्रं शमयामास दानवेन्द्रो ऽस्त्रतेजसा ॥
तस्मिन्प्रशान्ते वज्रास्त्रे कालनेमिरनन्तरम्
जीवग्राहं ग्राहयितुम् अश्विनौ तु प्रचक्रमे ॥
तावश्विनौ रणाद्भीतौ सहस्राक्षरथं प्रति
प्रयातौ वेपमानौ तु पदा शस्त्रविवर्जितौ ॥
तयोरनुगतो दैत्यः कालनेमिर्महाबलः
प्राप्येन्द्रस्य रथं क्रूरो दैत्यानीकपदानुगः ॥
तं दृष्ट्वा सर्वभूतानि वित्रेसुर्विह्वलानि तु
दृष्ट्वा दैत्यस्य तत्क्रौर्यं सर्वभूतानि मेनिरे ॥
पराजयं महेन्द्रस्य सर्वलोकक्षयावहम्
चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् ॥
जगर्जुर्जलदा दिक्षु ह्य् उद्भूताश्च महार्णवाः
तां भूतविकृतिं दृष्ट्वा भगवान्गरुडध्वजः ॥
व्यबुध्यताहिपर्यङ्के योगनिद्रां विहाय तु
लक्ष्मीकरयुगाजस्र लालिताङ्घ्रिसरोरुहः ॥
शरदम्बरनीलाब्ज कान्तदेहछविर्विभुः
कौस्तुभोद्भासितोरस्कः कान्तकेयूरभास्वरः ॥
विमृश्य सुरसंक्षोभं वैनतेयं समाह्वयत्
आहूते ऽवस्थिते तस्मिन् नागावस्थितवर्ष्मणि ॥
दिव्यनानास्त्रतीक्ष्णार्चिर् आरुह्यागात् सुरान्स्वयम्
तत्रापश्यत देवेन्द्रम् अभिद्रुतमभिप्लुतैः ॥
दानवेन्द्रैर्नवाम्भोद सच्छायैः पौरुषोत्कटैः
यथा हि पुरुषं घोरैर् अभाग्यैर्वंशशालिभिः ॥
परित्राणायाशु कृतं सुक्षेत्रे कर्म निर्मलम्
अथापश्यन्त दैतेया वियति ज्योतिर्मण्डलम् ॥
स्फुरन्तमुदयाद्रिस्थं सूर्यमुष्णत्विषा इव
प्रभावं ज्ञातुमिच्छन्तो दानवास्तस्य तेजसः ॥
गरुत्मन्तमपश्यन्तः कल्पान्तानलसंनिभम्
तमास्थितं च मेघौघ द्युतिमक्षयमच्युतम् ॥
तम् आलोक्यासुरेन्द्रास्तु हर्षसम्पूर्णमानसाः
अयं वै देवसर्वस्वं जिते ऽस्मिन्निर्जिताः सुराः ॥
अयं स दैत्यचक्राणां कृतान्तः केशवो ऽरिहा
एनमाश्रित्य लोकेषु यज्ञभागभुजो ऽमराः ॥
इत्युक्त्वा दानवाः सर्वे परिवार्य समन्ततः
निजघ्नुर्विविधैरस्त्रैस् ते तम् आयान्तम् आहवे ॥
कालनेमिप्रभृतयो दश दैत्या महारथाः
षष्ट्या विव्याध बाणानां कालनेमिर्जनार्दनम् ॥
निमिः शतेन बाणानां मथनो ऽशीतिभिः शरैः
जम्भकश्चैव सप्तत्या शुम्भो दशभिरेव च ॥
शेषा दैत्येश्वराः सर्वे विष्णुमेकैकशः शरैः
दशभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे ॥
तेषाम् अमृष्य तत्कर्म विष्णुर्दानवसूदनः
एकैकं दानवं जघ्ने षड्भिः षड्भिरजिह्मगैः ॥
आकर्णकृष्टैर्भूयश्च कालनेमिस् त्रिभिः शरैः
विष्णुं विव्याध हृदये क्रोधाद्रक्तविलोचनः ॥
तस्याशोभन्त ते बाणा हृदये तप्तकाञ्चनाः
मयूखानीव दीप्तानि कौस्तुभस्य स्फुटत्विषः ॥
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम्
सततं भ्राम्य वेगेन दानवाय व्यसर्जयत् ॥
दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः
चिछेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् ॥
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम्
तेन दैत्यस्य हृदयं ताडयामास गाढतः ॥
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः
शक्तिं जग्राह तीक्ष्णाग्रां हेमघण्टाट्टहासिनीम् ॥
तया वामभुजं विष्णोर् बिभेद दितिनन्दनः
भिन्नः शक्त्या भुजस्तस्य स्रुतशोणित आबभौ ॥
पद्मरागमयेनेव केयूरेण विभूषितः
ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः ॥
सप्तदश च नाराचांस् तीक्ष्णान्मर्मविभेदिनः
दैत्यस्य हृदयं षड्भिर् विव्याध च त्रिभिः शरैः ॥
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्त्रिणा
द्वाभ्यां ज्याधनुषी चापि भुजं सव्यं च पत्त्रिणा ॥
स विद्धो हृदये गाढं दैत्यो हरिशिलीमुखैः
स्रुतरक्तारुणप्रांशुः पीडाकुलितमानसः ॥
चकम्पे मारुतेनेव नोदितः किंशुकद्रुमः
तमाकम्पितमालक्ष्य गदां जग्राह केशवः ॥
तां च वेगेन चिक्षेप कालनेमिरथं प्रति
सा पपात शिरस्युग्रा विपुला कालनेमिनः ॥
संचूर्णितोत्तमाङ्गस्तु निष्पिष्टमुकुटो ऽसुरः
स्रुतरक्तौघरन्ध्रस्तु स्रुतधातुरिवाचलः ॥
प्रापतत्स्वे रथे भग्ने विसंज्ञः शिष्टजीवितः
पतितस्य रथोपस्थे दानवस्याच्युतो ऽरिहा ॥
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः
गच्छासुर विमुक्तो ऽसि साम्प्रतं जीव निर्भयः ॥
ततः स्वल्पेन कालेन अहमेव तवान्तकः
एतच्छ्रुत्वा वचस्तस्य सारथिः कालनेमिनः
अपवाह्य रथं दूरम् अनयत्कालनेमिनः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0