मत्स्य पुराण · अध्याय 149
सुरासुराणां सम्मर्दस् तस्मिन्नत्यन्तदारुणे
तुमुलो ऽतिमहानासीत् सेनयोरुभयोरपि ॥
गर्जतां देवदैत्यानां शङ्खभेरीरवेण च
तूर्याणां चैव निर्घोषैर् मातंगानां च बृंहितैः ॥
ह्वेषतां हयवृन्दानां रथनेमिस्वनेन च
ज्याघोषेण च शूराणां तुमुलो ऽतिमहानभूत् ॥
समासाद्योभये सेने परस्परजयैषिणाम्
रोषेणातिपरीतानां त्यक्तजीवितचेतसाम् ॥
समासाद्य तु ते ऽन्योन्यं प्रक्रमेण विलोमतः
रथेनासक्तपादातो रथेन च तुरंगमः ॥
हस्ती पदातिसंयुक्तो रथिना च क्वचिद्रथी
मातंगेनापरो हस्ती तुरंगैर्बहुभिर्गजः ॥
पदातिरेको बहुभिर् गजैर्मत्तैश्च युज्यते
ततः प्रासाशनिगदा भिन्दिपालपरश्वधैः ॥
शक्तिभिः पट्टिशैः शूलैर् मुद्गरैः कुणपैर्गडैः
चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः सितैः ॥
कर्णिनालीकनाराच वत्सदन्तार्धचन्द्रकैः
भल्लैश्च शतपत्त्रैश्च शुकतुण्डैश्च निर्मलैः ॥
वृष्टिरत्यद्भुताकारा गगने समदृश्यत
संप्रच्छाद्य दिशः सर्वास् तमोमयमिवाकरोत् ॥
न प्राज्ञायत ते ऽन्योन्यं तस्मिंस्तमसि संकुले
अलक्ष्यं विसृजन्तस्ते हेतिसंघातमुद्धतम् ॥
पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम्
ततो ध्वजैर्भुजैश्छत्त्रैः शिरोभिश्च सकुण्डलैः ॥
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि
आकाशसरसो भ्रष्टैः पङ्कजैरिव भूः स्तृता ॥
भग्नदन्ता भिन्नकुम्भाश् छिन्नदीर्घमहाकराः
गजाः शलनिभाः पेतुर् धरण्यां रुधिरस्रवाः ॥
भग्नेषादण्डचक्राक्षा रथाश्च शकलीकृताः
पेतुः शकलतां यातास् तुरंगाश्च सहस्रशः ॥
ततो ऽसृघ्रददुस्तारा पृथिवी समजायत
नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम्
वेतालाक्रीडमभवत् तत्संकुलरणाजिरम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0